प्रकृतिव्यसनवर्गः

विश्वास-प्रस्तुतिः - 01

01 व्यसनयौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा इति व्यसनचिन्ता

मूलम् - 01

01 व्यसनयौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा इति व्यसनचिन्ता

विश्वास-प्रस्तुतिः - 02

02 दैवं मानुषं वा प्रकृतिव्यसनं अनयापनयाभ्यां सम्भवति

मूलम् - 02

02 दैवं मानुषं वा प्रकृतिव्यसनं अनयापनयाभ्यां सम्भवति

विश्वास-प्रस्तुतिः - 03

03 गुणप्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम्

मूलम् - 03

03 गुणप्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम्

विश्वास-प्रस्तुतिः - 04

04 व्यस्यत्येनं श्रेयस इति व्यसनम्

मूलम् - 04

04 व्यस्यत्येनं श्रेयस इति व्यसनम्

विश्वास-प्रस्तुतिः - 05

05 स्वाम्य्ऽमात्यजनपददुर्गकोशदण्डमित्रव्यसनानां पूर्वं पूर्वं गरीयः इत्याचार्याः

मूलम् - 05

05 स्वाम्य्ऽमात्यजनपददुर्गकोशदण्डमित्रव्यसनानां पूर्वं पूर्वं गरीयः इत्याचार्याः

विश्वास-प्रस्तुतिः - 06

06 न इति भरद्वाजः

मूलम् - 06

06 न इति भरद्वाजः

विश्वास-प्रस्तुतिः - 07

07 स्वाम्य्ऽमात्यव्यसनयोरमात्यव्यसनं गरीयः

मूलम् - 07

07 स्वाम्य्ऽमात्यव्यसनयोरमात्यव्यसनं गरीयः

विश्वास-प्रस्तुतिः - 08

08 मन्त्रो मन्त्रफलावाप्तिः कर्मानुष्ठानं आयव्ययकर्म दण्डप्रणयनं अमित्राटवीप्रतिषेधो राज्यरक्षणं व्यसनप्रतीकारः कुमाररक्षणं अभिषेकश्च कुमाराणां आयत्तं अमात्येषु

मूलम् - 08

विश्वास-प्रस्तुतिः - 09

09 तेषां अभावे तद्ऽभावः, छिन्नपक्षस्य इव राज्ञश्चेष्टानाशश्च

मूलम् - 09

09 तेषां अभावे तद्ऽभावः, छिन्नपक्षस्य इव राज्ञश्चेष्टानाशश्च

विश्वास-प्रस्तुतिः - 10

10 व्यसनेषु चासन्नः पर उपजापः

मूलम् - 10

10 व्यसनेषु चासन्नः पर उपजापः

विश्वास-प्रस्तुतिः - 11

11 वैगुण्ये च प्राणाबाधः प्राणान्तिकचरत्वाद् राज्ञः इति

मूलम् - 11

11 वैगुण्ये च प्राणाबाधः प्राणान्तिकचरत्वाद् राज्ञः इति

विश्वास-प्रस्तुतिः - 12

12 न इति कौटिल्यः

मूलम् - 12

12 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 13

13 मन्त्रिपुरोहितादिभृत्यवर्गं अध्यक्षप्रचारं पुरुषद्रव्यप्रकृतिव्यसनप्रतीकारं एधनं च राजा एव करोति

मूलम् - 13

13 मन्त्रिपुरोहितादिभृत्यवर्गं अध्यक्षप्रचारं पुरुषद्रव्यप्रकृतिव्यसनप्रतीकारं एधनं च राजा एव करोति

विश्वास-प्रस्तुतिः - 14

14 व्यसनिषु वाऽमात्येष्वन्यान् अव्यसनिनः करोति

मूलम् - 14

14 व्यसनिषु वाऽमात्येष्वन्यान् अव्यसनिनः करोति

विश्वास-प्रस्तुतिः - 15

15 पूज्यपूजने दूष्यावग्रहे च नित्ययुक्तः तिष्ठति

मूलम् - 15

15 पूज्यपूजने दूष्यावग्रहे च नित्ययुक्तः तिष्ठति

विश्वास-प्रस्तुतिः - 16

16 स्वामी च सम्पन्नः स्वसम्पद्भिः प्रकृतीः सम्पादयति

मूलम् - 16

16 स्वामी च सम्पन्नः स्वसम्पद्भिः प्रकृतीः सम्पादयति

विश्वास-प्रस्तुतिः - 17

17 स यत्शीलः तत्शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्।आयत्तत्वात्

मूलम् - 17

17 स यत्शीलः तत्शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्।आयत्तत्वात्

विश्वास-प्रस्तुतिः - 18

18 तत्कूटस्थानीयो हि स्वामी इति

मूलम् - 18

18 तत्कूटस्थानीयो हि स्वामी इति

विश्वास-प्रस्तुतिः - 19

19 अमात्यजनपदव्यसनयोर्जनपदव्यसनं गरीयः इति विशालाक्षः

मूलम् - 19

19 अमात्यजनपदव्यसनयोर्जनपदव्यसनं गरीयः इति विशालाक्षः

विश्वास-प्रस्तुतिः - 20

20 कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जनपदाद् उत्तिष्ठन्ते

मूलम् - 20

20 कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जनपदाद् उत्तिष्ठन्ते

विश्वास-प्रस्तुतिः - 21

21 तेषां अभावो जनपदाभावे, स्वाम्य्ऽमात्ययोश्चानन्तरः इति

मूलम् - 21

21 तेषां अभावो जनपदाभावे, स्वाम्य्ऽमात्ययोश्चानन्तरः इति

विश्वास-प्रस्तुतिः - 22

22 न इति कौटिल्यः

मूलम् - 22

22 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 23

23 अमात्यमूलाः सर्वारम्भाः - जनपदस्य कर्मसिद्धयः स्वतः परतश्च योगक्षेमसाधनं व्यसनप्रतीकारः शून्यनिवेश उपचयौ दण्डकरानुग्रहश्च इति

मूलम् - 23

विश्वास-प्रस्तुतिः - 24

24 जनपददुर्गव्यसनयोर्दुर्गव्यसनम् इति पाराशराः

मूलम् - 24

24 जनपददुर्गव्यसनयोर्दुर्गव्यसनम् इति पाराशराः

विश्वास-प्रस्तुतिः - 25

25 दुर्गे हि कोशदण्ड उत्पत्तिरापदि स्थानं च जनपदस्य

मूलम् - 25

25 दुर्गे हि कोशदण्ड उत्पत्तिरापदि स्थानं च जनपदस्य

विश्वास-प्रस्तुतिः - 26

26 शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चापदि सहाया राज्ञः

मूलम् - 26

26 शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चापदि सहाया राज्ञः

विश्वास-प्रस्तुतिः - 27

27 जानपदाः त्वमित्रसाधारणाः इति

मूलम् - 27

27 जानपदाः त्वमित्रसाधारणाः इति

विश्वास-प्रस्तुतिः - 28

28 न इति कौटिल्यः

मूलम् - 28

28 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 29

29 जनपदमूला दुर्गकोशदण्डसेतुवार्त्ताऽऽरम्भाः

मूलम् - 29

29 जनपदमूला दुर्गकोशदण्डसेतुवार्त्ताऽऽरम्भाः

विश्वास-प्रस्तुतिः - 30

30 शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु

मूलम् - 30

30 शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु

विश्वास-प्रस्तुतिः - 31

31 पर्वतान्तर्द्वीपाश्च दुर्गा नाध्युष्यन्ते जनपदाभावात्

मूलम् - 31

31 पर्वतान्तर्द्वीपाश्च दुर्गा नाध्युष्यन्ते जनपदाभावात्

विश्वास-प्रस्तुतिः - 32

32 कर्षकप्राये तु दुर्गव्यसनं, आयुधीयप्राये तु जनपदे जनपदव्यसनं इति

मूलम् - 32

32 कर्षकप्राये तु दुर्गव्यसनं, आयुधीयप्राये तु जनपदे जनपदव्यसनं इति

विश्वास-प्रस्तुतिः - 33

33 दुर्गकोशव्यसनयोः कोशव्यसनम् इति पिशुनः

मूलम् - 33

33 दुर्गकोशव्यसनयोः कोशव्यसनम् इति पिशुनः

विश्वास-प्रस्तुतिः - 34

34 कोशमूलो हि दुर्गसंस्कारो दुर्गरक्षणं जनपदमित्रामित्रनिग्रहो देशान्तरितानां उत्साहनं दण्डबलव्यवहारश्च

मूलम् - 34

विश्वास-प्रस्तुतिः - 35

35 दुर्गः कोशाद् उपजाप्यः परेषाम्

मूलम् - 35

35 दुर्गः कोशाद् उपजाप्यः परेषाम्

विश्वास-प्रस्तुतिः - 36

36 कोशं आदाय च व्यसने शक्यं अपयातुं, न दुर्गम् इति

मूलम् - 36

36 कोशं आदाय च व्यसने शक्यं अपयातुं, न दुर्गम् इति

विश्वास-प्रस्तुतिः - 37

37 न इति कौटिल्यः

मूलम् - 37

37 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 38

38 दुर्गार्पणः कोशो दण्डः तूष्णींयुद्धं स्वपक्षनिग्रहो दण्डबलव्यवहार आसारप्रतिग्रहः परचक्राटवीप्रतिषेधश्च

मूलम् - 38

विश्वास-प्रस्तुतिः - 39

39 दुर्गाभावे च कोशः परेषाम्

मूलम् - 39

39 दुर्गाभावे च कोशः परेषाम्

विश्वास-प्रस्तुतिः - 40

40 दृश्यते हि दुर्गवतां अनुच्छित्तिरिति

मूलम् - 40

40 दृश्यते हि दुर्गवतां अनुच्छित्तिरिति

विश्वास-प्रस्तुतिः - 41

41 कोशदण्डव्यसनयोर्दण्डव्यसनम् इति कौणपदन्तः

मूलम् - 41

41 कोशदण्डव्यसनयोर्दण्डव्यसनम् इति कौणपदन्तः

विश्वास-प्रस्तुतिः - 42

42 दण्डमूलो हि मित्रामित्रनिग्रहः परदण्ड उत्साहनं स्वदण्डप्रतिग्रहश्च

मूलम् - 42

42 दण्डमूलो हि मित्रामित्रनिग्रहः परदण्ड उत्साहनं स्वदण्डप्रतिग्रहश्च

विश्वास-प्रस्तुतिः - 43

43 दण्डाभावे च ध्रुवः कोशविनाशः

मूलम् - 43

43 दण्डाभावे च ध्रुवः कोशविनाशः

विश्वास-प्रस्तुतिः - 44

44 कोशाभावे च शक्यः कुप्येन भूम्या परभूमिस्वयङ्ग्राहेण वा दण्डः पिण्डयितुं, दण्डवता च कोशः

मूलम् - 44

44 कोशाभावे च शक्यः कुप्येन भूम्या परभूमिस्वयङ्ग्राहेण वा दण्डः पिण्डयितुं, दण्डवता च कोशः

विश्वास-प्रस्तुतिः - 45

45 स्वामिनश्चासन्नवृत्तित्वाद् अमात्यसधर्मा दण्डः इति

मूलम् - 45

45 स्वामिनश्चासन्नवृत्तित्वाद् अमात्यसधर्मा दण्डः इति

विश्वास-प्रस्तुतिः - 46

46 न इति कौटिल्यः

मूलम् - 46

46 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 47

47 कोशमूलो हि दण्डः

मूलम् - 47

47 कोशमूलो हि दण्डः

विश्वास-प्रस्तुतिः - 48

48 कोशाभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति

मूलम् - 48

48 कोशाभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति

विश्वास-प्रस्तुतिः - 49

49 सर्वाभियोगकरश्च कोशो धर्मकामहेतुः

मूलम् - 49

49 सर्वाभियोगकरश्च कोशो धर्मकामहेतुः

विश्वास-प्रस्तुतिः - 50

50 देशकालकार्यवशेन तु कोशदण्डयोरन्यतरः प्रमाणीभवति

मूलम् - 50

50 देशकालकार्यवशेन तु कोशदण्डयोरन्यतरः प्रमाणीभवति

विश्वास-प्रस्तुतिः - 51

51 लम्भपालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति

मूलम् - 51

51 लम्भपालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति

विश्वास-प्रस्तुतिः - 52

52 सर्वद्रव्यप्रयोजकत्वात् कोशव्यसनं गरीय इति

मूलम् - 52

52 सर्वद्रव्यप्रयोजकत्वात् कोशव्यसनं गरीय इति

विश्वास-प्रस्तुतिः - 53

53 दण्डमित्रव्यसनयोर्मित्रव्यसनम् इति वातव्याधिः

मूलम् - 53

53 दण्डमित्रव्यसनयोर्मित्रव्यसनम् इति वातव्याधिः

विश्वास-प्रस्तुतिः - 54

54 मित्रं अभृतं व्यवहितं च कर्म करोति, पार्ष्णिग्राहं आसारं अमित्रं आटविकं च प्रतिकरोति, कोशदण्डभूमिभिश्च उपकरोति व्यसनावस्थायोगम् इति

मूलम् - 54

विश्वास-प्रस्तुतिः - 55

55 न इति कौटिल्यः

मूलम् - 55

55 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 56

56 दण्डवतो मित्रं मित्रभावे तिष्ठति, अमित्रो वा मित्रभावे

मूलम् - 56

56 दण्डवतो मित्रं मित्रभावे तिष्ठति, अमित्रो वा मित्रभावे

विश्वास-प्रस्तुतिः - 57

57 दण्डमित्रयोः तु साधारणे कार्ये सारतः स्वयुद्धदेशकाललाभाद् विशेषः

मूलम् - 57

57 दण्डमित्रयोः तु साधारणे कार्ये सारतः स्वयुद्धदेशकाललाभाद् विशेषः

विश्वास-प्रस्तुतिः - 58

58 शीघ्राभियाने त्वमित्राटविकानभ्यन्तरकोपे च न मित्रं विद्यते

मूलम् - 58

58 शीघ्राभियाने त्वमित्राटविकानभ्यन्तरकोपे च न मित्रं विद्यते

विश्वास-प्रस्तुतिः - 59

59 व्यसनयौगपद्ये परवृद्धौ च मित्रं अर्थयुक्तौ तिष्ठति

मूलम् - 59

59 व्यसनयौगपद्ये परवृद्धौ च मित्रं अर्थयुक्तौ तिष्ठति

विश्वास-प्रस्तुतिः - 60

60 इति प्रकृतिव्यसनसम्प्रधारणं उक्तम्

मूलम् - 60

60 इति प्रकृतिव्यसनसम्प्रधारणं उक्तम्

विश्वास-प्रस्तुतिः - 61

61ab प्रकृत्य्ऽवयवानां तु व्यसनस्य विशेषतः ।
61chd बहुभावोऽनुरागो वा सारो वा कार्यसाधकः

मूलम् - 61

61ab प्रकृत्य्ऽवयवानां तु व्यसनस्य विशेषतः ।
61chd बहुभावोऽनुरागो वा सारो वा कार्यसाधकः

विश्वास-प्रस्तुतिः - 62

62ab द्वयोः तु व्यसने तुल्ये विशेषो गुणतः क्षयात् ।
62chd शेषप्रकृतिसाद्गुण्यं यदि स्यान्नाविधेयकम्

मूलम् - 62

62ab द्वयोः तु व्यसने तुल्ये विशेषो गुणतः क्षयात् ।
62chd शेषप्रकृतिसाद्गुण्यं यदि स्यान्नाविधेयकम्

विश्वास-प्रस्तुतिः - 63

63ab शेषप्रकृतिनाशः तु यत्र एकव्यसनाद् भवेत् ।
63chd व्यसनं तद् गरीयः स्यात् प्रधानस्य इतरस्य वा (इति)

मूलम् - 63