राजराज्ययोर्व्यसनचिन्ता
विश्वास-प्रस्तुतिः - 01
01 राजा राज्यं इति प्रकृतिसङ्क्षेपः
मूलम् - 01
01 राजा राज्यं इति प्रकृतिसङ्क्षेपः
विश्वास-प्रस्तुतिः - 02
02 राज्ञोऽभ्यन्तरो बाह्यो वा कोप इति
मूलम् - 02
02 राज्ञोऽभ्यन्तरो बाह्यो वा कोप इति
विश्वास-प्रस्तुतिः - 03
03 अहिभयाद् अभ्यन्तरः कोपो बाह्यकोपात् पापीयान्, अन्तर्ऽमात्यकोपश्चान्तःकोपात्
मूलम् - 03
03 अहिभयाद् अभ्यन्तरः कोपो बाह्यकोपात् पापीयान्, अन्तर्ऽमात्यकोपश्चान्तःकोपात्
विश्वास-प्रस्तुतिः - 04
04 तस्मात् कोशदण्डशक्तिं आत्मसंस्थां कुर्वीत
मूलम् - 04
04 तस्मात् कोशदण्डशक्तिं आत्मसंस्थां कुर्वीत
विश्वास-प्रस्तुतिः - 05
05 द्वैराज्यवैराज्ययोर्द्वैराज्यं अन्योन्यपक्षद्वेषानुरागाभ्यां परस्परसङ्घर्षेण वा विनश्यति, वैराज्यं तु प्रकृतिचित्तग्रहणापेक्षि यथास्थितं अन्यैर्भुज्यते इत्याचार्याः
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 न इति कौटिल्यः
मूलम् - 06
06 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 07
07 पितापुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्ययोगक्षेमं अमात्यावग्रहं वर्तयति
मूलम् - 07
07 पितापुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्ययोगक्षेमं अमात्यावग्रहं वर्तयति
विश्वास-प्रस्तुतिः - 08
08 वैराज्यं तु जीवतः परस्याच्छिद्य न एतन् मम इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा परित्यज्यापगच्छति इति
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 अन्धश्चलितशास्त्रो वा राजा इति अशास्त्रचक्षुरन्धो यत्किञ्चनकारी दृढाभिनिवेशी परप्रणेयो वा राज्यं अन्यायेन उपहन्ति, चलितशास्त्रः तु यत्र शास्त्राच्चलितमतिर्भवति शक्यानुनयो भवति इत्याचार्याः
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 न इति कौटिल्यः
मूलम् - 10
10 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 11
11 अन्धो राजा शक्यते सहायसम्पदा यत्र तत्र वा पर्यवस्थापयितुम्
मूलम् - 11
11 अन्धो राजा शक्यते सहायसम्पदा यत्र तत्र वा पर्यवस्थापयितुम्
विश्वास-प्रस्तुतिः - 12
12 चलितशास्त्रः तु शास्त्राद् अन्यथाऽभिनिविष्टबुद्धिरन्यायेन राज्यं आत्मानं च उपहन्ति इति
मूलम् - 12
12 चलितशास्त्रः तु शास्त्राद् अन्यथाऽभिनिविष्टबुद्धिरन्यायेन राज्यं आत्मानं च उपहन्ति इति
विश्वास-प्रस्तुतिः - 13
13 व्याधितो नवो वा राजा इति व्याधितो राजा राज्य उपघातं अमात्यमूलं प्राणाबाधं वा राज्यमूलं अवाप्नोति, नवः तु राजा स्वधर्मानुग्रहपरिहारदानमानकर्मभिः प्रकृतिरञ्जन उपकारैश्चरति इत्याचार्याः
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 न इति कौटिल्यः
मूलम् - 14
14 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 15
15 व्याधितो राजा यथाप्रवृत्तं राजप्रणिधिं अनुवर्तयति
मूलम् - 15
15 व्याधितो राजा यथाप्रवृत्तं राजप्रणिधिं अनुवर्तयति
विश्वास-प्रस्तुतिः - 16
16 नवः तु राजा बलावर्जितं मम इदं राज्यम् इति यथा इष्टं अनवग्रहश्चरति
मूलम् - 16
16 नवः तु राजा बलावर्जितं मम इदं राज्यम् इति यथा इष्टं अनवग्रहश्चरति
विश्वास-प्रस्तुतिः - 17
17 सामुत्थायिकैरवगृहीतो वा राज्य उपघातं मर्षयति
मूलम् - 17
17 सामुत्थायिकैरवगृहीतो वा राज्य उपघातं मर्षयति
विश्वास-प्रस्तुतिः - 18
18 प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवति इति
मूलम् - 18
18 प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवति इति
विश्वास-प्रस्तुतिः - 19
19 व्याधिते विशेषः पापरोग्यपापरोगी च
मूलम् - 19
19 व्याधिते विशेषः पापरोग्यपापरोगी च
विश्वास-प्रस्तुतिः - 20
20 नवेऽप्यभिजातोऽनभिजात इति
मूलम् - 20
20 नवेऽप्यभिजातोऽनभिजात इति
विश्वास-प्रस्तुतिः - 21
21 दुर्बलोऽभिजातो बलवान् अनभिजातो राजा इति दुर्बलस्याभिजातस्य उपजापं दौर्बल्यापेक्षाः प्रकृतयः कृच्छ्रेण उपगच्छन्ति, बलवतश्चानभिजातस्य बलापेक्षाः सुखेन इत्याचार्याः
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 न इति कौटिल्यः
मूलम् - 22
22 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 23
23 दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति, जात्यं ऐश्वर्यप्रकृतिरनुवर्तत इति
मूलम् - 23
23 दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति, जात्यं ऐश्वर्यप्रकृतिरनुवर्तत इति
विश्वास-प्रस्तुतिः - 24
24 बलवतश्चानभिजातस्य उपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यं इति
मूलम् - 24
24 बलवतश्चानभिजातस्य उपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यं इति
विश्वास-प्रस्तुतिः - 25
25 प्रयासवधात् सस्यवधो मुष्टिवधात् पापीयान्, निराजीवत्वाद् अवृष्टिरतिवृष्टितः
मूलम् - 25
25 प्रयासवधात् सस्यवधो मुष्टिवधात् पापीयान्, निराजीवत्वाद् अवृष्टिरतिवृष्टितः
विश्वास-प्रस्तुतिः - 26
26ab द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बलाबलम् ।
26chd पारम्पर्यक्रमेण उक्तं याने स्थाने च कारणम् (इति)
मूलम् - 26