बाह्याभ्यन्तराश्चापदः

विश्वास-प्रस्तुतिः - 01

01 सन्ध्य्।आदीनां अयथा उद्देशावस्थापनं अपनयः

मूलम् - 01

01 सन्ध्य्।आदीनां अयथा उद्देशावस्थापनं अपनयः

विश्वास-प्रस्तुतिः - 02

02 तस्माद् आपदः सम्भवन्ति

मूलम् - 02

02 तस्माद् आपदः सम्भवन्ति

विश्वास-प्रस्तुतिः - 03

03 बाह्य उत्पत्तिरभ्यन्तरप्रतिजापा, अभ्यन्तर उत्पत्तिर्बाह्यप्रतिजापा, बाह्य उत्पत्तिर्बाह्यप्रतिजापा, अभ्यन्तर उत्पत्तिरभ्यन्तरप्रतिजापा - इत्यापदः

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 यत्र बाह्या अभ्यन्तरानुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र उभययोगे प्रतिजपतः सिद्धिर्विशेषवती

मूलम् - 04

04 यत्र बाह्या अभ्यन्तरानुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र उभययोगे प्रतिजपतः सिद्धिर्विशेषवती

विश्वास-प्रस्तुतिः - 05

05 सुव्याजा हि प्रतिजपितारो भवन्ति, न उपजपितारः

मूलम् - 05

05 सुव्याजा हि प्रतिजपितारो भवन्ति, न उपजपितारः

विश्वास-प्रस्तुतिः - 06

06 तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः

मूलम् - 06

06 तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः

विश्वास-प्रस्तुतिः - 07

07 कृच्छ्र उपजापा हि बाह्यानां अभ्यन्तराः तेषां इतरे वा

मूलम् - 07

07 कृच्छ्र उपजापा हि बाह्यानां अभ्यन्तराः तेषां इतरे वा

विश्वास-प्रस्तुतिः - 08

08 महतश्च प्रयत्नस्य वधः परेषां, अर्थानुबन्धश्चात्मन इति

मूलम् - 08

08 महतश्च प्रयत्नस्य वधः परेषां, अर्थानुबन्धश्चात्मन इति

विश्वास-प्रस्तुतिः - 09

09 अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत

मूलम् - 09

09 अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत

विश्वास-प्रस्तुतिः - 10

10 स्थानमानकर्म सान्त्वम्

मूलम् - 10

10 स्थानमानकर्म सान्त्वम्

विश्वास-प्रस्तुतिः - 11

11 अनुग्रहपरिहारौ कर्मस्वायोगो वा दानम्

मूलम् - 11

11 अनुग्रहपरिहारौ कर्मस्वायोगो वा दानम्

विश्वास-प्रस्तुतिः - 12

12 बाह्येषु प्रतिजपत्सु भेददण्डौ प्रयुञ्जीत

मूलम् - 12

12 बाह्येषु प्रतिजपत्सु भेददण्डौ प्रयुञ्जीत

विश्वास-प्रस्तुतिः - 13

13 सत्त्रिणो मित्रव्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः अयं वो राजा दूष्यव्यञ्जनैरतिसन्धातुकामः, बुध्यध्वम् इति

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 दूष्येषु वा दूष्यव्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर्भेदयेयुः, बाह्यान् वा दूष्यैः

मूलम् - 14

14 दूष्येषु वा दूष्यव्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर्भेदयेयुः, बाह्यान् वा दूष्यैः

विश्वास-प्रस्तुतिः - 15

15 दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्ररसाभ्यां हन्युः

मूलम् - 15

15 दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्ररसाभ्यां हन्युः

विश्वास-प्रस्तुतिः - 16

16 आहूय वा बाह्यान् घातयेयुः

मूलम् - 16

16 आहूय वा बाह्यान् घातयेयुः

विश्वास-प्रस्तुतिः - 17

17 यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, तत्र एकान्तयोग उपजपितुः सिद्धिर्विशेषवती

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

18 दोषशुद्धौ हि दूष्या न विद्यन्ते

मूलम् - 18

18 दोषशुद्धौ हि दूष्या न विद्यन्ते

विश्वास-प्रस्तुतिः - 19

19 दूष्यशुद्धौ हि दोषः पुनरन्यान् दूषयति

मूलम् - 19

19 दूष्यशुद्धौ हि दोषः पुनरन्यान् दूषयति

विश्वास-प्रस्तुतिः - 20

20 तस्माद् बाह्येषु उपजपत्सु भेददण्डौ प्रयुञ्जीत

मूलम् - 20

20 तस्माद् बाह्येषु उपजपत्सु भेददण्डौ प्रयुञ्जीत

विश्वास-प्रस्तुतिः - 21

21 सत्त्रिणो मित्रव्यञ्जना वा ब्रूयुः अयं वो राजा स्वयं आदातुकामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम् इति

मूलम् - 21

विश्वास-प्रस्तुतिः - 22

22 प्रतिजपितुर्वा दूतदण्डान् अनुप्रविष्टाः तीक्ष्णाः शस्त्ररसादिभिरेषां छिद्रेषु प्रहरेयुः

मूलम् - 22

22 प्रतिजपितुर्वा दूतदण्डान् अनुप्रविष्टाः तीक्ष्णाः शस्त्ररसादिभिरेषां छिद्रेषु प्रहरेयुः

विश्वास-प्रस्तुतिः - 23

23 ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः

मूलम् - 23

23 ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः

विश्वास-प्रस्तुतिः - 24

24 अभ्यन्तरान् अभ्यन्तरेषु उपजपत्सु यथाऽर्हं उपायं प्रयुञ्जीत

मूलम् - 24

24 अभ्यन्तरान् अभ्यन्तरेषु उपजपत्सु यथाऽर्हं उपायं प्रयुञ्जीत

विश्वास-प्रस्तुतिः - 25

25 तुष्टलिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत

मूलम् - 25

25 तुष्टलिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत

विश्वास-प्रस्तुतिः - 26

26 शौचसामर्थ्यापदेशेन व्यसनाभ्युदयावेक्षणेन वा प्रतिपूजनं इति दानम्

मूलम् - 26

26 शौचसामर्थ्यापदेशेन व्यसनाभ्युदयावेक्षणेन वा प्रतिपूजनं इति दानम्

विश्वास-प्रस्तुतिः - 27

27 मित्रव्यञ्जनो वा ब्रूयाद् एतान् चित्तज्ञानार्थं उपधास्यति वो राजा, तद् अस्याख्यातव्यं इति

मूलम् - 27

27 मित्रव्यञ्जनो वा ब्रूयाद् एतान् चित्तज्ञानार्थं उपधास्यति वो राजा, तद् अस्याख्यातव्यं इति

विश्वास-प्रस्तुतिः - 28

28 परस्पराद् वा भेदयेद् एनान् असौ चासौ च वो राजन्येवं उपजपति - इति भेदः

मूलम् - 28

28 परस्पराद् वा भेदयेद् एनान् असौ चासौ च वो राजन्येवं उपजपति - इति भेदः

विश्वास-प्रस्तुतिः - 29

29 दाण्डकर्मिकवच्च दण्डः

मूलम् - 29

29 दाण्डकर्मिकवच्च दण्डः

विश्वास-प्रस्तुतिः - 30

30 एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत्

मूलम् - 30

30 एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत्

विश्वास-प्रस्तुतिः - 31

31 अहिभयाद् अभ्यन्तरकोपो बाह्यकोपात् पापीयान् इत्युक्तं पुरस्ताद्

मूलम् - 31

31 अहिभयाद् अभ्यन्तरकोपो बाह्यकोपात् पापीयान् इत्युक्तं पुरस्ताद्

विश्वास-प्रस्तुतिः - 32

32ab पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदाम् ।
32chd उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये (इति)

मूलम् - 32