क्षयव्ययलाभविपरिमर्शः
विश्वास-प्रस्तुतिः - 01
01 युग्यपुरुषापचयः क्षयः
मूलम् - 01
01 युग्यपुरुषापचयः क्षयः
विश्वास-प्रस्तुतिः - 02
02 हिरण्यधान्यापचयो व्ययः
मूलम् - 02
02 हिरण्यधान्यापचयो व्ययः
विश्वास-प्रस्तुतिः - 03
03 ताभ्यां बहुगुणविशिष्टे लाभे यायात्
मूलम् - 03
03 ताभ्यां बहुगुणविशिष्टे लाभे यायात्
विश्वास-प्रस्तुतिः - 04
04 आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्वकालः तनुक्षयोऽल्पव्ययो महान् वृद्ध्य्।उदयः कल्यो धर्म्यः पुरोगश्च इति लाभसम्पत्
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 सुप्राप्यानुपाल्यः परेषां अप्रत्यादेय इत्यादेयः
मूलम् - 05
05 सुप्राप्यानुपाल्यः परेषां अप्रत्यादेय इत्यादेयः
विश्वास-प्रस्तुतिः - 06
06 विपर्यये प्रत्यादेयः
मूलम् - 06
06 विपर्यये प्रत्यादेयः
विश्वास-प्रस्तुतिः - 07
07 तं आददानः तत्रस्थो वा विनाशं प्राप्नोति
मूलम् - 07
07 तं आददानः तत्रस्थो वा विनाशं प्राप्नोति
विश्वास-प्रस्तुतिः - 08
08 यदि वा पश्येत् प्रत्यादेयं आदाय कोशदण्डनिचयरक्षाविधानान्यवस्रावयिष्यामि, खनिद्रव्यहस्तिवनसेतुबन्धवणिक्पथान् उद्धृतसारान् करिष्यामि, प्रकृतीरस्य कर्शयिष्यामि, अपवाहयिष्यामि, आयोगेनाराधयिष्यामि वा, ताः परं प्रतियोगेन कोपयिष्यति, प्रतिपक्षे वाऽस्य पण्यं एनं करिष्यामि, मित्रं अपरुद्धं वाऽस्य प्रतिपादयिष्यामि, मित्रस्य स्वस्य वा देशस्य पीडां अत्रस्थः तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि, मित्रं आश्रयं वाऽस्य वैगुण्यं ग्राहयिष्यामि, तद् अमित्रविरक्तं तत्कुलीनं प्रतिपत्स्यते, सत्कृत्य वाऽस्मै भूमिं दास्यामि इति संहितसमुत्थितं मित्रं मे चिराय भविष्यति इति प्रत्यादेयं अपि लाभं आददीत
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 इत्यादेयप्रत्यादेयौ व्याख्यातौ
मूलम् - 09
09 इत्यादेयप्रत्यादेयौ व्याख्यातौ
विश्वास-प्रस्तुतिः - 10
10 अधार्मिकाद् धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति
मूलम् - 10
10 अधार्मिकाद् धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति
विश्वास-प्रस्तुतिः - 11
11 विपरीतः प्रकोपक इति
मूलम् - 11
11 विपरीतः प्रकोपक इति
विश्वास-प्रस्तुतिः - 12
12 मन्त्रिणां उपदेशाल्लाभोऽलभ्यमानः कोपको भवति अयं अस्माभिः क्षयव्ययौ ग्राहितः इति
मूलम् - 12
12 मन्त्रिणां उपदेशाल्लाभोऽलभ्यमानः कोपको भवति अयं अस्माभिः क्षयव्ययौ ग्राहितः इति
विश्वास-प्रस्तुतिः - 13
13 दूष्यमन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति सिद्धार्थोऽयं अस्मान् विनाशयिष्यति इति
मूलम् - 13
13 दूष्यमन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति सिद्धार्थोऽयं अस्मान् विनाशयिष्यति इति
विश्वास-प्रस्तुतिः - 14
14 विपरीतः प्रसादकः
मूलम् - 14
14 विपरीतः प्रसादकः
विश्वास-प्रस्तुतिः - 15
15 इति प्रसादककोपकौ व्याख्यातौ
मूलम् - 15
15 इति प्रसादककोपकौ व्याख्यातौ
विश्वास-प्रस्तुतिः - 16
16 गमनमात्रसाध्यत्वाद् ह्रस्वकालः
मूलम् - 16
16 गमनमात्रसाध्यत्वाद् ह्रस्वकालः
विश्वास-प्रस्तुतिः - 17
17 मन्त्रसाध्यत्वात् तनुक्षयः
मूलम् - 17
17 मन्त्रसाध्यत्वात् तनुक्षयः
विश्वास-प्रस्तुतिः - 18
18 भक्तमात्रव्ययत्वाद् अल्पव्ययः
मूलम् - 18
18 भक्तमात्रव्ययत्वाद् अल्पव्ययः
विश्वास-प्रस्तुतिः - 19
19 तदात्ववैपुल्यान् महान्
मूलम् - 19
19 तदात्ववैपुल्यान् महान्
विश्वास-प्रस्तुतिः - 20
20 अर्थानुबन्धकत्वाद् वृद्ध्य्।उदयः
मूलम् - 20
20 अर्थानुबन्धकत्वाद् वृद्ध्य्।उदयः
विश्वास-प्रस्तुतिः - 21
21 निराबाधकत्वात् कल्यः
मूलम् - 21
21 निराबाधकत्वात् कल्यः
विश्वास-प्रस्तुतिः - 22
22 प्रशस्त उपादानाद् धर्म्यः
मूलम् - 22
22 प्रशस्त उपादानाद् धर्म्यः
विश्वास-प्रस्तुतिः - 23
23 सामवायिकानां अनिर्बन्धगामित्वात् पुरोगः - इति
मूलम् - 23
23 सामवायिकानां अनिर्बन्धगामित्वात् पुरोगः - इति
विश्वास-प्रस्तुतिः - 24
24 तुल्ये लाभे देशकालौ शक्त्य्।उपायौ प्रियाप्रियौ जवाजवौ सामीप्यविप्रकर्षौ तदात्वानुबन्धौ सारत्वसातत्ये बाहुल्यबाहुगुण्ये च विमृश्य बहुगुणयुक्तं लाभं आददीत
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 लाभविघ्नाः - कामः कोपः साध्वसं कारुण्यं ह्रीरनार्यभावो मानः सानुक्रोशता परलोकापेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्तगतावमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत उष्णवर्षाणां आक्षम्यं मङ्गलतिथिनक्षत्र इष्टित्वं इति
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26ab नक्षत्रं अति पृच्छन्तं बालं अर्थोऽतिवर्तते ।
26chd अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27ab नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्नशतैरपि ।
27chd अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव (इति)
मूलम् - 27