सन्धिकर्म -समाधिमोक्षः
विश्वास-प्रस्तुतिः - 01
01 शमः सन्धिः समाधिरित्येकोऽर्थः
मूलम् - 01
01 शमः सन्धिः समाधिरित्येकोऽर्थः
विश्वास-प्रस्तुतिः - 02
02 राज्ञां विश्वास उपगमः शमः सन्धिः समाधिरिति
मूलम् - 02
02 राज्ञां विश्वास उपगमः शमः सन्धिः समाधिरिति
विश्वास-प्रस्तुतिः - 03
03 सत्यं शपथो वा चलः सन्धिः, प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः
मूलम् - 03
03 सत्यं शपथो वा चलः सन्धिः, प्रतिभूः प्रतिग्रहो वा स्थावरः इत्याचार्याः
विश्वास-प्रस्तुतिः - 04
04 न इति कौटिल्यः
मूलम् - 04
04 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 05
05 सत्यं शपथो वा परत्र इह च स्थावरः सन्धिः, इहार्थ एव प्रतिभूः प्रतिग्रहो वा बलापेक्षः
मूलम् - 05
05 सत्यं शपथो वा परत्र इह च स्थावरः सन्धिः, इहार्थ एव प्रतिभूः प्रतिग्रहो वा बलापेक्षः
विश्वास-प्रस्तुतिः - 06
06 संहिताः स्मः इति सत्यसन्धाः पूर्वे राजानः सत्येन सन्दधिरे
मूलम् - 06
06 संहिताः स्मः इति सत्यसन्धाः पूर्वे राजानः सत्येन सन्दधिरे
विश्वास-प्रस्तुतिः - 07
07 तस्यातिक्रमे शपथेन अग्न्य्।उदकसीताप्राकारलोष्टहस्तिस्कन्धाश्वपृष्टरथ उपस्थशस्त्ररत्नबीजगन्धरससुवर्णहिरण्यान्यालेभिरे हन्युरेतानि त्यजेयुश्च एनं यः शपथं अतिक्रामेत् इति
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्यबन्धः प्रतिभूः
मूलम् - 08
08 शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्यबन्धः प्रतिभूः
विश्वास-प्रस्तुतिः - 09
09 तस्मिन् यः परावग्रहसमर्थान् प्रतिभुवो गृह्णाति, सोऽतिसन्धत्ते
मूलम् - 09
09 तस्मिन् यः परावग्रहसमर्थान् प्रतिभुवो गृह्णाति, सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 10
10 विपरीतोऽतिसन्धीयते
मूलम् - 10
10 विपरीतोऽतिसन्धीयते
विश्वास-प्रस्तुतिः - 11
11 बन्धुमुख्यप्रग्रहः प्रतिग्रहः
मूलम् - 11
11 बन्धुमुख्यप्रग्रहः प्रतिग्रहः
विश्वास-प्रस्तुतिः - 12
12 तस्मिन् यो दूष्यामात्यं दूष्यापत्यं वा ददाति, सोऽतिसन्धत्ते
मूलम् - 12
12 तस्मिन् यो दूष्यामात्यं दूष्यापत्यं वा ददाति, सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 13
13 विपरीतोऽतिसन्धीयते
मूलम् - 13
13 विपरीतोऽतिसन्धीयते
विश्वास-प्रस्तुतिः - 14
14 प्रतिग्रहग्रहणविश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति
मूलम् - 14
14 प्रतिग्रहग्रहणविश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति
विश्वास-प्रस्तुतिः - 15
15 अपत्यसमाधौ तु कन्यापुत्रदाने ददत् तु कन्यां अतिसन्धत्ते
मूलम् - 15
15 अपत्यसमाधौ तु कन्यापुत्रदाने ददत् तु कन्यां अतिसन्धत्ते
विश्वास-प्रस्तुतिः - 16
16 कन्या ह्यदायादा परेषां एवार्थायाक्लेश्या(?) च
मूलम् - 16
16 कन्या ह्यदायादा परेषां एवार्थायाक्लेश्या(?) च
विश्वास-प्रस्तुतिः - 17
17 विपरीतः पुत्रः
मूलम् - 17
17 विपरीतः पुत्रः
विश्वास-प्रस्तुतिः - 18
18 पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृतास्त्रं एकपुत्रं वा ददाति सोऽतिसन्धीयते
मूलम् - 18
18 पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृतास्त्रं एकपुत्रं वा ददाति सोऽतिसन्धीयते
विश्वास-प्रस्तुतिः - 19
19 विपरीतोऽतिसन्धत्ते
मूलम् - 19
19 विपरीतोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 20
20 जात्याद् अजात्यो हि लुप्तदायादसन्तानत्वाद् आधातुं श्रेयान्, प्राज्ञाद् अप्राज्ञो मन्त्रशक्तिलोपात्, शूराद् अशूर उत्साहशक्तिलोपात्, कृतास्त्राद् अकृतास्त्रः प्रहर्तव्यसम्पल्लोपात्, एकपुत्राद् अनेकपुत्रो निरपेक्षत्वात्
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21 जात्यप्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्यप्रकृतिरनुवर्तते, प्राज्ञं अजात्यं मन्त्राधिकारः
मूलम् - 21
21 जात्यप्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्यप्रकृतिरनुवर्तते, प्राज्ञं अजात्यं मन्त्राधिकारः
विश्वास-प्रस्तुतिः - 22
22 मन्त्राधिकारेऽपि वृद्धसम्योगाज् जात्यः प्राज्ञं अतिसन्धत्ते
मूलम् - 22
22 मन्त्राधिकारेऽपि वृद्धसम्योगाज् जात्यः प्राज्ञं अतिसन्धत्ते
विश्वास-प्रस्तुतिः - 23
23 प्राज्ञशूरयोः प्राज्ञं अशूरं मतिकर्मणां योगोऽनुवर्तते, शूरं अप्राज्ञं विक्रमाधिकारः
मूलम् - 23
23 प्राज्ञशूरयोः प्राज्ञं अशूरं मतिकर्मणां योगोऽनुवर्तते, शूरं अप्राज्ञं विक्रमाधिकारः
विश्वास-प्रस्तुतिः - 24
24 विक्रमाधिकारेऽपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसन्धत्तेश्
मूलम् - 24
24 विक्रमाधिकारेऽपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसन्धत्तेश्
विश्वास-प्रस्तुतिः - 25
25 शूरकृतास्त्रयोः शूरं अकृतास्त्रं विक्रमव्यवसायोऽनुवर्तते, कृतास्त्रं अशूरं लक्ष्यलम्भाधिकारः
मूलम् - 25
25 शूरकृतास्त्रयोः शूरं अकृतास्त्रं विक्रमव्यवसायोऽनुवर्तते, कृतास्त्रं अशूरं लक्ष्यलम्भाधिकारः
विश्वास-प्रस्तुतिः - 26
26 लक्ष्यलम्भाधिकारेऽपि स्थैर्यप्रतिपत्त्य्ऽसम्मोषैः शूरः कृतास्त्रं अतिसन्धत्ते
मूलम् - 26
26 लक्ष्यलम्भाधिकारेऽपि स्थैर्यप्रतिपत्त्य्ऽसम्मोषैः शूरः कृतास्त्रं अतिसन्धत्ते
विश्वास-प्रस्तुतिः - 27
27 बह्व्।एकपुत्रयोर्बहुपुत्र एकं दत्त्वा शेषप्रतिष्टब्धः सन्धिं अतिक्रामति, न इतरः
मूलम् - 27
27 बह्व्।एकपुत्रयोर्बहुपुत्र एकं दत्त्वा शेषप्रतिष्टब्धः सन्धिं अतिक्रामति, न इतरः
विश्वास-प्रस्तुतिः - 28
28 पुत्रसर्वस्वदाने सन्धिश्चेत् पुत्रफलतो विशेषः
मूलम् - 28
28 पुत्रसर्वस्वदाने सन्धिश्चेत् पुत्रफलतो विशेषः
विश्वास-प्रस्तुतिः - 29
29 समफलयोः शक्तप्रजननतो विशेषः
मूलम् - 29
29 समफलयोः शक्तप्रजननतो विशेषः
विश्वास-प्रस्तुतिः - 30
30 शक्तप्रजननयोरप्युपस्थितप्रजननतो विशेषः
मूलम् - 30
30 शक्तप्रजननयोरप्युपस्थितप्रजननतो विशेषः
विश्वास-प्रस्तुतिः - 31
31 शक्तिमत्येकपुत्रे तु लुप्तपुत्र उत्पत्तिरात्मानं आदध्यात्, न च एकपुत्रं इति
मूलम् - 31
31 शक्तिमत्येकपुत्रे तु लुप्तपुत्र उत्पत्तिरात्मानं आदध्यात्, न च एकपुत्रं इति
विश्वास-प्रस्तुतिः - 32
32 अभ्युच्चीयमानः समाधिमोक्षं कारयेत्
मूलम् - 32
32 अभ्युच्चीयमानः समाधिमोक्षं कारयेत्
विश्वास-प्रस्तुतिः - 33
33 कुमारासन्नाः सत्त्रिणः कारुशिल्पिव्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34 नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिका वा पूर्वप्रणिहिताः परं उपतिष्ठेरन्
मूलम् - 34
34 नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिका वा पूर्वप्रणिहिताः परं उपतिष्ठेरन्
विश्वास-प्रस्तुतिः - 35
35 ते कुमारं परम्परया उपतिष्ठेरन्
मूलम् - 35
35 ते कुमारं परम्परया उपतिष्ठेरन्
विश्वास-प्रस्तुतिः - 36
36 तेषां अनियतकालप्रवेशस्थाननिर्गमनानि स्थापयेत्
मूलम् - 36
36 तेषां अनियतकालप्रवेशस्थाननिर्गमनानि स्थापयेत्
विश्वास-प्रस्तुतिः - 37
37 ततः तद्व्यञ्जनो वा रात्रौ प्रतिष्ठेत
मूलम् - 37
37 ततः तद्व्यञ्जनो वा रात्रौ प्रतिष्ठेत
विश्वास-प्रस्तुतिः - 38
38 तेन रूपाजीवा भार्याव्यञ्जनाश्च व्याख्याताः
मूलम् - 38
38 तेन रूपाजीवा भार्याव्यञ्जनाश्च व्याख्याताः
विश्वास-प्रस्तुतिः - 39
39 तेषां वा तूर्यभाण्डफेलां गृहीत्वा निर्गच्छेत्
मूलम् - 39
39 तेषां वा तूर्यभाण्डफेलां गृहीत्वा निर्गच्छेत्
विश्वास-प्रस्तुतिः - 40
40 सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधक उदकपरिचारकैर्वा द्रव्यवस्त्रभाण्डफेलाशयनासनसम्भोगैर्निर्ह्रियेत
मूलम् - 40

विश्वास-प्रस्तुतिः - 41
41 परिचारकच्छद्मना वा किञ्चिद् अरूपवेलायां आदाय निर्गच्छेत्, सुरुङ्गामुखेन वा निशा उपहारेण
मूलम् - 41
41 परिचारकच्छद्मना वा किञ्चिद् अरूपवेलायां आदाय निर्गच्छेत्, सुरुङ्गामुखेन वा निशा उपहारेण
विश्वास-प्रस्तुतिः - 42
42 तोयाशये वा वारुणं योगं आतिष्ठेत्
मूलम् - 42
42 तोयाशये वा वारुणं योगं आतिष्ठेत्
विश्वास-प्रस्तुतिः - 43
43 वैदेहकव्यञ्जना वा पक्वान्नफलव्यवहारेणारक्षिषु रसं उपचारयेयुः
मूलम् - 43
43 वैदेहकव्यञ्जना वा पक्वान्नफलव्यवहारेणारक्षिषु रसं उपचारयेयुः
विश्वास-प्रस्तुतिः - 44
44 दैवत उपहारश्राद्धप्रहवणनिमित्तं आरक्षिषु मदनयोगयुक्तं अन्नपानं रसं वा प्रयुज्यापगच्छेत्, आरक्षकप्रोत्साहनेन वा
मूलम् - 44

विश्वास-प्रस्तुतिः - 45
45 नागरककुशीलवचिकित्सकापूपिकव्यञ्जना वा रात्रौ समृद्धगृहाण्यादीपयेयुः आरक्षिणां वा
मूलम् - 45
45 नागरककुशीलवचिकित्सकापूपिकव्यञ्जना वा रात्रौ समृद्धगृहाण्यादीपयेयुः आरक्षिणां वा
विश्वास-प्रस्तुतिः - 46
46 वैदेहकव्यञ्जना वा पण्यसंस्थां आदीपयेयुः
मूलम् - 46
46 वैदेहकव्यञ्जना वा पण्यसंस्थां आदीपयेयुः
विश्वास-प्रस्तुतिः - 47
47 अन्यद् वा शरीरं निक्षिप्य स्वगृहं आदीपयेद् अनुपातभयात्
मूलम् - 47
47 अन्यद् वा शरीरं निक्षिप्य स्वगृहं आदीपयेद् अनुपातभयात्
विश्वास-प्रस्तुतिः - 48
48 ततः सन्धिच्छेदखातसुरुङ्गाभिरपगच्छेत्
मूलम् - 48
48 ततः सन्धिच्छेदखातसुरुङ्गाभिरपगच्छेत्
विश्वास-प्रस्तुतिः - 49
49 काचकुम्भभाण्डभारव्यञ्जनो वा रात्रौ प्रतिष्ठेत
मूलम् - 49
49 काचकुम्भभाण्डभारव्यञ्जनो वा रात्रौ प्रतिष्ठेत
विश्वास-प्रस्तुतिः - 50
50 मुण्डजटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्व्यञ्जनः प्रतिष्ठेत, विरूपव्याधिकरणारण्यचरच्छद्मनां अन्यतमेन वा
मूलम् - 50

विश्वास-प्रस्तुतिः - 51
51 प्रेतव्यञ्जनो वा गूढैर्निर्ह्रियेत
मूलम् - 51
51 प्रेतव्यञ्जनो वा गूढैर्निर्ह्रियेत
विश्वास-प्रस्तुतिः - 52
52 प्रेतं वा स्त्रीवेषेणानुगच्छेत्
मूलम् - 52
52 प्रेतं वा स्त्रीवेषेणानुगच्छेत्
विश्वास-प्रस्तुतिः - 53
53 वनचरव्यञ्जनाश्च एनं अन्यतो यान्तं अन्यतोऽपदिशेयुः
मूलम् - 53
53 वनचरव्यञ्जनाश्च एनं अन्यतो यान्तं अन्यतोऽपदिशेयुः
विश्वास-प्रस्तुतिः - 54
54 ततोऽन्यतो गच्छेत्
मूलम् - 54
54 ततोऽन्यतो गच्छेत्
विश्वास-प्रस्तुतिः - 55
55 चक्रचराणां वा शकटवाटैरपगच्छेत्
मूलम् - 55
55 चक्रचराणां वा शकटवाटैरपगच्छेत्
विश्वास-प्रस्तुतिः - 56
56 आसन्ने चानुपाते सत्त्रं वा गृह्णीयात्
मूलम् - 56
56 आसन्ने चानुपाते सत्त्रं वा गृह्णीयात्
विश्वास-प्रस्तुतिः - 57
57 सत्त्राभावे हिरण्यं रसविद्धं वा भक्ष्यजातं उभयतःपन्थानं उत्सृजेत्
मूलम् - 57
57 सत्त्राभावे हिरण्यं रसविद्धं वा भक्ष्यजातं उभयतःपन्थानं उत्सृजेत्
विश्वास-प्रस्तुतिः - 58
58 ततोऽन्यतोऽपगच्छेत्
मूलम् - 58
58 ततोऽन्यतोऽपगच्छेत्
विश्वास-प्रस्तुतिः - 59
59 गृहीतो वा सामादिभिरनुपातं अतिसन्दध्यात्, रसविद्धेन वा पथ्य्ऽदनेन
मूलम् - 59
59 गृहीतो वा सामादिभिरनुपातं अतिसन्दध्यात्, रसविद्धेन वा पथ्य्ऽदनेन
विश्वास-प्रस्तुतिः - 60
60 वारुणयोगाग्निदाहेषु वा शरीरं अन्यद् आधाय शत्रुं अभियुञ्जीत पुत्रो मे त्वया हतः इति
मूलम् - 60
60 वारुणयोगाग्निदाहेषु वा शरीरं अन्यद् आधाय शत्रुं अभियुञ्जीत पुत्रो मे त्वया हतः इति
विश्वास-प्रस्तुतिः - 61
61a उपात्तच्छन्नशस्त्रो वा रात्रौ विक्रम्य रक्षिषु
61b शीघ्रपातैरपसरेद् गूढप्रणिहितैः सह (इति)
मूलम् - 61