पीडनवर्गः - स्तम्भवर्गः - कोशसङ्गवर्गः
विश्वास-प्रस्तुतिः - 01
01 दैवपीडनं - अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति
मूलम् - 01
01 दैवपीडनं - अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति
विश्वास-प्रस्तुतिः - 02
02 अग्न्य्।उदकयोरग्निपीडनं अप्रतिकार्यं सर्वदाहि च, शक्यापगमनं तार्याबाधं उदकपीडनम् इत्याचार्याः
मूलम् - 02
02 अग्न्य्।उदकयोरग्निपीडनं अप्रतिकार्यं सर्वदाहि च, शक्यापगमनं तार्याबाधं उदकपीडनम् इत्याचार्याः
विश्वास-प्रस्तुतिः - 03
03 न इत् कौटिल्यः
मूलम् - 03
03 न इत् कौटिल्यः
विश्वास-प्रस्तुतिः - 04
04 अग्निर्ग्रामं अर्धग्रामं वा दहति, उदकवेगः तु ग्रामशतप्रवाही इति
मूलम् - 04
04 अग्निर्ग्रामं अर्धग्रामं वा दहति, उदकवेगः तु ग्रामशतप्रवाही इति
विश्वास-प्रस्तुतिः - 05
05 व्याधिदुर्भिक्षयोर्व्याधिः प्रेतव्याधित उपसृष्टपरिचारकव्यायाम उपरोधेन कर्माण्युपहन्ति, दुर्भिक्षं पुनरकर्म उपघाति हिरण्यपशुकरदायि च इत्याचार्याः
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 न इति कौटिल्यः
मूलम् - 06
06 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 07
07 एकदेशपीडनो व्याधिः शक्यप्रतीकारश्च, सर्वदेशपीडनं दुर्भिक्षं प्राणिनां अजीवनाय इति
मूलम् - 07
07 एकदेशपीडनो व्याधिः शक्यप्रतीकारश्च, सर्वदेशपीडनं दुर्भिक्षं प्राणिनां अजीवनाय इति
विश्वास-प्रस्तुतिः - 08
08 तेन मरको व्याख्यातः
मूलम् - 08
08 तेन मरको व्याख्यातः
विश्वास-प्रस्तुतिः - 09
09 क्षुद्रकमुख्यक्षययोः क्षुद्रकक्षयः कर्मणां अयोगक्षेमं करोति, मुख्यक्षयः कर्मानुष्ठान उपरोधधर्मा इत्याचार्याः
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 न इति कौटिल्यः
मूलम् - 10
10 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 11
11 शक्यः क्षुद्रकक्षयः प्रतिसन्धातुं बाहुल्यात् क्षुद्रकाणां, न मुख्यक्षयः
मूलम् - 11
11 शक्यः क्षुद्रकक्षयः प्रतिसन्धातुं बाहुल्यात् क्षुद्रकाणां, न मुख्यक्षयः
विश्वास-प्रस्तुतिः - 12
12 सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्वप्रज्ञाऽऽधिक्यात् तद्।आश्रयत्वात् क्षुद्रकाणां इति
मूलम् - 12
12 सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्वप्रज्ञाऽऽधिक्यात् तद्।आश्रयत्वात् क्षुद्रकाणां इति
विश्वास-प्रस्तुतिः - 13
13 स्वचक्रपरचक्रयोः स्वचक्रं अतिमात्राभ्यां दण्डकराभ्यां पीडयत्यशक्यं च वारयितुं, परचक्रं तु शक्यं प्रैयोद्धुं उपसारेण सन्धिना वा मोक्षयितुम् इत्याचार्याः
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 न इति कौटिल्यः
मूलम् - 14
14 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 15
15 स्वचक्रपीडनं प्रकृतिपुरुषमुख्य उपग्रहविघाताभ्यां शक्यते वारयितुं एकदेशं वा पीडयति, सर्वदेशपीडनं तु परचक्रं विलोपघातदाहविध्वंसनापवाहनैः पीडयति इति
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 प्रकृतिराजविवादयोः प्रकॄतिविवादः प्रकृतीनां भेदकः पराभियोगान् आवहति, राजविवादः तु प्रकृतीनां द्विगुणभक्तवेतनपरिहारकरो भवति इत्याचार्याः
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 न इति कौटिल्यः
मूलम् - 17
17 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 18
18 शक्यः प्रकृतिविवादः प्रकृतिमुख्य उपग्रहेण कलहस्थानापनयनेन वा वारयितुम्
मूलम् - 18
18 शक्यः प्रकृतिविवादः प्रकृतिमुख्य उपग्रहेण कलहस्थानापनयनेन वा वारयितुम्
विश्वास-प्रस्तुतिः - 19
19 विवदमानाः तु प्रकृतयः परस्परसङ्घर्षेण उपकुर्वन्ति
मूलम् - 19
19 विवदमानाः तु प्रकृतयः परस्परसङ्घर्षेण उपकुर्वन्ति
विश्वास-प्रस्तुतिः - 20
20 राजविवादः तु पीडन उच्छेदनाय प्रकृतीनां द्विगुणव्यायामसाध्य इति
मूलम् - 20
20 राजविवादः तु पीडन उच्छेदनाय प्रकृतीनां द्विगुणव्यायामसाध्य इति
विश्वास-प्रस्तुतिः - 21
21 देशराजविहारयोर्देशविहारः त्रैकाल्येन कर्मफल उपघातं करोति, राजविहारः तु कारुशिल्पिकुशीलववाग्जीवनरूपाजीवावैदेहक उपकारं करोति इत्याचार्याः
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 न इति कौटिल्यः
मूलम् - 22
22 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 23
23 देशविहारः कर्मश्रमं अवधाऽर्थं अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति, राजविहारः तु स्वयं वल्लभैश्च स्वयङ्ग्राहप्रणयपण्यागारकार्य उपग्रहैः पीडयति इति
मूलम् - 23

विश्वास-प्रस्तुतिः - 24
24 सुभगाकुमारयोः कुमारः स्वयं वल्लभैश्च स्वयङ्ग्राहप्रणयपण्यागारकार्य उपग्रहैः पीडयति, सुभगा विलास उपभोगेन इत्याचार्याः
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 न इति कौटिल्यः
मूलम् - 25
25 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 26
26 शक्यः कुमारो मन्त्रिपुरोहिताभ्यां वारयितुं, न सुभगा बालिश्याद् अनर्थ्यजनसम्योगाच्च इति
मूलम् - 26
26 शक्यः कुमारो मन्त्रिपुरोहिताभ्यां वारयितुं, न सुभगा बालिश्याद् अनर्थ्यजनसम्योगाच्च इति
विश्वास-प्रस्तुतिः - 27
27 श्रेणीमुख्ययोः श्रेणी बाहुल्याद् अनवग्रहा स्तेयसाहसाभ्यां पीडयति, मुख्यः कार्यानुग्रहविघाताभ्याम् इत्याचार्याः
मूलम् - 27

विश्वास-प्रस्तुतिः - 28
28 न इति कौटिल्यः
मूलम् - 28
28 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 29
29 सुव्यावर्त्या श्रेणी समानशीलव्यसनत्वात्, श्रेणीमुख्य एकदेश उपग्रहेण वा
मूलम् - 29
29 सुव्यावर्त्या श्रेणी समानशीलव्यसनत्वात्, श्रेणीमुख्य एकदेश उपग्रहेण वा
विश्वास-प्रस्तुतिः - 30
30 स्तम्भयुक्तो मुख्यः परप्राणद्रव्य उपघाताभ्यां पीडयति इति
मूलम् - 30
30 स्तम्भयुक्तो मुख्यः परप्राणद्रव्य उपघाताभ्यां पीडयति इति
विश्वास-प्रस्तुतिः - 31
31 सम्निधातृसमाहर्त्रोः सम्निधाता कृतविदूषणात्ययाभ्यां पीडयति, समाहर्ता करणाधिष्ठितः प्रदिष्टफल उपभोगी भवति इत्याचार्याः
मूलम् - 31

विश्वास-प्रस्तुतिः - 32
32 न इति कौटिल्यः
मूलम् - 32
32 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 33
33 सम्निधाता कृतावस्थं अन्यैः कोशप्रवेश्यं प्रतिगृह्णाति, समाहर्ता तु पूर्वं अर्थं आत्मनः कृत्वा पश्चाद् राजार्थं करोति प्रणाशयति वा, परस्वादाने च स्वप्रत्ययश्चरति इति
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34 अन्तपालवैदेहकयोरन्तपालश्चोरप्रसर्गदेयात्यादानाभ्यां वणिक्पथं पीडयति, वैदेहकाः तु पण्य।प्रतिपण्यानुग्रहैः प्रसाधयन्ति इत्याचार्याः
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35 न इति कौटिल्यः
मूलम् - 35
35 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 36
36 अन्तपालः पण्यसम्पातानुग्रहेण वर्तयति, वैदेहकाः तु सम्भूय पण्यानां उत्कर्षापकर्षं कुर्वाणाः पणे पणशतं कुम्भे कुम्भशतं इत्याजीवन्ति
मूलम् - 36

विश्वास-प्रस्तुतिः - 37
37 अभिजात उपरुद्धा भूमिः पशुव्रज उपरुद्धा वा इति अभिजात उपरुद्धा भूमिः महाफलाऽप्यायुधीय उपकारिणी न क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रज उपरुद्धा तु कृषियोग्या क्षमा मोक्षयितुम्
मूलम् - 37

विश्वास-प्रस्तुतिः - 38
38 विवीतं हि क्षेत्रेण बाध्यते इत्याचार्याः
मूलम् - 38
38 विवीतं हि क्षेत्रेण बाध्यते इत्याचार्याः
विश्वास-प्रस्तुतिः - 39
39 न इति कौटिल्यः
मूलम् - 39
39 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 40
40 अभिजात उपरुद्धा भूमिरत्यन्तमहा उपकाराऽपि क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रज उपरुद्धा तु कोशवाहन उपकारिणी न क्षमा मोक्षयितुं, अन्यत्र सस्यवाप उपरोधाद् इति
मूलम् - 40

विश्वास-प्रस्तुतिः - 41
41 प्रतिरोधकाटविकयोः प्रतिरोधका रात्रिसत्त्रचराः शरीराक्रमिणो नित्याः शतसहस्राहपारिणः प्रधानकोपकाश्च व्यवहिताः प्रत्यन्तरारण्यचराश्चाटविकाः प्रकाशा दृस्याश्चरन्ति, एकदेशघातकाश्च इत्याचार्याः
मूलम् - 41

विश्वास-प्रस्तुतिः - 42
42 न इति कौटिल्यः
मूलम् - 42
42 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 43
43 प्रतिरोधकाः प्रमत्तस्यापरहन्ति, अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च, स्वदेशस्थाः प्रभूता विक्रान्ताश्चाटविकाः प्रकाशयोदिनोऽपहर्तारो हन्तारश्च देशानां राजसधर्माण इति
मूलम् - 43

विश्वास-प्रस्तुतिः - 44
44 मृगहस्तिवनयोः मृगाः प्रभूताः प्रभूतमांसचर्म उपकारिणो मन्दग्रासावक्लेशिनः सुनियम्याश्च
मूलम् - 44
44 मृगहस्तिवनयोः मृगाः प्रभूताः प्रभूतमांसचर्म उपकारिणो मन्दग्रासावक्लेशिनः सुनियम्याश्च
विश्वास-प्रस्तुतिः - 45
45 विपरीता हस्तिनो गृह्यमाणा दुष्टाश्च देशविनाशाय इति
मूलम् - 45
45 विपरीता हस्तिनो गृह्यमाणा दुष्टाश्च देशविनाशाय इति
विश्वास-प्रस्तुतिः - 46
46 स्वपरस्थानीय उपकारयोः स्वस्थानीय उपकारो धान्यपशुहिरण्यकुप्य उपकारो जानपदानां आपद्यात्मधारणः
मूलम् - 46
46 स्वपरस्थानीय उपकारयोः स्वस्थानीय उपकारो धान्यपशुहिरण्यकुप्य उपकारो जानपदानां आपद्यात्मधारणः
विश्वास-प्रस्तुतिः - 47
47 विपरीतः परस्थानीय उपकारः
मूलम् - 47
47 विपरीतः परस्थानीय उपकारः
विश्वास-प्रस्तुतिः - 48
48 इति पीडनानि - आभ्यन्तरो मुख्यस्तम्भो बाह्योऽमित्राटवीस्तम्भः इति स्तम्भवर्गह्
मूलम् - 48
48 इति पीडनानि - आभ्यन्तरो मुख्यस्तम्भो बाह्योऽमित्राटवीस्तम्भः इति स्तम्भवर्गह्
विश्वास-प्रस्तुतिः - 49
49 ताभ्यां पीडनैर्यथा उक्तैश्च पीडितः, सक्तो मुख्येषु, परिहार उपहतः, प्रकीर्णो, मिथ्यासंहृतः, सामन्ताटवीहृत इति कोशसङ्गवर्गः
मूलम् - 49

विश्वास-प्रस्तुतिः - 50
50ab पीडनानां अनुत्पत्तावुत्पन्नानां च वारणे ।
50chd यतेत देशवृद्ध्य्ऽर्थं नाशे च स्तम्भसङ्गयोः (इति)
मूलम् - 50