मध्यमचरितं - उदासीनचरितं - मण्डलचरितम्
विश्वास-प्रस्तुतिः - 01
01 मध्यमस्यात्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः
मूलम् - 01
01 मध्यमस्यात्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः
विश्वास-प्रस्तुतिः - 02
02 द्वितीया चतुर्थी षष्ठी च विकृतयः
मूलम् - 02
02 द्वितीया चतुर्थी षष्ठी च विकृतयः
विश्वास-प्रस्तुतिः - 03
03 तच्चेद् उभयं मध्यमोऽनुगृह्णीयात्, विजिगीषुर्मध्यमानुलोमः स्यात्
मूलम् - 03
03 तच्चेद् उभयं मध्यमोऽनुगृह्णीयात्, विजिगीषुर्मध्यमानुलोमः स्यात्
विश्वास-प्रस्तुतिः - 04
04 न चेद् अनुगृह्णीयात्, प्रकृत्य्ऽनुलोमः स्यात्
मूलम् - 04
04 न चेद् अनुगृह्णीयात्, प्रकृत्य्ऽनुलोमः स्यात्
विश्वास-प्रस्तुतिः - 05
05 मद्यमश्चेद् विजिगीषोर्मित्रं मित्रभावि लिप्सेत, मित्रस्यात्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 मण्डलं वा प्रोत्साहयेत् अतिप्रवृद्धोऽयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः, सम्भूयास्य यात्रां विहनाम इति
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 तच्चेन् मण्डलं अनुगृह्णीयात्, मध्यमावग्रहेणात्मानं उपबृंहयेत्
मूलम् - 07
07 तच्चेन् मण्डलं अनुगृह्णीयात्, मध्यमावग्रहेणात्मानं उपबृंहयेत्
विश्वास-प्रस्तुतिः - 08
08 न चेद् अनुगृह्णीयात्, कोशदण्डाभ्यां मित्रं अनुगृह्य ये मध्यमद्वेषिणो राजानः परस्परानुगृहीता वा बहवः तिष्ठेयुः, एकसिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता न उत्तिष्ठेरन्, तेषां प्रधानं एकं आसन्नं वा सामदानाभ्यां लभेत
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 द्विगुणो द्वितीयं त्रिगुनः तृतीयम्
मूलम् - 09
09 द्विगुणो द्वितीयं त्रिगुनः तृतीयम्
विश्वास-प्रस्तुतिः - 10
10 एवं अभ्युच्चितो मध्यमं अवगृह्णीयात्
मूलम् - 10
10 एवं अभ्युच्चितो मध्यमं अवगृह्णीयात्
विश्वास-प्रस्तुतिः - 11
11 देशकालातिपत्तौ वा सन्धाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्मसन्धिम्
मूलम् - 11
11 देशकालातिपत्तौ वा सन्धाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्मसन्धिम्
विश्वास-प्रस्तुतिः - 12
12 कर्शनीयं वाऽस्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं अहं त्वा त्रायेय इति आ कर्शनात्
मूलम् - 12
12 कर्शनीयं वाऽस्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं अहं त्वा त्रायेय इति आ कर्शनात्
विश्वास-प्रस्तुतिः - 13
13 कर्शितं एनं त्रायेत
मूलम् - 13
13 कर्शितं एनं त्रायेत
विश्वास-प्रस्तुतिः - 14
14 उच्छेदनीयं वाऽस्य मित्रं मध्यमो लिप्सेत, कर्शितं एनं त्रायेत मध्यमवृद्धिभयात्
मूलम् - 14
14 उच्छेदनीयं वाऽस्य मित्रं मध्यमो लिप्सेत, कर्शितं एनं त्रायेत मध्यमवृद्धिभयात्
विश्वास-प्रस्तुतिः - 15
15 उच्छिन्नं वा भूम्य्ऽनुग्रहेण हस्ते कुर्याद् अन्यत्रापसारभयात्
मूलम् - 15
15 उच्छिन्नं वा भूम्य्ऽनुग्रहेण हस्ते कुर्याद् अन्यत्रापसारभयात्
विश्वास-प्रस्तुतिः - 16
16 कर्शनीय उच्छेदनीययोश्चेन् मित्राणि मध्यमस्य साचिव्यकराणि स्युः, पुरुषान्तरेण सन्धीयेत
मूलम् - 16
16 कर्शनीय उच्छेदनीययोश्चेन् मित्राणि मध्यमस्य साचिव्यकराणि स्युः, पुरुषान्तरेण सन्धीयेत
विश्वास-प्रस्तुतिः - 17
17 विजिगीषोर्वा तयोर्मित्राण्यवग्रहसमर्थानि स्युः, सन्धिं उपेयात्
मूलम् - 17
17 विजिगीषोर्वा तयोर्मित्राण्यवग्रहसमर्थानि स्युः, सन्धिं उपेयात्
विश्वास-प्रस्तुतिः - 18
18 अमित्रं वाऽस्य मध्यमो लिप्सेत, सन्धिं उपेयात्
मूलम् - 18
18 अमित्रं वाऽस्य मध्यमो लिप्सेत, सन्धिं उपेयात्
विश्वास-प्रस्तुतिः - 19
19 एवं स्वार्थश्च कृतो भवति मध्यमस्य प्रियं च
मूलम् - 19
19 एवं स्वार्थश्च कृतो भवति मध्यमस्य प्रियं च
विश्वास-प्रस्तुतिः - 20
20 मध्यमश्चेत् स्वमित्रं मित्रभावि लिप्सेत, पुरुषान्तरेण सन्दध्यात्
मूलम् - 20
20 मध्यमश्चेत् स्वमित्रं मित्रभावि लिप्सेत, पुरुषान्तरेण सन्दध्यात्
विश्वास-प्रस्तुतिः - 21
21 सापेक्षं वा नार्हसि मित्रं उच्छेत्तुम् इति वारयेत्
मूलम् - 21
21 सापेक्षं वा नार्हसि मित्रं उच्छेत्तुम् इति वारयेत्
विश्वास-प्रस्तुतिः - 22
22 उपेक्षेत वा मण्डलं अस्य कुप्यतु स्वपक्षवधात् इति
मूलम् - 22
22 उपेक्षेत वा मण्डलं अस्य कुप्यतु स्वपक्षवधात् इति
विश्वास-प्रस्तुतिः - 23
23 अमित्रं आत्मनो वा मध्यमो लिप्सेत, कोशदण्डाभ्यां एनं अदृश्यमानोऽनुगृह्णीयात्
मूलम् - 23
23 अमित्रं आत्मनो वा मध्यमो लिप्सेत, कोशदण्डाभ्यां एनं अदृश्यमानोऽनुगृह्णीयात्
विश्वास-प्रस्तुतिः - 24
24 उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् उदासीनाद् भिद्यताम् इति
मूलम् - 24
24 उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् उदासीनाद् भिद्यताम् इति
विश्वास-प्रस्तुतिः - 25
25 मध्यम उदासीनयोर्यो मण्डलस्याभिप्रेतः तं आश्रयेत
मूलम् - 25
25 मध्यम उदासीनयोर्यो मण्डलस्याभिप्रेतः तं आश्रयेत
विश्वास-प्रस्तुतिः - 26
26 मध्यमचरितेन उदासीनचरितं व्याख्यातम्
मूलम् - 26
26 मध्यमचरितेन उदासीनचरितं व्याख्यातम्
विश्वास-प्रस्तुतिः - 27
27 उदासीनश्चेन् मध्यमं लिप्सेत, यतः शत्रुं अतिसन्दध्यान् मित्रस्य उपकारं कुर्याद् उदासीनं वा दण्ड उपकारिणं लभेत ततः परिणमेत
मूलम् - 27

विश्वास-प्रस्तुतिः - 28
28 एवं उपबृह्यात्मानं अरिप्रकृतिं कर्शयेन् मित्रप्रकृतिं च उपगृह्णीयात्
मूलम् - 28
28 एवं उपबृह्यात्मानं अरिप्रकृतिं कर्शयेन् मित्रप्रकृतिं च उपगृह्णीयात्
विश्वास-प्रस्तुतिः - 29
29a सत्यप्यमित्रभावे तस्यानात्मवान्नित्यापकारी शत्रुः शत्रुसंहितः पार्ष्णिग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरिभाविनः, एकार्थाभिप्रयातः पृथग्ऽर्थाभिप्रयातः सम्भूययात्रिकः संहितप्रयाणिकः स्वार्थाभिप्रयातः सामुत्थायिकः कोशदण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधीभाविक इति मित्रभाविनः, -
29b सामन्तो बलवतः प्रतिघातोऽन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णिग्राहो वा स्वयं उपनतः प्रताप उपनतो वा दण्ड उपनत इति भृत्यभाविनः सामन्ताः
मूलम् - 29

विश्वास-प्रस्तुतिः - 30
30 तैर्भूम्य्।एकान्तरा व्याख्याताः
मूलम् - 30
30 तैर्भूम्य्।एकान्तरा व्याख्याताः
विश्वास-प्रस्तुतिः - 31
31ab तेषां शत्रुविरोधे यन् मित्रं एकार्थतां व्रजेत् ।
31chd शक्त्या तद्ऽनुगृह्णीयाद् विषहेत यया परम्
मूलम् - 31
31ab तेषां शत्रुविरोधे यन् मित्रं एकार्थतां व्रजेत् ।
31chd शक्त्या तद्ऽनुगृह्णीयाद् विषहेत यया परम्
विश्वास-प्रस्तुतिः - 32
32ab प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् ।
32chd सामन्त एकान्तराभ्यां तत्प्रकृतिभ्यां विरोधयेत्
मूलम् - 32

विश्वास-प्रस्तुतिः - 33
33ab तत्कुलीनापरुद्धाभ्यां भूमिं वा तस्य हारयेत् ।
33chd यथा वाऽनुग्रहापेक्षं वश्यं तिष्ठेत् तथा चरेत्
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34ab न उपकुर्याद् अमित्रं वा गच्छेद् यद् अतिकर्शितम् ।
34chd तद् अहीनं अवृद्धं च स्थापयेन् मित्रं अर्थवित्
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35ab अर्थयुक्त्या चलं मित्रं सन्धिं यद् उपगच्छति ।
35chd तस्यापगमने हेतुं विहन्यान्न चलेद् यथा
मूलम् - 35
35ab अर्थयुक्त्या चलं मित्रं सन्धिं यद् उपगच्छति ।
35chd तस्यापगमने हेतुं विहन्यान्न चलेद् यथा
विश्वास-प्रस्तुतिः - 36
36ab अरिसाधारणं यद् वा तिष्ठेत् तद् अरितः शठम् ।
36chd भेदयेद् भिन्नं उच्छिन्द्यात् ततः शत्रुं अनन्तरम्
मूलम् - 36

विश्वास-प्रस्तुतिः - 37
37ab उदासीनं च यत् तिष्ठेत् सामन्तैः तद् विरोधयेत् ।
37chd ततो विग्रहसन्तप्तं उपकारे निवेशयेत्
मूलम् - 37
37ab उदासीनं च यत् तिष्ठेत् सामन्तैः तद् विरोधयेत् ।
37chd ततो विग्रहसन्तप्तं उपकारे निवेशयेत्
विश्वास-प्रस्तुतिः - 38
38ab अमित्रं विजिगीषुं च यत् सञ्चरति दुर्बलम् ।
38chd तद् बलेनानुगृह्णीयाद् यथा स्यान्न परान्मुखम्
मूलम् - 38
38ab अमित्रं विजिगीषुं च यत् सञ्चरति दुर्बलम् ।
38chd तद् बलेनानुगृह्णीयाद् यथा स्यान्न परान्मुखम्
विश्वास-प्रस्तुतिः - 39
39ab अपनीय ततोऽन्यस्यां भूमौ वा सम्निवेशयेत् ।
39chd निवेश्य पूर्वं तत्रान्यद् दण्डानुग्रहहेतुना
मूलम् - 39
39ab अपनीय ततोऽन्यस्यां भूमौ वा सम्निवेशयेत् ।
39chd निवेश्य पूर्वं तत्रान्यद् दण्डानुग्रहहेतुना
विश्वास-प्रस्तुतिः - 40
40ab अपकुर्यात् समर्थं वा न उपकुर्याद् यद् आपदि ।
40chd उच्छिन्द्याद् एव तन्मित्रं विश्वस्याङ्कं उपस्थितम्
मूलम् - 40

विश्वास-प्रस्तुतिः - 41
41ab मित्रव्यसनतो वाऽरिरुत्तिष्ठेद् योऽनवग्रहः ।
41chd मित्रेण एव भवेत् साध्यश्छादितव्यसनेन सः
41ab अमित्रव्यसनान् मित्रं उत्थितं यद् विरज्यति ।
41chd अरिव्यसनसिद्ध्या तत्शत्रुणा एव प्रसिध्यति
मूलम् - 41

विश्वास-प्रस्तुतिः - 42
42ab वृद्धिं क्षयं च स्थानं च कर्शन उच्छेदनं तथा
42chd सर्व उपायान् समादध्याद् एतान् यश्चार्थशास्त्रवित् ।
मूलम् - 42

विश्वास-प्रस्तुतिः - 43
43ab एवं अन्योन्यसञ्चारं षाड्गुण्यं योऽनुपश्यति
43chd स बुद्धिनिगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः (इति)
मूलम् - 43