अर्थानर्थसंशययुक्ताः - तासां उपायविकल्पजाः सिद्धयः

विश्वास-प्रस्तुतिः - 01

01 कामादिरुत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः

मूलम् - 01

01 कामादिरुत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः

विश्वास-प्रस्तुतिः - 02

02 तद् उभयं आसुरी वृत्तिः

मूलम् - 02

02 तद् उभयं आसुरी वृत्तिः

विश्वास-प्रस्तुतिः - 03

03 स्वजनविकारः कोपः

मूलम् - 03

03 स्वजनविकारः कोपः

विश्वास-प्रस्तुतिः - 04

04 परवृद्धिहेतुषु आपद्ऽर्थोऽनर्थः संशय इति

मूलम् - 04

04 परवृद्धिहेतुषु आपद्ऽर्थोऽनर्थः संशय इति

विश्वास-प्रस्तुतिः - 05

05 योऽर्थः शत्रुवृद्धिं अप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षयव्यय उदयो भवति, स भवत्यापद्ऽर्थः

मूलम् - 05

विश्वास-प्रस्तुतिः - 06

06 यथा सामन्तानां आमिषभूतः सामन्तव्यसनजो लाभः, शत्रुप्रार्थितो वा स्वभावाधिगम्यो लाभः, पश्चात् कोपेन पार्ष्णिग्राहेण वा विगृहीतः पुरस्ताल्लाभः, मित्र उच्छेदेन सन्धिव्यतिक्रमेण वा मण्डलविरुद्धो लाभः इत्यापद्ऽर्थः

मूलम् - 06

विश्वास-प्रस्तुतिः - 07

07 स्वतः परतो वा भय उत्पत्तिरित्यनर्थः

मूलम् - 07

07 स्वतः परतो वा भय उत्पत्तिरित्यनर्थः

विश्वास-प्रस्तुतिः - 08

08 तयोः अर्थो न वा इति, अनर्थो न वा इति, अर्थोऽनर्थ इति, अनर्थोऽर्थ इति संशयः

मूलम् - 08

08 तयोः अर्थो न वा इति, अनर्थो न वा इति, अर्थोऽनर्थ इति, अनर्थोऽर्थ इति संशयः

विश्वास-प्रस्तुतिः - 09

09 शत्रुमित्रं उत्साहयितुं अर्थो न वा इति संशयः

मूलम् - 09

09 शत्रुमित्रं उत्साहयितुं अर्थो न वा इति संशयः

विश्वास-प्रस्तुतिः - 10

10 शत्रुबलं अर्थमानाभ्यां आवाहयितुं अनर्थो न वा इति संशयः

मूलम् - 10

10 शत्रुबलं अर्थमानाभ्यां आवाहयितुं अनर्थो न वा इति संशयः

विश्वास-प्रस्तुतिः - 11

11 बलवत्सामन्तां भूमिं आदातुं अर्थोऽनर्थ इति संशयः

मूलम् - 11

11 बलवत्सामन्तां भूमिं आदातुं अर्थोऽनर्थ इति संशयः

विश्वास-प्रस्तुतिः - 12

12 जायसा सम्भूययानं अनर्थोऽर्थ इति संशयः

मूलम् - 12

12 जायसा सम्भूययानं अनर्थोऽर्थ इति संशयः

विश्वास-प्रस्तुतिः - 13

13 तेषां अर्थसंशयं उपगच्छेत्

मूलम् - 13

13 तेषां अर्थसंशयं उपगच्छेत्

विश्वास-प्रस्तुतिः - 14

14 अर्थोऽर्थानुबन्धः, अर्थो निरनुबन्धः, अर्थोऽनर्थानुबन्धः, अनर्थोऽर्थानुबन्धः, अनर्थो निरनुबन्धः, अनर्थोऽनर्थानुबन्धः इत्यनुबन्धषड्वर्गः

मूलम् - 14

विश्वास-प्रस्तुतिः - 15

15 शत्रुं उत्पाट्य पार्ष्णिग्राहादानं अर्थोऽनर्थानुबन्धः

मूलम् - 15

15 शत्रुं उत्पाट्य पार्ष्णिग्राहादानं अर्थोऽनर्थानुबन्धः

विश्वास-प्रस्तुतिः - 16

16 उदासीनस्य दण्डानुग्रहः फलेन अर्थो निरनुबन्धः

मूलम् - 16

16 उदासीनस्य दण्डानुग्रहः फलेन अर्थो निरनुबन्धः

विश्वास-प्रस्तुतिः - 17

17 परस्यान्तर्।उच्छेदनं अर्थोऽनर्थानुबन्धः

मूलम् - 17

17 परस्यान्तर्।उच्छेदनं अर्थोऽनर्थानुबन्धः

विश्वास-प्रस्तुतिः - 18

18 शत्रुप्रतिवेशस्यानुग्रहः कोशदण्डाभ्यां अनर्थोऽनर्थानुबन्धः

मूलम् - 18

18 शत्रुप्रतिवेशस्यानुग्रहः कोशदण्डाभ्यां अनर्थोऽनर्थानुबन्धः

विश्वास-प्रस्तुतिः - 19

19 हीनशक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः

मूलम् - 19

19 हीनशक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः

विश्वास-प्रस्तुतिः - 20

20 ज्यायांसं उत्थाप्य निवृत्तिरनर्थोऽनर्थानुबन्धः

मूलम् - 20

20 ज्यायांसं उत्थाप्य निवृत्तिरनर्थोऽनर्थानुबन्धः

विश्वास-प्रस्तुतिः - 21

21 तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम्

मूलम् - 21

21 तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम्

विश्वास-प्रस्तुतिः - 22

22 इति कार्यावस्थापनम्

मूलम् - 22

22 इति कार्यावस्थापनम्

विश्वास-प्रस्तुतिः - 23

23 समन्ततो युगपद्ऽर्थ उत्पत्तिः समन्ततोऽर्थापद् भवति

मूलम् - 23

23 समन्ततो युगपद्ऽर्थ उत्पत्तिः समन्ततोऽर्थापद् भवति

विश्वास-प्रस्तुतिः - 24

24 सा एव पार्ष्णिग्राहविगृहीता समन्ततोऽर्थसंशयापद् भवति

मूलम् - 24

24 सा एव पार्ष्णिग्राहविगृहीता समन्ततोऽर्थसंशयापद् भवति

विश्वास-प्रस्तुतिः - 25

25 तयोर्मित्राक्रन्द उपग्रहात् सिद्धिः

मूलम् - 25

25 तयोर्मित्राक्रन्द उपग्रहात् सिद्धिः

विश्वास-प्रस्तुतिः - 26

26 समन्ततः शत्रुभ्यो भय उत्पत्तिः समन्त्तोऽनर्थापद् भवति

मूलम् - 26

26 समन्ततः शत्रुभ्यो भय उत्पत्तिः समन्त्तोऽनर्थापद् भवति

विश्वास-प्रस्तुतिः - 27

27 सा एव मित्रविगृहीता समन्ततोऽनर्थसंशयापद् भवति

मूलम् - 27

27 सा एव मित्रविगृहीता समन्ततोऽनर्थसंशयापद् भवति

विश्वास-प्रस्तुतिः - 28

28 तयोश्चलामित्राक्रन्द उपग्रहात् सिद्धिः, परमिश्राप्रतीकारो वा

मूलम् - 28

28 तयोश्चलामित्राक्रन्द उपग्रहात् सिद्धिः, परमिश्राप्रतीकारो वा

विश्वास-प्रस्तुतिः - 29

29 इतो लाभ इतरतो लाभ इत्युभयतोऽर्थापद् भवति

मूलम् - 29

29 इतो लाभ इतरतो लाभ इत्युभयतोऽर्थापद् भवति

विश्वास-प्रस्तुतिः - 30

30 तस्यां समन्ततोऽर्थायां च लाभगुणयुक्तं अर्थं आदातुं यायात्

मूलम् - 30

30 तस्यां समन्ततोऽर्थायां च लाभगुणयुक्तं अर्थं आदातुं यायात्

विश्वास-प्रस्तुतिः - 31

31 तुल्ये लाभगुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत् तं आदातुं यायात्

मूलम् - 31

31 तुल्ये लाभगुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत् तं आदातुं यायात्

विश्वास-प्रस्तुतिः - 32

32 इतोऽनर्थ इतरतोऽनर्थ इत्युभयतोऽनर्थापत्

मूलम् - 32

32 इतोऽनर्थ इतरतोऽनर्थ इत्युभयतोऽनर्थापत्

विश्वास-प्रस्तुतिः - 33

33 तस्यां समन्ततोऽनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत

मूलम् - 33

33 तस्यां समन्ततोऽनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत

विश्वास-प्रस्तुतिः - 34

34 मित्राभावे प्रकृतीनां लघीयस्य एकतोऽनर्थां साधयेत्, उभयतोऽनर्थां ज्यायस्या, समन्ततोऽनर्थां मूलेन प्रतिकुर्यात्

मूलम् - 34

विश्वास-प्रस्तुतिः - 35

35 अशक्ये सर्वं उत्सृज्यापगच्छेत्

मूलम् - 35

35 अशक्ये सर्वं उत्सृज्यापगच्छेत्

विश्वास-प्रस्तुतिः - 36

36 दृष्टा हि जीवतः पुनर्।आवृत्तिर्यथा सुयात्रा उदयनाभ्याम्

मूलम् - 36

36 दृष्टा हि जीवतः पुनर्।आवृत्तिर्यथा सुयात्रा उदयनाभ्याम्

विश्वास-प्रस्तुतिः - 37

37 इतो लाभ इतरतो राज्याभिमर्श इत्युभयतोऽर्थानर्थापद् भवति

मूलम् - 37

37 इतो लाभ इतरतो राज्याभिमर्श इत्युभयतोऽर्थानर्थापद् भवति

विश्वास-प्रस्तुतिः - 38

38 तस्यां अनर्थसाधको योऽर्थः तं आदातुं यायात्

मूलम् - 38

38 तस्यां अनर्थसाधको योऽर्थः तं आदातुं यायात्

विश्वास-प्रस्तुतिः - 39

39 अन्यथा हि राज्याभिमर्शं वारयेत्

मूलम् - 39

39 अन्यथा हि राज्याभिमर्शं वारयेत्

विश्वास-प्रस्तुतिः - 40

40 एतया समन्ततोऽर्थानर्थापद् व्याख्याता

मूलम् - 40

40 एतया समन्ततोऽर्थानर्थापद् व्याख्याता

विश्वास-प्रस्तुतिः - 41

41 इतोऽनर्थ इतरतोऽर्थसंशय इत्युभयतोऽनर्थार्थसंशया

मूलम् - 41

41 इतोऽनर्थ इतरतोऽर्थसंशय इत्युभयतोऽनर्थार्थसंशया

विश्वास-प्रस्तुतिः - 42

42 तस्यां पूर्वं अनर्थं साधयेत्, तत्सिद्धावर्थसंशयम्

मूलम् - 42

42 तस्यां पूर्वं अनर्थं साधयेत्, तत्सिद्धावर्थसंशयम्

विश्वास-प्रस्तुतिः - 43

43 एतया समन्ततोऽनर्थार्थसंशया व्याख्याता

मूलम् - 43

43 एतया समन्ततोऽनर्थार्थसंशया व्याख्याता

विश्वास-प्रस्तुतिः - 44

44 इतोऽर्थ इतरतोऽनर्थसंशय इत्युभयतोऽर्थानर्थसंशयापद्

मूलम् - 44

44 इतोऽर्थ इतरतोऽनर्थसंशय इत्युभयतोऽर्थानर्थसंशयापद्

विश्वास-प्रस्तुतिः - 45

45 एतया समन्ततोऽर्थानर्थसंशया व्याख्याता

मूलम् - 45

45 एतया समन्ततोऽर्थानर्थसंशया व्याख्याता

विश्वास-प्रस्तुतिः - 46

46 तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थसंशयान् मोक्षयितुं यतेत

मूलम् - 46

46 तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थसंशयान् मोक्षयितुं यतेत

विश्वास-प्रस्तुतिः - 47

47 श्रेयो हि मित्रं अनर्थसंशये तिष्ठन्न दण्डः, दण्डो वा न कोश इति

मूलम् - 47

47 श्रेयो हि मित्रं अनर्थसंशये तिष्ठन्न दण्डः, दण्डो वा न कोश इति

विश्वास-प्रस्तुतिः - 48

48 समग्रमोक्षणाभावे प्रकृतीनां अवयवान् मोक्षयितुं यतेत

मूलम् - 48

48 समग्रमोक्षणाभावे प्रकृतीनां अवयवान् मोक्षयितुं यतेत

विश्वास-प्रस्तुतिः - 49

49 तत्र पुरुषप्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्णलुब्धवर्जं, द्रव्यप्रकृतीनां सारं महा उपकारं वा

मूलम् - 49

49 तत्र पुरुषप्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्णलुब्धवर्जं, द्रव्यप्रकृतीनां सारं महा उपकारं वा

विश्वास-प्रस्तुतिः - 50

50 सन्धिनाऽऽसनेन द्वैधीभावेन वा लघूनि, विपर्ययैर्गुरूणि

मूलम् - 50

50 सन्धिनाऽऽसनेन द्वैधीभावेन वा लघूनि, विपर्ययैर्गुरूणि

विश्वास-प्रस्तुतिः - 51

51 क्षयस्थानवृद्धीनां च उत्तर उत्तरं लिप्सेत

मूलम् - 51

51 क्षयस्थानवृद्धीनां च उत्तर उत्तरं लिप्सेत

विश्वास-प्रस्तुतिः - 52

52 प्रातिलोम्येन वा क्षयादीनां आयत्यां विशेषं पश्येत्

मूलम् - 52

52 प्रातिलोम्येन वा क्षयादीनां आयत्यां विशेषं पश्येत्

विश्वास-प्रस्तुतिः - 53

53 इति देशावस्थापनम्

मूलम् - 53

53 इति देशावस्थापनम्

विश्वास-प्रस्तुतिः - 54

54 एतेन यात्राऽऽदिमध्यान्तेष्वर्थानर्थसंशयानां उपसम्प्राप्तिर्व्याख्याता

मूलम् - 54

54 एतेन यात्राऽऽदिमध्यान्तेष्वर्थानर्थसंशयानां उपसम्प्राप्तिर्व्याख्याता

विश्वास-प्रस्तुतिः - 55

55 निरन्तरयोगित्वाच्चार्थानर्थसंशयानां यात्राऽऽदावर्थः श्रेयान् उपसम्प्राप्तुं पार्ष्णिग्राहासारप्रतिघाते क्षयव्ययप्रवासप्रत्यादेये मूलरक्षणेषु च भवति

मूलम् - 55

विश्वास-प्रस्तुतिः - 56

56 तथाऽनर्थः संशयो वा स्वभूमिष्ठस्य विषह्यो भवति

मूलम् - 56

56 तथाऽनर्थः संशयो वा स्वभूमिष्ठस्य विषह्यो भवति

विश्वास-प्रस्तुतिः - 57

57 एतेन यात्रामध्येऽर्थानर्थसंशयानां उपसम्प्राप्तिर्व्याख्याता

मूलम् - 57

57 एतेन यात्रामध्येऽर्थानर्थसंशयानां उपसम्प्राप्तिर्व्याख्याता

विश्वास-प्रस्तुतिः - 58

58 यात्राऽन्ते तु कर्शनीयं उच्छेदनीयं वा कर्शयित्वा उच्छिद्य वाऽर्थः श्रेयान् उपसम्प्राप्तुं नानर्थः संशयो वा पराबाधभयात्

मूलम् - 58

विश्वास-प्रस्तुतिः - 59

59 सामवायिकानां अपुरोगस्य तु यात्रामध्यान्तगोऽनर्थः संशयो वा श्रेयान् उपसम्प्राप्तुं अनिर्बन्धगामित्वात्

मूलम् - 59

विश्वास-प्रस्तुतिः - 60

60 अर्थो धर्मः काम इत्यर्थत्रिवर्गः

मूलम् - 60

60 अर्थो धर्मः काम इत्यर्थत्रिवर्गः

विश्वास-प्रस्तुतिः - 61

61 तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम्

मूलम् - 61

61 तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम्

विश्वास-प्रस्तुतिः - 62

62 अनर्थोऽधर्मः शोक इत्यनर्थत्रिवर्गः

मूलम् - 62

62 अनर्थोऽधर्मः शोक इत्यनर्थत्रिवर्गः

विश्वास-प्रस्तुतिः - 63

63 तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम्

मूलम् - 63

63 तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम्

विश्वास-प्रस्तुतिः - 64

64 अर्थोऽनर्थ इति, धर्मोऽधर्म इति, कामः शोक इति संशयत्रिवर्गः

मूलम् - 64

64 अर्थोऽनर्थ इति, धर्मोऽधर्म इति, कामः शोक इति संशयत्रिवर्गः

विश्वास-प्रस्तुतिः - 65

65 तस्य उत्तरपक्षसिद्धौ पूर्वपक्षः श्रेयान् उपसम्प्राप्तुम्

मूलम् - 65

65 तस्य उत्तरपक्षसिद्धौ पूर्वपक्षः श्रेयान् उपसम्प्राप्तुम्

विश्वास-प्रस्तुतिः - 66

66 इति कालावस्थापनम्

मूलम् - 66

66 इति कालावस्थापनम्

विश्वास-प्रस्तुतिः - 67

67 इत्यापदः - तासां सिद्धिः

मूलम् - 67

67 इत्यापदः - तासां सिद्धिः

विश्वास-प्रस्तुतिः - 68

68 पुत्रभ्रातृबन्धुषु सामदानाभ्यां सिद्धिरनुरूपा, पौरजानपददण्डमुख्येषु दानभेदाभ्यां, सामन्ताटविकेषु भेददण्डाभ्याम्

मूलम् - 68

विश्वास-प्रस्तुतिः - 69

69 एषाऽनुलोमा, विपर्यये प्रतिलोमा

मूलम् - 69

69 एषाऽनुलोमा, विपर्यये प्रतिलोमा

विश्वास-प्रस्तुतिः - 70

70 मित्रामित्रेषु व्यामिश्रा सिद्धिः

मूलम् - 70

70 मित्रामित्रेषु व्यामिश्रा सिद्धिः

विश्वास-प्रस्तुतिः - 71

71 परस्परसाधका ह्युपायाः

मूलम् - 71

71 परस्परसाधका ह्युपायाः

विश्वास-प्रस्तुतिः - 72

72 शत्रोः शङ्कितामात्येषु सान्त्वं प्रयुक्तं शेषप्रयोगं निवर्तयति, दूष्यामात्येषु दानं, सङ्घातेषु भेदः, शक्तिमत्सु दण्ड इति

मूलम् - 72

विश्वास-प्रस्तुतिः - 73

73 गुरुलाघवयोगाच्चापदां नियोगविकल्पसमुच्चया भवन्ति

मूलम् - 73

73 गुरुलाघवयोगाच्चापदां नियोगविकल्पसमुच्चया भवन्ति

विश्वास-प्रस्तुतिः - 74

74 अनेन एव उपायेन नान्येन इति नियोगः

मूलम् - 74

74 अनेन एव उपायेन नान्येन इति नियोगः

विश्वास-प्रस्तुतिः - 75

75 अनेन वाऽन्येन वा इति विकल्पः

मूलम् - 75

75 अनेन वाऽन्येन वा इति विकल्पः

विश्वास-प्रस्तुतिः - 76

76 अनेनान्येन च इति समुच्चयः

मूलम् - 76

76 अनेनान्येन च इति समुच्चयः

विश्वास-प्रस्तुतिः - 77

77 तेषां एकयोगाश्चत्वारः त्रियोगाश्च, द्वियोगाः षट्, एकश्चतुर्योगः

मूलम् - 77

77 तेषां एकयोगाश्चत्वारः त्रियोगाश्च, द्वियोगाः षट्, एकश्चतुर्योगः

विश्वास-प्रस्तुतिः - 78

78 इति पञ्चदश उपायाः

मूलम् - 78

78 इति पञ्चदश उपायाः

विश्वास-प्रस्तुतिः - 79

79 तावन्तः प्रतिलोमाः

मूलम् - 79

79 तावन्तः प्रतिलोमाः

विश्वास-प्रस्तुतिः - 80

80 तेषां एकेन उपायेन सिद्धिरेकसिद्धिः, द्वाभ्यां द्विसिद्धिः, त्रिभिः त्रिसिद्धिः, चतुर्भिश्चतुःसिद्धिरिति

मूलम् - 80

विश्वास-प्रस्तुतिः - 81

81 धर्ममूलत्वात् कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धा याऽर्थस्य सिद्धिः सा सर्वार्थसिद्धिः

मूलम् - 81

81 धर्ममूलत्वात् कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धा याऽर्थस्य सिद्धिः सा सर्वार्थसिद्धिः

विश्वास-प्रस्तुतिः - 82

82 दैवाद् अग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः

मूलम् - 82

82 दैवाद् अग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः

विश्वास-प्रस्तुतिः - 83

83 तासां दैवतब्राह्मणर्पणिपाततः सिद्धिः

मूलम् - 83

83 तासां दैवतब्राह्मणर्पणिपाततः सिद्धिः

विश्वास-प्रस्तुतिः - 84

84ab अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याऽऽसुरी भवेत् ।
84chd तस्यां आथर्वणं कर्म सिद्धारम्भाश्च सिद्धयः (इति)

मूलम् - 84