शक्तिदेशकालबलाबलज्ञानं - यात्राकालाः
विश्वास-प्रस्तुतिः - 01
01 विजिगीषुरात्मनः परस्य च बलाबलं शक्तिदेशकालयात्राकालबलसमुद्दानकालपश्चात्कोपक्षयव्ययलाभापदां ज्ञात्वा विशिष्टबलो यायात्, अन्यथाऽऽसीत
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 उत्साहप्रभावयोरुत्साहः श्रेयान्
मूलम् - 02
02 उत्साहप्रभावयोरुत्साहः श्रेयान्
विश्वास-प्रस्तुतिः - 03
03 स्वयं हि राजा शूरो बलवान् अरोगः कृतास्त्रो दण्डद्वितीयोऽपि शक्तः प्रभाववन्तं राजानं जेतुम्
मूलम् - 03
03 स्वयं हि राजा शूरो बलवान् अरोगः कृतास्त्रो दण्डद्वितीयोऽपि शक्तः प्रभाववन्तं राजानं जेतुम्
विश्वास-प्रस्तुतिः - 04
04 अल्पोऽपि चास्य दण्डः तेजसा कृत्यकरो भवति
मूलम् - 04
04 अल्पोऽपि चास्य दण्डः तेजसा कृत्यकरो भवति
विश्वास-प्रस्तुतिः - 05
05 निरुत्साहः तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यति इत्याचार्याः
मूलम् - 05
05 निरुत्साहः तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यति इत्याचार्याः
विश्वास-प्रस्तुतिः - 06
06 न इति कौटिल्यः
मूलम् - 06
06 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 07
07 प्रभाववान् उत्साहवन्तं राजानं प्रभावेनातिसन्धत्ते तद्विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीरपुरुषान्
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 प्रभूतप्रभावहयहस्तिरथ उपकरणसम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति
मूलम् - 08
08 प्रभूतप्रभावहयहस्तिरथ उपकरणसम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति
विश्वास-प्रस्तुतिः - 09
09 उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोऽन्धाश्च पृथिवीं जिग्युरिति
मूलम् - 09
09 उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोऽन्धाश्च पृथिवीं जिग्युरिति
विश्वास-प्रस्तुतिः - 10
10 प्रभावमन्त्रयोः प्रभावः श्रेयान्
मूलम् - 10
10 प्रभावमन्त्रयोः प्रभावः श्रेयान्
विश्वास-प्रस्तुतिः - 11
11 मन्त्रशक्तिसम्पन्नो हि वन्ध्यबुद्धिरप्रभावो भवति
मूलम् - 11
11 मन्त्रशक्तिसम्पन्नो हि वन्ध्यबुद्धिरप्रभावो भवति
विश्वास-प्रस्तुतिः - 12
12 मन्त्रकर्म चास्य निश्चितं अप्रभावो गर्भधान्यं अवृष्टिरिव उपहन्ति इत्याचार्याः
मूलम् - 12
12 मन्त्रकर्म चास्य निश्चितं अप्रभावो गर्भधान्यं अवृष्टिरिव उपहन्ति इत्याचार्याः
विश्वास-प्रस्तुतिः - 13
13 न इति कौटिल्यः
मूलम् - 13
13 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 14
14 मन्त्रशक्तिः श्रेयसी
मूलम् - 14
14 मन्त्रशक्तिः श्रेयसी
विश्वास-प्रस्तुतिः - 15
15 प्रज्ञाशास्त्रचक्षुर्हि राजाऽल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परान् उत्साहप्रभाववतश्च सामादिभिर्योग उपनिषद्भ्यां चातिसन्धातुम्
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 एवं उत्साहप्रभावमन्त्रशक्तीनां उत्तर उत्तराधिकोऽतिसन्धत्ते
मूलम् - 16
16 एवं उत्साहप्रभावमन्त्रशक्तीनां उत्तर उत्तराधिकोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 17
17 देशः पृथिवी
मूलम् - 17
17 देशः पृथिवी
विश्वास-प्रस्तुतिः - 18
18 तस्यां हिमवत्समुद्रान्तरं उदीचीनं योजनसहस्रपरिमाणं तिर्यक् चक्रवर्तिक्षेत्रम्
मूलम् - 18
18 तस्यां हिमवत्समुद्रान्तरं उदीचीनं योजनसहस्रपरिमाणं तिर्यक् चक्रवर्तिक्षेत्रम्
विश्वास-प्रस्तुतिः - 19
19 तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः
मूलम् - 19
19 तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः
विश्वास-प्रस्तुतिः - 20
20 तेषु यथास्वबलवृद्धिकरं कर्म प्रयुञ्जीत
मूलम् - 20
20 तेषु यथास्वबलवृद्धिकरं कर्म प्रयुञ्जीत
विश्वास-प्रस्तुतिः - 21
21 यत्रात्मनः सैन्यव्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, विपरीतोऽधमः, साधारणो मध्यमः
मूलम् - 21
21 यत्रात्मनः सैन्यव्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, विपरीतोऽधमः, साधारणो मध्यमः
विश्वास-प्रस्तुतिः - 22
22 कालः शीत उष्णवर्षात्मा
मूलम् - 22
22 कालः शीत उष्णवर्षात्मा
विश्वास-प्रस्तुतिः - 23
23 तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः
मूलम् - 23
23 तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः
विश्वास-प्रस्तुतिः - 24
24 तेषु यथास्वबलवृद्धिकरं कर्मप्रयुञ्जीत
मूलम् - 24
24 तेषु यथास्वबलवृद्धिकरं कर्मप्रयुञ्जीत
विश्वास-प्रस्तुतिः - 25
25 यत्रात्मनः सैन्यव्यायामानां ऋतुः अनृतुः परस्य, स उत्तमः कालः, विपरीतोऽधमः, साधारणो मध्यमः
मूलम् - 25
25 यत्रात्मनः सैन्यव्यायामानां ऋतुः अनृतुः परस्य, स उत्तमः कालः, विपरीतोऽधमः, साधारणो मध्यमः
विश्वास-प्रस्तुतिः - 26
26 शक्तिदेशकालानां तु शक्तिः श्रेयसी इत्याचार्याः
मूलम् - 26
26 शक्तिदेशकालानां तु शक्तिः श्रेयसी इत्याचार्याः
विश्वास-प्रस्तुतिः - 27
27 शक्तिमान् हि निम्नस्थलवतो देशस्य शीत उष्णवर्षवतश्च कालस्य शक्तः प्रतीकारे भवति
मूलम् - 27
27 शक्तिमान् हि निम्नस्थलवतो देशस्य शीत उष्णवर्षवतश्च कालस्य शक्तः प्रतीकारे भवति
विश्वास-प्रस्तुतिः - 28
28 देशः श्रेयान् इत्येके
मूलम् - 28
28 देशः श्रेयान् इत्येके
विश्वास-प्रस्तुतिः - 29
29 स्थलगतो हि श्वा नक्रं विकर्षति, निम्नगतो नक्रः श्वानम् इति
मूलम् - 29
29 स्थलगतो हि श्वा नक्रं विकर्षति, निम्नगतो नक्रः श्वानम् इति
विश्वास-प्रस्तुतिः - 30
30 कालः श्रेयान् इत्येके
मूलम् - 30
30 कालः श्रेयान् इत्येके
विश्वास-प्रस्तुतिः - 31
31 दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम् इति
मूलम् - 31
31 दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम् इति
विश्वास-प्रस्तुतिः - 32
32 न इति कौटिल्यः
मूलम् - 32
32 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 33
33 परस्परसाधका हि शक्तिदेशकालाः
मूलम् - 33
33 परस्परसाधका हि शक्तिदेशकालाः
विश्वास-प्रस्तुतिः - 34
34 तैरभ्युच्चितः तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्ताटवीषु च रक्षा विधाय कार्यसाधनसहं कोशदण्डं चादाय क्षीणपुराणभक्तं अगृहीतनवभक्तं असंस्कृतदुर्गममित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात्
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35 हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात्
मूलम् - 35
35 हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात्
विश्वास-प्रस्तुतिः - 36
36 क्षीणकृणकाष्ठ उदकं असंस्कृतदुर्गममित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात्
मूलम् - 36

विश्वास-प्रस्तुतिः - 37
37 अत्युष्णं अल्पयवस इन्धन उदकं वा देशं हेमन्ते यायात्
मूलम् - 37
37 अत्युष्णं अल्पयवस इन्धन उदकं वा देशं हेमन्ते यायात्
विश्वास-प्रस्तुतिः - 38
38 तुषारदुर्दिनं अगाधनिम्नप्रायं गहनतृणवृक्षं वा देशं ग्रीष्मे यायात्
मूलम् - 38
38 तुषारदुर्दिनं अगाधनिम्नप्रायं गहनतृणवृक्षं वा देशं ग्रीष्मे यायात्
विश्वास-प्रस्तुतिः - 39
39 स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात्
मूलम् - 39
39 स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात्
विश्वास-प्रस्तुतिः - 40
40 मार्गशीर्षीं तैषीं चान्तरेण दीर्घकालां यात्रां यायात्, चैत्रीं वैशाखीं चान्तरेण मध्यमकालां, ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्वकालां, उपोषिष्यन् व्यसने चतुर्थीम्
मूलम् - 40

विश्वास-प्रस्तुतिः - 41
41 व्यसनाभियानं विगृह्ययाने व्याख्यातम्
मूलम् - 41
41 व्यसनाभियानं विगृह्ययाने व्याख्यातम्
विश्वास-प्रस्तुतिः - 42
42 प्रायशश्चाचार्याः परव्यसने यातव्यम् इत्युपदिशन्ति
मूलम् - 42
42 प्रायशश्चाचार्याः परव्यसने यातव्यम् इत्युपदिशन्ति
विश्वास-प्रस्तुतिः - 43
43 शक्त्य्।उदये यातव्यं अनैकान्न्तिकत्वाद् व्यसनानां इति कौटिल्यः
मूलम् - 43
43 शक्त्य्।उदये यातव्यं अनैकान्न्तिकत्वाद् व्यसनानां इति कौटिल्यः
विश्वास-प्रस्तुतिः - 44
44 यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात्
मूलम् - 44
44 यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात्
विश्वास-प्रस्तुतिः - 45
45 अत्युष्ण उपक्षीणे काले हस्तिबलप्रायो यायात्
मूलम् - 45
45 अत्युष्ण उपक्षीणे काले हस्तिबलप्रायो यायात्
विश्वास-प्रस्तुतिः - 46
46 हस्तिनो ह्यन्तःस्वेदाः कुष्ठिनो भवन्ति
मूलम् - 46
46 हस्तिनो ह्यन्तःस्वेदाः कुष्ठिनो भवन्ति
विश्वास-प्रस्तुतिः - 47
47 अनवगाहमानाः तोयं अपिबन्तश्चान्तर्ऽवक्षाराच्चान्धीभवन्ति
मूलम् - 47
47 अनवगाहमानाः तोयं अपिबन्तश्चान्तर्ऽवक्षाराच्चान्धीभवन्ति
विश्वास-प्रस्तुतिः - 48
48 तस्मात् प्रभूत उदके देशे वर्षति च हस्तिबलप्रायो यायात्
मूलम् - 48
48 तस्मात् प्रभूत उदके देशे वर्षति च हस्तिबलप्रायो यायात्
विश्वास-प्रस्तुतिः - 49
49 विपर्यये खर उष्ट्राश्वबलप्रायो देशं अल्पवर्षपङ्कम्
मूलम् - 49
49 विपर्यये खर उष्ट्राश्वबलप्रायो देशं अल्पवर्षपङ्कम्
विश्वास-प्रस्तुतिः - 50
50 वर्षति मरुप्रायं चतुर्ऽङ्गबलो यायात्
मूलम् - 50
50 वर्षति मरुप्रायं चतुर्ऽङ्गबलो यायात्
विश्वास-प्रस्तुतिः - 51
51 समविषमनिम्नस्थलह्रस्वदीर्घवशेन वाऽध्वनो यात्रां विभजेत्
मूलम् - 51
51 समविषमनिम्नस्थलह्रस्वदीर्घवशेन वाऽध्वनो यात्रां विभजेत्
विश्वास-प्रस्तुतिः - 52
52ab सर्वा वा ह्रस्वकालाः स्युर्यातव्याः कार्यलाघवात् ।
52chd दीर्घाः कार्यगुरुत्वाद् वा वर्षावासः परत्र च (इति)
मूलम् - 52