बलव्यसनवर्गः - मित्रव्यसनवर्गः

विश्वास-प्रस्तुतिः - 01

01 बलव्यसनानि - अमानितं, विमानितं, अभृतं, व्याधितं, नवागतं, दूरायातं, परिश्रान्तं, परिक्षीणं, प्रतिहतं, हताग्रवेगं, अनृतुप्राप्तं, अभूमिप्राप्तं, आशानिर्वेदि, परिसृप्तं, कलत्रगर्भि, अन्तःशल्यं, कुपितमूलं, भिन्नगर्भं, अपसृतं, अतिक्षिप्तं, उपनिविष्टं, समाप्तं, उपरुद्धं, परिक्षिप्तं, छिन्नधान्यपुरुषवीवधं, स्वविक्षिप्तं, मित्रविक्षिप्तं, दूष्ययुक्तं, दुष्टपार्ष्णिग्राहं, शून्यमूलं, अस्वामिसंहतं, भिन्नकूटं, अन्धं इति

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 तेषां अमानितविमानितानियतयोरमानितं कृतार्थमानं युध्येत, न विमानितं अन्तःकोपम्

मूलम् - 02

02 तेषां अमानितविमानितानियतयोरमानितं कृतार्थमानं युध्येत, न विमानितं अन्तःकोपम्

विश्वास-प्रस्तुतिः - 03

03 अभृतव्याधितयोरभृतं तदात्वकृतवेतनं युध्येत, न व्याधितं अकर्मण्यम्

मूलम् - 03

03 अभृतव्याधितयोरभृतं तदात्वकृतवेतनं युध्येत, न व्याधितं अकर्मण्यम्

विश्वास-प्रस्तुतिः - 04

04 नवागतदूरायातयोर्नवागतं अन्यत उपलब्धदेशं अनवमिश्रं युध्येत, न दूरायतं आयतगतपरिक्लेशम्

मूलम् - 04

04 नवागतदूरायातयोर्नवागतं अन्यत उपलब्धदेशं अनवमिश्रं युध्येत, न दूरायतं आयतगतपरिक्लेशम्

विश्वास-प्रस्तुतिः - 05

05 परिश्रान्तपरिक्षीणयोः परिश्रान्तं स्नानभोजनस्वप्नलब्धविश्रामं युध्येत, न परिक्षीणं अन्यत्राहवे क्षीणयुग्यपुरुषम्

मूलम् - 05

विश्वास-प्रस्तुतिः - 06

06 प्रतिहतहताग्रवेगयोः प्रतिहतं अग्रपातभग्नं प्रवीरपुरुषसंहतं युध्येत, न हताग्रवेगं अग्रपातहतवीरम्

मूलम् - 06

06 प्रतिहतहताग्रवेगयोः प्रतिहतं अग्रपातभग्नं प्रवीरपुरुषसंहतं युध्येत, न हताग्रवेगं अग्रपातहतवीरम्

विश्वास-प्रस्तुतिः - 07

07 अनृत्व्ऽभूमिप्राप्तयोरनृतुप्राप्तं यथ।ऋतुयुग्यशस्त्रावरणं युध्येत, नाभूमिप्राप्तं अवरुद्धप्रसारव्यायामम्

मूलम् - 07

विश्वास-प्रस्तुतिः - 08

08 आशानिर्वेदिपरिसृप्तयोराशानिर्वेदि लब्धाभिप्रायं युध्येत, न परिसृप्तं अपसृतमुख्यम्

मूलम् - 08

08 आशानिर्वेदिपरिसृप्तयोराशानिर्वेदि लब्धाभिप्रायं युध्येत, न परिसृप्तं अपसृतमुख्यम्

विश्वास-प्रस्तुतिः - 09

09 कलत्रगर्भ्य्ऽन्तःशल्ययोः कलत्रगर्भि उन्मुच्य कलत्रं युध्येत, नान्तःशल्यं अन्तरमित्रम्

मूलम् - 09

09 कलत्रगर्भ्य्ऽन्तःशल्ययोः कलत्रगर्भि उन्मुच्य कलत्रं युध्येत, नान्तःशल्यं अन्तरमित्रम्

विश्वास-प्रस्तुतिः - 10

10 कुपितमूलभिन्नगर्भयोः कुपितमूलं प्रशमितकोपं सामादिभिर्युध्येत, न भिन्नगर्भं अन्योन्यस्माद् भिन्नम्

मूलम् - 10

विश्वास-प्रस्तुतिः - 11

11 अपसृतातिक्षिप्तयोरपसृतं एकराज्यातिक्रान्तं मन्त्रव्यायामाभ्यां सत्त्रमित्रापाश्रयं युध्येत, नातिक्षिप्तं अनेकराज्यातिक्रान्तं बह्व्।आबाधत्वात्

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

12 उपनिविष्टसमाप्तयोरुपनिविष्टं पृथग्यानस्थानं अतिसन्धायारिं युध्येत, न समाप्तं अरिणा एकस्थानयानम्

मूलम् - 12

12 उपनिविष्टसमाप्तयोरुपनिविष्टं पृथग्यानस्थानं अतिसन्धायारिं युध्येत, न समाप्तं अरिणा एकस्थानयानम्

विश्वास-प्रस्तुतिः - 13

13 उपरुद्धपरिक्षिप्तयोरुपरुद्धं अन्यतो निष्क्रम्य उपरोद्धारं प्रतियुध्येत, न परिक्षिप्तं सर्वतः प्रतिरुद्धम्

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 छिन्नधान्यपुरुषवीवधयोः छिन्नधान्यं अन्यतो धान्यं आनीय जङ्गमस्थावराहारं वा युध्येत, न छिन्नपुरुषवीवधं अनभिसारम्

मूलम् - 14

विश्वास-प्रस्तुतिः - 15

15 स्वविक्षिप्तमित्रविक्षिप्तयोः स्वविक्षिप्तं स्वभूमौ विक्षिप्तं सैन्यं आपदि शक्यं आवाहयितुं, न मित्रविक्षिप्तं विप्रकृष्टदेशकालत्वात्

मूलम् - 15

विश्वास-प्रस्तुतिः - 16

16 दूष्ययुक्तदुष्टपार्ष्णिग्राहयोर्दूष्ययुक्तं आप्तपुरुषाधिष्ठितं असंहतं युध्येत, न दुष्टपार्ष्णिग्राहं पृष्ठाभिघातत्रस्तम्

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17 शून्यमूलास्वामिसंहतयोः शून्यमूलं कृतपौरजानपदारक्षं सर्वसन्दोहेन युध्येत, नास्वामिसंहतं राजसेनापतिहीनम्

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

18 भिन्नकूटान्धयोर्भिन्नकूटं अन्याधिष्ठितं युध्येत, नान्धं अदेशिकं - इति

मूलम् - 18

18 भिन्नकूटान्धयोर्भिन्नकूटं अन्याधिष्ठितं युध्येत, नान्धं अदेशिकं - इति

विश्वास-प्रस्तुतिः - 19

19ab दोषशुद्धिर्बलावापः सत्त्रस्थानातिसंहितम् ।
19chd सन्धिश्च उत्तरपक्षस्य बलव्यसनसाधनम्

मूलम् - 19

19ab दोषशुद्धिर्बलावापः सत्त्रस्थानातिसंहितम् ।
19chd सन्धिश्च उत्तरपक्षस्य बलव्यसनसाधनम्

विश्वास-प्रस्तुतिः - 20

20ab रक्षेत् स्वदण्डं व्यसने शत्रुभ्यो नित्यं उत्थितः ।
20chd प्रहरेद् दण्डरन्ध्रेषु शत्रूणां नित्यं उत्थितः

मूलम् - 20

विश्वास-प्रस्तुतिः - 21

21ab यतो निमित्तं व्यसनं प्रकृतीनां अवाप्नुयात् ।
21chd प्राग् एव प्रतिकुर्वीत तन्निमित्तं अतन्द्रितः ।

मूलम् - 21

विश्वास-प्रस्तुतिः - 22

22ab अभियातं स्वयं मित्रं सम्भूयान्यवशेन वा
22chd परित्यक्तं अशक्त्या वा लोभेन प्रणयेन वा ।

मूलम् - 22

22ab अभियातं स्वयं मित्रं सम्भूयान्यवशेन वा
22chd परित्यक्तं अशक्त्या वा लोभेन प्रणयेन वा ।

विश्वास-प्रस्तुतिः - 23

23ab विक्रीतं अभियुञ्जाने सङ्ग्रामे वाऽपवर्तिना
23chd द्वैधीभावेन वाऽमित्रं यास्यता वाऽन्यं अन्यतः ।

मूलम् - 23

23ab विक्रीतं अभियुञ्जाने सङ्ग्रामे वाऽपवर्तिना
23chd द्वैधीभावेन वाऽमित्रं यास्यता वाऽन्यं अन्यतः ।

विश्वास-प्रस्तुतिः - 24

24ab पृथग् वा सहयाने वा विश्वासेनातिसंहितम्
24chd भयावमानालस्यैर्वा व्यसनान्न प्रमोक्षितम् ।

मूलम् - 24

24ab पृथग् वा सहयाने वा विश्वासेनातिसंहितम्
24chd भयावमानालस्यैर्वा व्यसनान्न प्रमोक्षितम् ।

विश्वास-प्रस्तुतिः - 25

25ab अवरुद्धं स्वभूमिभ्यः समीपाद् वा भयाद् गतम्
25chd आच्छेदनाद् अदानाद् वा दत्त्वा वाऽप्यवमानितम् ।

मूलम् - 25

25ab अवरुद्धं स्वभूमिभ्यः समीपाद् वा भयाद् गतम्
25chd आच्छेदनाद् अदानाद् वा दत्त्वा वाऽप्यवमानितम् ।

विश्वास-प्रस्तुतिः - 26

26ab अत्याहारितं अर्थं वा स्वयं परमुखेन वा
26chd अतिभारे नियुक्तं वा भङ्क्त्वा परं उपस्थितम् ।

मूलम् - 26

26ab अत्याहारितं अर्थं वा स्वयं परमुखेन वा
26chd अतिभारे नियुक्तं वा भङ्क्त्वा परं उपस्थितम् ।

विश्वास-प्रस्तुतिः - 27

27ab उपेक्षितं अशक्त्या वा प्रार्थयित्वा विरोधितम्
27chd कृच्छ्रेण साध्यते मित्रं सिद्धं चाशु विरज्यति ।

मूलम् - 27

विश्वास-प्रस्तुतिः - 28

28ab कृतप्रयासं मान्यं वा मोहान् मित्रं अमानितम् ।
28chd मानितं वा न सदृशं शक्तितो वा निवारितम्

मूलम् - 28

28ab कृतप्रयासं मान्यं वा मोहान् मित्रं अमानितम् ।
28chd मानितं वा न सदृशं शक्तितो वा निवारितम्

विश्वास-प्रस्तुतिः - 29

29ab मित्र उपघातत्रस्तं वा शङ्कितं वाऽरिसंहितात् ।
29chd दूष्यैर्वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति

मूलम् - 29

विश्वास-प्रस्तुतिः - 30

30ab तस्मान्न उत्पादयेद् एनान् दोषान् मित्र उपघातकान् ।
30chd उत्पन्नान् वा प्रशमयेद् गुणैर्दोष उपघातिभिः (इति)

मूलम् - 30