पुरुषव्यसनवर्गः
विश्वास-प्रस्तुतिः - 01
01 अविद्याविनयः पुरुषव्यसनहेतुः
मूलम् - 01
01 अविद्याविनयः पुरुषव्यसनहेतुः
विश्वास-प्रस्तुतिः - 02
02 अविनीतो हि व्यसनदोषान्न पश्यति
मूलम् - 02
02 अविनीतो हि व्यसनदोषान्न पश्यति
विश्वास-प्रस्तुतिः - 03
03 तान् उपदेक्ष्यामः
मूलम् - 03
03 तान् उपदेक्ष्यामः
विश्वास-प्रस्तुतिः - 04
04 कोपजः त्रिवर्गः, कामजश्चतुर्वर्गः
मूलम् - 04
04 कोपजः त्रिवर्गः, कामजश्चतुर्वर्गः
विश्वास-प्रस्तुतिः - 05
05 तयोः कोपो गरीयान्
मूलम् - 05
05 तयोः कोपो गरीयान्
विश्वास-प्रस्तुतिः - 06
06 सर्वत्र हि कोपश्चरति
मूलम् - 06
06 सर्वत्र हि कोपश्चरति
विश्वास-प्रस्तुतिः - 07
07 प्रायशश्च कोपवशा राजानः प्रकृतिकोपैर्हताः श्रूयन्ते, कामवशाः क्षयनिमित्तं अरिव्याधिभिरिति
मूलम् - 07
07 प्रायशश्च कोपवशा राजानः प्रकृतिकोपैर्हताः श्रूयन्ते, कामवशाः क्षयनिमित्तं अरिव्याधिभिरिति
विश्वास-प्रस्तुतिः - 08
08 न इति भारद्वाजः
मूलम् - 08
08 न इति भारद्वाजः
विश्वास-प्रस्तुतिः - 09
09 सत्पुरुषाचारः कोपो वैरयातनं अवज्ञावधो भीतमनुष्यता च
मूलम् - 09
09 सत्पुरुषाचारः कोपो वैरयातनं अवज्ञावधो भीतमनुष्यता च
विश्वास-प्रस्तुतिः - 10
10 नित्यश्च कोपेन सम्बन्धः पापप्रतिषेधार्थः
मूलम् - 10
10 नित्यश्च कोपेन सम्बन्धः पापप्रतिषेधार्थः
विश्वास-प्रस्तुतिः - 11
11 कामः सिद्धिलाभः सान्त्वं त्यागशीलता सम्प्रियभावश्च
मूलम् - 11
11 कामः सिद्धिलाभः सान्त्वं त्यागशीलता सम्प्रियभावश्च
विश्वास-प्रस्तुतिः - 12
12 नित्यश्च कामेन सम्बन्धः कृतकर्मणः फल उपभोगार्थः इति
मूलम् - 12
12 नित्यश्च कामेन सम्बन्धः कृतकर्मणः फल उपभोगार्थः इति
विश्वास-प्रस्तुतिः - 13
13 न इति कौटिल्यः
मूलम् - 13
13 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 14
14 द्वेष्यता शत्रुवेदनं दुःखासङ्गश्च कोपः
मूलम् - 14
14 द्वेष्यता शत्रुवेदनं दुःखासङ्गश्च कोपः
विश्वास-प्रस्तुतिः - 15
15 परिभवो द्रव्यनाशः पाटच्चरद्यूतकारलुब्धकगायनवादकैश्चानर्थ्यैः सम्योगः कामः
मूलम् - 15
15 परिभवो द्रव्यनाशः पाटच्चरद्यूतकारलुब्धकगायनवादकैश्चानर्थ्यैः सम्योगः कामः
विश्वास-प्रस्तुतिः - 16
16 तयोः परिभवाद् द्वेष्यता गरीयसी
मूलम् - 16
16 तयोः परिभवाद् द्वेष्यता गरीयसी
विश्वास-प्रस्तुतिः - 17
17 परिभूतः स्वैः परैश्चावगृह्यते, द्वेष्यः समुच्छिद्यत इति
मूलम् - 17
17 परिभूतः स्वैः परैश्चावगृह्यते, द्वेष्यः समुच्छिद्यत इति
विश्वास-प्रस्तुतिः - 18
18 द्रव्यनाशात्शत्रुवेदनं गरीयः
मूलम् - 18
18 द्रव्यनाशात्शत्रुवेदनं गरीयः
विश्वास-प्रस्तुतिः - 19
19 द्रव्यनाशः कोशाबाधकः, शत्रुवेदनं प्राणाबाधकं इति
मूलम् - 19
19 द्रव्यनाशः कोशाबाधकः, शत्रुवेदनं प्राणाबाधकं इति
विश्वास-प्रस्तुतिः - 20
20 अनर्थ्यसम्योगाद् दुःखसम्योगो गरीयान्
मूलम् - 20
20 अनर्थ्यसम्योगाद् दुःखसम्योगो गरीयान्
विश्वास-प्रस्तुतिः - 21
21 अनर्थ्यसम्योगो मुहूर्तप्रतीकारो, दीर्घक्लेशकरो दुःखानां आसङ्ग इति
मूलम् - 21
21 अनर्थ्यसम्योगो मुहूर्तप्रतीकारो, दीर्घक्लेशकरो दुःखानां आसङ्ग इति
विश्वास-प्रस्तुतिः - 22
22 तस्मात् कोपो गरीयान्
मूलम् - 22
22 तस्मात् कोपो गरीयान्
विश्वास-प्रस्तुतिः - 23
23 वाक्पारुष्यं अर्थदूषणं दण्डपारुष्यं इति
मूलम् - 23
23 वाक्पारुष्यं अर्थदूषणं दण्डपारुष्यं इति
विश्वास-प्रस्तुतिः - 24
24 वाक्पारुष्यार्थदूषणयोर्वाक्पारुष्यं गरीयः इति विशालाक्षः
मूलम् - 24
24 वाक्पारुष्यार्थदूषणयोर्वाक्पारुष्यं गरीयः इति विशालाक्षः
विश्वास-प्रस्तुतिः - 25
25 परुषमुक्तो हि तेजस्वी तेजसा प्रत्यारोहति
मूलम् - 25
25 परुषमुक्तो हि तेजस्वी तेजसा प्रत्यारोहति
विश्वास-प्रस्तुतिः - 26
26 दुरुक्तशल्यं हृदि निखातं तेजःसन्दीपनं इन्द्रिय उपतापि च इति
मूलम् - 26
26 दुरुक्तशल्यं हृदि निखातं तेजःसन्दीपनं इन्द्रिय उपतापि च इति
विश्वास-प्रस्तुतिः - 27
27 न इति कौटिल्यः
मूलम् - 27
27 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 28
28 अर्थपूजा वाक्षल्यं अपहन्ति, वृत्तिविलोपः त्वर्थदूषणम्
मूलम् - 28
28 अर्थपूजा वाक्षल्यं अपहन्ति, वृत्तिविलोपः त्वर्थदूषणम्
विश्वास-प्रस्तुतिः - 29
29 अदानं आदानं विनाशः परित्यागो वाऽर्थस्य इत्यर्थदूषणम्
मूलम् - 29
29 अदानं आदानं विनाशः परित्यागो वाऽर्थस्य इत्यर्थदूषणम्
विश्वास-प्रस्तुतिः - 30
30 अर्थदूषणदण्डपारुष्ययोरर्थदूषणं गरीयः इति पाराशराः
मूलम् - 30
30 अर्थदूषणदण्डपारुष्ययोरर्थदूषणं गरीयः इति पाराशराः
विश्वास-प्रस्तुतिः - 31
31 अर्थमूलौ धर्मकामौ
मूलम् - 31
31 अर्थमूलौ धर्मकामौ
विश्वास-प्रस्तुतिः - 32
32 अर्थप्रतिबद्धश्च लोको वर्तते
मूलम् - 32
32 अर्थप्रतिबद्धश्च लोको वर्तते
विश्वास-प्रस्तुतिः - 33
33 तस्य उपघातो गरीयान् इति
मूलम् - 33
33 तस्य उपघातो गरीयान् इति
विश्वास-प्रस्तुतिः - 34
34 न इति कौटिल्यः
मूलम् - 34
34 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 35
35 सुमहताऽप्यर्थेन न कश्चन शरीरविनाशं इच्छेत्
मूलम् - 35
35 सुमहताऽप्यर्थेन न कश्चन शरीरविनाशं इच्छेत्
विश्वास-प्रस्तुतिः - 36
36 दण्डपारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति
मूलम् - 36
36 दण्डपारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति
विश्वास-प्रस्तुतिः - 37
37 इति कोपजः त्रिवर्गः
मूलम् - 37
37 इति कोपजः त्रिवर्गः
विश्वास-प्रस्तुतिः - 38
38 कामजः तु मृगया द्यूतं स्त्रियः पानं इति चतुर्वर्गः
मूलम् - 38
38 कामजः तु मृगया द्यूतं स्त्रियः पानं इति चतुर्वर्गः
विश्वास-प्रस्तुतिः - 39
39 तस्य मृगयाद्यूतयोर्मृगया गरीयसी इति पिशुनः
मूलम् - 39
39 तस्य मृगयाद्यूतयोर्मृगया गरीयसी इति पिशुनः
विश्वास-प्रस्तुतिः - 40
40 स्तेनामित्रव्यालदावप्रस्खलनभयदिन्मोहाः क्षुत्पिपासे च प्राणाबाधः तस्याम्
मूलम् - 40
40 स्तेनामित्रव्यालदावप्रस्खलनभयदिन्मोहाः क्षुत्पिपासे च प्राणाबाधः तस्याम्
विश्वास-प्रस्तुतिः - 41
41 द्यूते तु जितं एवाक्षविदुषा यथा जयत्सेनदुर्योधनाभ्याम् इति
मूलम् - 41
41 द्यूते तु जितं एवाक्षविदुषा यथा जयत्सेनदुर्योधनाभ्याम् इति
विश्वास-प्रस्तुतिः - 42
42 न इत्य्कौटिल्यः
मूलम् - 42
42 न इत्य्कौटिल्यः
विश्वास-प्रस्तुतिः - 43
43 तयोरप्यन्यतरपराजयोऽस्ति इति नलयुधिष्ठिराभ्यां व्याख्यातम्
मूलम् - 43
43 तयोरप्यन्यतरपराजयोऽस्ति इति नलयुधिष्ठिराभ्यां व्याख्यातम्
विश्वास-प्रस्तुतिः - 44
44 तद् एव विजितद्रव्यं आमिषं वैरानुबन्धश्च
मूलम् - 44
44 तद् एव विजितद्रव्यं आमिषं वैरानुबन्धश्च
विश्वास-प्रस्तुतिः - 45
45 सतोऽर्थस्य विप्रतिपत्तिरसतश्चार्जनं अप्रतिभुक्तनाशो मूत्रपुरीषधारणबुभुक्षाऽऽदिभिश्च व्याधिलाभ इति द्यूतदोषाः
मूलम् - 45

विश्वास-प्रस्तुतिः - 46
46 मृगयायां तु व्यायामः श्लेष्मपित्तमेदःस्वेदनाशश्चले स्थिते च काये लक्षपरिचयः कोपभयस्थानेषु च मृगाणां चित्तज्ञानं अनित्ययानं च इति
मूलम् - 46

विश्वास-प्रस्तुतिः - 47
47 द्यूतस्त्रीव्यसनयोः कैतवव्यसनम् इति कौणपदन्तः
मूलम् - 47
47 द्यूतस्त्रीव्यसनयोः कैतवव्यसनम् इति कौणपदन्तः
विश्वास-प्रस्तुतिः - 48
48 सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः
मूलम् - 48
48 सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः
विश्वास-प्रस्तुतिः - 49
49 कृच्छ्रे च प्रतिपृष्टः कुप्यति
मूलम् - 49
49 कृच्छ्रे च प्रतिपृष्टः कुप्यति
विश्वास-प्रस्तुतिः - 50
50 स्त्रीव्यसने तु स्नानप्रतिकर्मभोजनभूमिषु भवत्येव धर्मार्थपरिप्रश्नः
मूलम् - 50
50 स्त्रीव्यसने तु स्नानप्रतिकर्मभोजनभूमिषु भवत्येव धर्मार्थपरिप्रश्नः
विश्वास-प्रस्तुतिः - 51
51 शक्या च स्त्री राजहितेनियोक्तुं, उपांशुदण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा इति
मूलम् - 51
51 शक्या च स्त्री राजहितेनियोक्तुं, उपांशुदण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा इति
विश्वास-प्रस्तुतिः - 52
52 न इति कौटिल्यः
मूलम् - 52
52 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 53
53 सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्रीव्यसनम्
मूलम् - 53
53 सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्रीव्यसनम्
विश्वास-प्रस्तुतिः - 54
54 अदर्शनं कार्यनिर्वेदः कालातिपातनाद् अनर्थो धर्मलोपश्च तन्त्रदौर्बल्यं पानानुबन्धश्च इति
मूलम् - 54
54 अदर्शनं कार्यनिर्वेदः कालातिपातनाद् अनर्थो धर्मलोपश्च तन्त्रदौर्बल्यं पानानुबन्धश्च इति
विश्वास-प्रस्तुतिः - 55
55 स्त्रीपानव्यसनयोः स्त्रीव्यसनम् इति वातव्याधिः
मूलम् - 55
55 स्त्रीपानव्यसनयोः स्त्रीव्यसनम् इति वातव्याधिः
विश्वास-प्रस्तुतिः - 56
56 स्त्रीषु हि बालिश्यं अनेकविधं निशान्तप्रणिधौ व्याख्यातम्
मूलम् - 56
56 स्त्रीषु हि बालिश्यं अनेकविधं निशान्तप्रणिधौ व्याख्यातम्
विश्वास-प्रस्तुतिः - 57
57 पाने तु शब्दादीनां इन्द्रियार्थानां उपभोगः प्रीतिदानं परिजनपूजनं कर्मश्रमवधश्च इति
मूलम् - 57
57 पाने तु शब्दादीनां इन्द्रियार्थानां उपभोगः प्रीतिदानं परिजनपूजनं कर्मश्रमवधश्च इति
विश्वास-प्रस्तुतिः - 58
58 न इति कौटिल्यः
मूलम् - 58
58 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 59
59 स्त्रीव्यसने भवत्यपत्य उत्पत्तिरात्मरक्षणं चान्तर्दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्व उच्छित्तिः
मूलम् - 59

विश्वास-प्रस्तुतिः - 60
60 तद् उभयं पानव्यसने
मूलम् - 60
60 तद् उभयं पानव्यसने
विश्वास-प्रस्तुतिः - 61
61 पानसम्पत् - सञ्ज्ञानाशोऽनुन्मत्तस्य उन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीनदर्शनं श्रुतप्रज्ञाप्राणवित्तमित्रहानिः सद्भिर्वियोगोऽनर्थ्यसम्योगः तन्त्रीगीतनैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति
मूलम् - 61

विश्वास-प्रस्तुतिः - 62
62 द्यूतमद्ययोर्द्यूतम्
मूलम् - 62
62 द्यूतमद्ययोर्द्यूतम्
विश्वास-प्रस्तुतिः - 63
63 एकेषां पणनिमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्षद्वैधेन प्रकृतिकोपं करोति
मूलम् - 63
63 एकेषां पणनिमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्षद्वैधेन प्रकृतिकोपं करोति
विश्वास-प्रस्तुतिः - 64
64 विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्याद् इति
मूलम् - 64

विश्वास-प्रस्तुतिः - 65
65ab असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् ।
65chd व्यसनं दोषबाहुल्याद् अत्यन्तं उभयं मतम्
मूलम् - 65
65ab असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् ।
65chd व्यसनं दोषबाहुल्याद् अत्यन्तं उभयं मतम्
विश्वास-प्रस्तुतिः - 66
66ab तस्मात् कोपं च कामं च व्यसनारम्भं आत्मवान् ।
66chd परित्यजेन् मूलहरं वृद्धसेवी जित इन्द्रियः (इति)
मूलम् - 66