दूष्यशत्रुसम्युक्ताः
विश्वास-प्रस्तुतिः - 01
01 दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा
मूलम् - 01
01 दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा
विश्वास-प्रस्तुतिः - 02
02 दूष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जान् उपायान् प्रयुञ्जीत
मूलम् - 02
02 दूष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जान् उपायान् प्रयुञ्जीत
विश्वास-प्रस्तुतिः - 03
03 दण्डो हि महाजने क्षेप्तुं अशक्यः
मूलम् - 03
03 दण्डो हि महाजने क्षेप्तुं अशक्यः
विश्वास-प्रस्तुतिः - 04
04 क्षिप्तो वा तं चार्थं न कुर्यात्, अन्यं चानर्थं उत्पादयेत्
मूलम् - 04
04 क्षिप्तो वा तं चार्थं न कुर्यात्, अन्यं चानर्थं उत्पादयेत्
विश्वास-प्रस्तुतिः - 05
05 मुख्येषु त्वेषां दाण्डकर्मिकवच्चेष्टेत
मूलम् - 05
05 मुख्येषु त्वेषां दाण्डकर्मिकवच्चेष्टेत
विश्वास-प्रस्तुतिः - 06
06 शत्रुशुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः सामादिभिः सिद्धिं लिप्सेत
मूलम् - 06
06 शत्रुशुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः सामादिभिः सिद्धिं लिप्सेत
विश्वास-प्रस्तुतिः - 07
07 स्वामिन्यायत्ता प्रधानसिद्धिः, मन्त्रिष्वायत्ताऽऽयत्तसिद्धिः, उभयायत्ता प्रधानायत्तसिद्धिः
मूलम् - 07
07 स्वामिन्यायत्ता प्रधानसिद्धिः, मन्त्रिष्वायत्ताऽऽयत्तसिद्धिः, उभयायत्ता प्रधानायत्तसिद्धिः
विश्वास-प्रस्तुतिः - 08
08 दूष्यादूष्याणां आमिश्रितत्वाद् आमिश्रा
मूलम् - 08
08 दूष्यादूष्याणां आमिश्रितत्वाद् आमिश्रा
विश्वास-प्रस्तुतिः - 09
09 आमिश्रायां अदूष्यतः सिद्धिः
मूलम् - 09
09 आमिश्रायां अदूष्यतः सिद्धिः
विश्वास-प्रस्तुतिः - 10
10 आलम्बनाभावे ह्यालम्बिता न विद्यन्ते
मूलम् - 10
10 आलम्बनाभावे ह्यालम्बिता न विद्यन्ते
विश्वास-प्रस्तुतिः - 11
11 मित्रामित्राणां एकीभावात् परमिश्रा
मूलम् - 11
11 मित्रामित्राणां एकीभावात् परमिश्रा
विश्वास-प्रस्तुतिः - 12
12 परमिश्रायां मित्रतः सिद्धिः
मूलम् - 12
12 परमिश्रायां मित्रतः सिद्धिः
विश्वास-प्रस्तुतिः - 13
13 सुकरो हि मित्रेण सन्धिः, नामित्रेण इति
मूलम् - 13
13 सुकरो हि मित्रेण सन्धिः, नामित्रेण इति
विश्वास-प्रस्तुतिः - 14
14 मित्रं चेन्न सन्धिं इच्छेद् अभीक्ष्णं उपजपेत्
मूलम् - 14
14 मित्रं चेन्न सन्धिं इच्छेद् अभीक्ष्णं उपजपेत्
विश्वास-प्रस्तुतिः - 15
15 ततः सत्त्रिभिरमित्राद् भेदयित्वा मित्रं लभेत
मूलम् - 15
15 ततः सत्त्रिभिरमित्राद् भेदयित्वा मित्रं लभेत
विश्वास-प्रस्तुतिः - 16
16 मित्रसङ्घस्य वा योऽन्तस्थायी तं लभेत
मूलम् - 16
16 मित्रसङ्घस्य वा योऽन्तस्थायी तं लभेत
विश्वास-प्रस्तुतिः - 17
17 अन्तस्थायिनि लब्धे मध्यस्थायिनो भिद्यन्ते
मूलम् - 17
17 अन्तस्थायिनि लब्धे मध्यस्थायिनो भिद्यन्ते
विश्वास-प्रस्तुतिः - 18
18 मध्यस्थायिनं वा लभेत
मूलम् - 18
18 मध्यस्थायिनं वा लभेत
विश्वास-प्रस्तुतिः - 19
19 मध्यस्थायिनि लब्धे नान्तस्थायिनः संहन्यन्ते
मूलम् - 19
19 मध्यस्थायिनि लब्धे नान्तस्थायिनः संहन्यन्ते
विश्वास-प्रस्तुतिः - 20
20 यथा च एषां आश्रयभेदः तान् उपायान् प्रयुञ्जीत
मूलम् - 20
20 यथा च एषां आश्रयभेदः तान् उपायान् प्रयुञ्जीत
विश्वास-प्रस्तुतिः - 21
21 धार्मिकं जातिकुलश्रुतवृत्तस्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य उपकारान् अपकाराभ्यां वा सान्त्वयेत्
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 निवृत्त उत्साहं विग्रहश्रान्तं प्रतिहत उपायं क्षयव्ययाभ्यां प्रवासेन च उपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद् वा शङ्कमानं मैत्रीप्रधानं वा कल्याणबुद्धिं साम्ना साधयेत्
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 लुब्धं क्षीणं वा तपस्विमुख्यावस्थापनापूर्वं दानेन साधयेत्
मूलम् - 23
23 लुब्धं क्षीणं वा तपस्विमुख्यावस्थापनापूर्वं दानेन साधयेत्
विश्वास-प्रस्तुतिः - 24
24 तत् पञ्चविधं - देयविसर्गो गृहीतानुवर्तनं आत्तप्रतिदानं स्वद्रव्यदानं अपूर्वं परस्वेषु स्वयङ्ग्राहदानं च
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 इति दानकर्म
मूलम् - 25
25 इति दानकर्म
विश्वास-प्रस्तुतिः - 26
26 परस्परद्वेषवैरभूमिहरणशङ्कितं अतोऽन्यतमेन भेदयेत्
मूलम् - 26
26 परस्परद्वेषवैरभूमिहरणशङ्कितं अतोऽन्यतमेन भेदयेत्
विश्वास-प्रस्तुतिः - 27
27 भीरुं वा प्रतिघातेन कृतसन्धिरेष त्वयि कर्मकरिष्यति, मित्रं अस्य निसृष्टं, सन्धौ वा नाभ्यन्तरः इति
मूलम् - 27

विश्वास-प्रस्तुतिः - 28
28 यस्य वा स्वदेशाद् अन्यदेशाद् वा पण्यानि पण्यागारतयाऽऽगच्छेयुः तानि अस्य यातव्याल्लब्धानि इति सत्त्रिणश्चारयेयुः
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 बहुलीभूते शासनं अभित्यक्तेन प्रेषयेत् एतत् ते पण्यं पण्यागारं वा मया ते प्रेषितं, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पणशेषं अवाप्स्यसि इति
मूलम् - 29

विश्वास-प्रस्तुतिः - 30
30 ततः सत्त्रिणः परेषु ग्राहयेयुः एतद् अरिप्रदत्तम् इति
मूलम् - 30
30 ततः सत्त्रिणः परेषु ग्राहयेयुः एतद् अरिप्रदत्तम् इति
विश्वास-प्रस्तुतिः - 31
31 शत्रुप्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत्
मूलम् - 31
31 शत्रुप्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत्
विश्वास-प्रस्तुतिः - 32
32 तद् अस्य वैदेहकव्यञ्जनाः शत्रुमुख्येषु विक्रीणीरन्
मूलम् - 32
32 तद् अस्य वैदेहकव्यञ्जनाः शत्रुमुख्येषु विक्रीणीरन्
विश्वास-प्रस्तुतिः - 33
33 ततः सत्त्रिणः परेषु ग्राहयेयुः एतत् पण्यं अरिप्रदत्तम् इति
मूलम् - 33
33 ततः सत्त्रिणः परेषु ग्राहयेयुः एतत् पण्यं अरिप्रदत्तम् इति
विश्वास-प्रस्तुतिः - 34
34 महाऽपराधान् अर्थमानाभ्यां उपगृह्य वा शस्त्ररसाग्निभिरमित्रे प्रणिदध्यात्
मूलम् - 34
34 महाऽपराधान् अर्थमानाभ्यां उपगृह्य वा शस्त्ररसाग्निभिरमित्रे प्रणिदध्यात्
विश्वास-प्रस्तुतिः - 35
35 अथ एकं अमात्यं निष्पातयेत्
मूलम् - 35
35 अथ एकं अमात्यं निष्पातयेत्
विश्वास-प्रस्तुतिः - 36
36 तस्य पुत्रदारं उपगृह्य रात्रौ हतं इति ख्यापयेत्
मूलम् - 36
36 तस्य पुत्रदारं उपगृह्य रात्रौ हतं इति ख्यापयेत्
विश्वास-प्रस्तुतिः - 37
37 अथामात्यः शत्रोः तान् एक एकशः प्ररूपयेत्
मूलम् - 37
37 अथामात्यः शत्रोः तान् एक एकशः प्ररूपयेत्
विश्वास-प्रस्तुतिः - 38
38 ते चेद् यथा उक्तं कुर्युर्न च एनान् ग्राहयेत्
मूलम् - 38
38 ते चेद् यथा उक्तं कुर्युर्न च एनान् ग्राहयेत्
विश्वास-प्रस्तुतिः - 39
39 अशक्तिमतो वा ग्राहयेत्
मूलम् - 39
39 अशक्तिमतो वा ग्राहयेत्
विश्वास-प्रस्तुतिः - 40
40 आप्तभाव उपगतो मुख्याद् अस्यात्मानं रक्षणीयं कथयेत्
मूलम् - 40
40 आप्तभाव उपगतो मुख्याद् अस्यात्मानं रक्षणीयं कथयेत्
विश्वास-प्रस्तुतिः - 41
41 अथामित्रशासनं मुख्य उपघाताय प्रेषितं उभयवेतनो ग्राहयेत्
मूलम् - 41
41 अथामित्रशासनं मुख्य उपघाताय प्रेषितं उभयवेतनो ग्राहयेत्
विश्वास-प्रस्तुतिः - 42
42 उत्साहशक्तिमतो वा प्रेषयेत् अमुष्य राज्यं गृहाण, यथाऽस्थितो नः सन्धिः इति
मूलम् - 42
42 उत्साहशक्तिमतो वा प्रेषयेत् अमुष्य राज्यं गृहाण, यथाऽस्थितो नः सन्धिः इति
विश्वास-प्रस्तुतिः - 43
43 ततः सत्त्रिणः परेषु ग्राहयेयुः
मूलम् - 43
43 ततः सत्त्रिणः परेषु ग्राहयेयुः
विश्वास-प्रस्तुतिः - 44
44 एकस्य स्कन्धावारं वीवधं आसारं वा घातयेयुः
मूलम् - 44
44 एकस्य स्कन्धावारं वीवधं आसारं वा घातयेयुः
विश्वास-प्रस्तुतिः - 45
45 इतरेषु मैत्रीं ब्रुवाणाः त्वं एतेषां घातयितव्यः इत्युपजपेयुः
मूलम् - 45
45 इतरेषु मैत्रीं ब्रुवाणाः त्वं एतेषां घातयितव्यः इत्युपजपेयुः
विश्वास-प्रस्तुतिः - 46
46 यस्य वा प्रवीरपुरुषो हस्ती हयो वा म्रियेत गूढपुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर उपहतं ब्रूयुः
मूलम् - 46

विश्वास-प्रस्तुतिः - 47
47 ततः शासनं अभिशस्तस्य प्रेषयेत् भूयः कुरु ततः पणशीषं अवाप्स्यसि इति
मूलम् - 47
47 ततः शासनं अभिशस्तस्य प्रेषयेत् भूयः कुरु ततः पणशीषं अवाप्स्यसि इति
विश्वास-प्रस्तुतिः - 48
48 तद् उभयवेतना ग्राहयेयुः
मूलम् - 48
48 तद् उभयवेतना ग्राहयेयुः
विश्वास-प्रस्तुतिः - 49
49 भिन्नेष्वन्यतमं लभेत
मूलम् - 49
49 भिन्नेष्वन्यतमं लभेत
विश्वास-प्रस्तुतिः - 50
50 तेन सेनापतिकुमारदण्डचारिणो व्याख्याताः
मूलम् - 50
50 तेन सेनापतिकुमारदण्डचारिणो व्याख्याताः
विश्वास-प्रस्तुतिः - 51
51 सान्धिकं च भेदं प्रयुञ्जीत
मूलम् - 51
51 सान्धिकं च भेदं प्रयुञ्जीत
विश्वास-प्रस्तुतिः - 52
52 इति भेदकर्म
मूलम् - 52
52 इति भेदकर्म
विश्वास-प्रस्तुतिः - 53
53 तीक्ष्णं उत्साहिनं व्यसनिनं स्थितशत्रुं वा गूढपुरुषाः शस्त्राग्निरसादिभिः साधयेयुः, सौकर्यतो वा तेषां अन्यतमः
मूलम् - 53

विश्वास-प्रस्तुतिः - 54
54 तीक्ष्णो ह्येकः शस्त्ररसाग्निभिः साधयेत्
मूलम् - 54
54 तीक्ष्णो ह्येकः शस्त्ररसाग्निभिः साधयेत्
विश्वास-प्रस्तुतिः - 55
55 अयं सर्वसन्दोहकर्म विशिष्टं वा करोति
मूलम् - 55
55 अयं सर्वसन्दोहकर्म विशिष्टं वा करोति
विश्वास-प्रस्तुतिः - 56
56 इत्युपायचतुर्वर्गः
मूलम् - 56
56 इत्युपायचतुर्वर्गः
विश्वास-प्रस्तुतिः - 57
57 पूर्वः पूर्वश्चास्य लघिष्ठः
मूलम् - 57
57 पूर्वः पूर्वश्चास्य लघिष्ठः
विश्वास-प्रस्तुतिः - 58
58 सान्त्वं एकगुणम्
मूलम् - 58
58 सान्त्वं एकगुणम्
विश्वास-प्रस्तुतिः - 59
59 दानं द्विगुणं सान्त्वपूर्वम्
मूलम् - 59
59 दानं द्विगुणं सान्त्वपूर्वम्
विश्वास-प्रस्तुतिः - 60
60 भेदः त्रिगुणः सान्त्वदानपूर्वः
मूलम् - 60
60 भेदः त्रिगुणः सान्त्वदानपूर्वः
विश्वास-प्रस्तुतिः - 61
61 दण्डश्चतुर्गुणः सान्त्वदानभेदपूर्वः
मूलम् - 61
61 दण्डश्चतुर्गुणः सान्त्वदानभेदपूर्वः
विश्वास-प्रस्तुतिः - 62
62 इत्यभियुञ्जानेषु उक्तम्
मूलम् - 62
62 इत्यभियुञ्जानेषु उक्तम्
विश्वास-प्रस्तुतिः - 63
63 स्वभूमिष्ठेषु तु त एव उपायाः
मूलम् - 63
63 स्वभूमिष्ठेषु तु त एव उपायाः
विश्वास-प्रस्तुतिः - 64
64 विशेषः तु
मूलम् - 64
64 विशेषः तु
विश्वास-प्रस्तुतिः - 65
65 स्वभूमिष्ठानां अन्यतमस्य पण्यागारैरभिज्ञातान् दूतमुख्यान् अभीक्ष्णं प्रेषयेत्
मूलम् - 65
65 स्वभूमिष्ठानां अन्यतमस्य पण्यागारैरभिज्ञातान् दूतमुख्यान् अभीक्ष्णं प्रेषयेत्
विश्वास-प्रस्तुतिः - 66
66 त एनं सन्धौ परहिंसायां वा योजयेयुः
मूलम् - 66
66 त एनं सन्धौ परहिंसायां वा योजयेयुः
विश्वास-प्रस्तुतिः - 67
67 अप्रतिपद्यमानं कृतो नः सन्धिः इत्यावेदयेयुः
मूलम् - 67
67 अप्रतिपद्यमानं कृतो नः सन्धिः इत्यावेदयेयुः
विश्वास-प्रस्तुतिः - 68
68 तं इतरेषां उभयवेतनाः सङ्क्रामयेयुः अयं वो राजा दुष्टः इति
मूलम् - 68
68 तं इतरेषां उभयवेतनाः सङ्क्रामयेयुः अयं वो राजा दुष्टः इति
विश्वास-प्रस्तुतिः - 69
69 यस्य वा यस्माद् भयं वैरं द्वेषो वा तं तस्माद् भेदयेयुः अयं ते शत्रुणा सन्धत्ते, पुरा त्वां अतिसन्धत्ते, क्षिप्रतरं सन्धीयस्व, निग्रहे चास्य प्रयतस्व इति
मूलम् - 69

विश्वास-प्रस्तुतिः - 70
70 आवाहविवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान् भेदयेत्
मूलम् - 70
70 आवाहविवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान् भेदयेत्
विश्वास-प्रस्तुतिः - 71
71 सामन्ताटविकतत्कुलीनापरुद्धैश्च एषां राज्यानि घातयेत्, सार्थव्रजाटवीर्वा, दण्डं वाऽभिसृतम्
मूलम् - 71
71 सामन्ताटविकतत्कुलीनापरुद्धैश्च एषां राज्यानि घातयेत्, सार्थव्रजाटवीर्वा, दण्डं वाऽभिसृतम्
विश्वास-प्रस्तुतिः - 72
72 परस्परापाश्रयाश्च एषां जातिसङ्घाश्छिद्रेषु प्रहरेयुः, गूढाश्चाग्निरसशस्त्रेण
मूलम् - 72
72 परस्परापाश्रयाश्च एषां जातिसङ्घाश्छिद्रेषु प्रहरेयुः, गूढाश्चाग्निरसशस्त्रेण
विश्वास-प्रस्तुतिः - 73
73ab वीतंसगिलवच्चारीन् योगैराचरितैः शठः ।
73chd घातयेत् परमिश्रायां विश्वासेनामिषेण च (इति)
मूलम् - 73