१६

दण्ड उपनायिवृत्तम्

विश्वास-प्रस्तुतिः - 01

01 अनुज्ञातसन्धिपण उद्वेगकरं बलवान् विजिगीषमाणो यतः स्वभूमिः स्व।ऋतुवृत्तिश्च स्वसैन्यानां, अदुर्गापसारः शत्रुर्ऽपार्ष्णिरनासारश्च, ततो यायात्

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 विपर्यये कृतप्रतीकारो यायात्

मूलम् - 02

02 विपर्यये कृतप्रतीकारो यायात्

विश्वास-प्रस्तुतिः - 03

03 सामदानाभ्यां दुर्बलान् उपनमयेत्, भेददण्डाभ्यां बलवतः

मूलम् - 03

03 सामदानाभ्यां दुर्बलान् उपनमयेत्, भेददण्डाभ्यां बलवतः

विश्वास-प्रस्तुतिः - 04

04 नियोगविकल्पसमुच्चयैश्च उपायानां अनन्तर एकान्तराः प्रकृतीः साधयेत्

मूलम् - 04

04 नियोगविकल्पसमुच्चयैश्च उपायानां अनन्तर एकान्तराः प्रकृतीः साधयेत्

विश्वास-प्रस्तुतिः - 05

05 ग्रामारण्य उपजीविव्रजवणिक्पथानुपालनं उज्झितापसृतापकारिणां चार्पणं इति सान्त्वं आचरेत्

मूलम् - 05

05 ग्रामारण्य उपजीविव्रजवणिक्पथानुपालनं उज्झितापसृतापकारिणां चार्पणं इति सान्त्वं आचरेत्

विश्वास-प्रस्तुतिः - 06

06 भूमिद्रव्यकन्यादानं अभयस्य च इति दानं आचरेत्

मूलम् - 06

06 भूमिद्रव्यकन्यादानं अभयस्य च इति दानं आचरेत्

विश्वास-प्रस्तुतिः - 07

07 सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतम उपग्रहेण कोशदण्डभूमिदाययाचनं इति भेदं आचरेत्

मूलम् - 07

07 सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतम उपग्रहेण कोशदण्डभूमिदाययाचनं इति भेदं आचरेत्

विश्वास-प्रस्तुतिः - 08

08 प्रकाशकूटतूष्णींयुद्धदुर्गलम्भ उपायैरमित्रप्रग्रहणं इति दण्डं आचरेत्

मूलम् - 08

08 प्रकाशकूटतूष्णींयुद्धदुर्गलम्भ उपायैरमित्रप्रग्रहणं इति दण्डं आचरेत्

विश्वास-प्रस्तुतिः - 09

09 एवं उत्साहवतो दण्ड उपकारिणः स्थापयेत्, स्वप्रभाववतः कोश उपकारिणः, प्रज्ञावतो भूम्य्।उपकारिणः

मूलम् - 09

09 एवं उत्साहवतो दण्ड उपकारिणः स्थापयेत्, स्वप्रभाववतः कोश उपकारिणः, प्रज्ञावतो भूम्य्।उपकारिणः

विश्वास-प्रस्तुतिः - 10

10 तेषां पण्यपत्तनग्रामखनिसञ्जातेन रत्नसारफल्गुकुप्येन द्रव्यहस्तिवनव्रजसमुत्थेन यानवाहनेन वा यद् बहुश उपकरोति तच्चित्रभोगम्

मूलम् - 10

विश्वास-प्रस्तुतिः - 11

11 यद् दण्डेन कोशेन वा महद् उपकरोति तन् महाभोगम्

मूलम् - 11

11 यद् दण्डेन कोशेन वा महद् उपकरोति तन् महाभोगम्

विश्वास-प्रस्तुतिः - 12

12 यद् दण्डकोशभूमीभिरुपकरोति तत् सर्वभोगम्

मूलम् - 12

12 यद् दण्डकोशभूमीभिरुपकरोति तत् सर्वभोगम्

विश्वास-प्रस्तुतिः - 13

13 यद् अमित्रं एकतः प्रतिकरोति तद् एकतोभोगि

मूलम् - 13

13 यद् अमित्रं एकतः प्रतिकरोति तद् एकतोभोगि

विश्वास-प्रस्तुतिः - 14

14 यद् अमित्रं आसारं च उभयतः प्रतिकरोति तद् उभयतोभोगि

मूलम् - 14

14 यद् अमित्रं आसारं च उभयतः प्रतिकरोति तद् उभयतोभोगि

विश्वास-प्रस्तुतिः - 15

15 यद् अमित्रासारप्रतिवेशाटविकान् सर्वतः प्रतिकरोति तत् सर्वतोभोगि

मूलम् - 15

15 यद् अमित्रासारप्रतिवेशाटविकान् सर्वतः प्रतिकरोति तत् सर्वतोभोगि

विश्वास-प्रस्तुतिः - 16

16a पार्ष्णिग्राहश्चाटविकः शत्रुमुख्यः शत्रुर्वा भूमिदानसाध्यः कश्चिद् आसाद्येत, निर्गुणया भूम्या एनं उपग्राहयेत्, अप्रतिसम्बद्धया दुर्गस्थं, निरुपजीव्ययाऽऽटविकं -
16b प्रत्यादेयया तत्कुलीनं शत्रोः, अपच्छिन्नया शत्रोरपरुद्धं नित्यामित्रया श्रेणीबलं, बलवत्सामन्तया संहतबलं, उभाभ्यां युद्धे प्रतिलोमं, -
16ch अलब्धव्यायामया उत्साहिनं, शूययाऽरिपक्षीयं, कर्शितयाऽपवाहितं, महाक्षयव्ययनिवेशया गतप्रत्यागतं, अनपाश्रयया प्रत्यपसृतं, परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत्

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17 तेषां महा उपकारं निर्विकारं चानुवर्तयेत्

मूलम् - 17

17 तेषां महा उपकारं निर्विकारं चानुवर्तयेत्

विश्वास-प्रस्तुतिः - 18

18 प्रतिलोमं उपांशुना साधयेत्

मूलम् - 18

18 प्रतिलोमं उपांशुना साधयेत्

विश्वास-प्रस्तुतिः - 19

19 उपकारिणं उपकारशक्त्या तोषयेत्

मूलम् - 19

19 उपकारिणं उपकारशक्त्या तोषयेत्

विश्वास-प्रस्तुतिः - 20

20 प्रयासतश्चार्थमानौ कुर्याद्, व्यसनेषु चानुग्रहम्

मूलम् - 20

20 प्रयासतश्चार्थमानौ कुर्याद्, व्यसनेषु चानुग्रहम्

विश्वास-प्रस्तुतिः - 21

21 स्वयं।आगतानां यथा इष्टदर्शनं प्रतिविधानं च कुर्यात्

मूलम् - 21

21 स्वयं।आगतानां यथा इष्टदर्शनं प्रतिविधानं च कुर्यात्

विश्वास-प्रस्तुतिः - 22

22 परिभव उपघातकुत्सातिवादांश्च एषु न प्रयुञ्जीत

मूलम् - 22

22 परिभव उपघातकुत्सातिवादांश्च एषु न प्रयुञ्जीत

विश्वास-प्रस्तुतिः - 23

23 दत्त्वा चाभयं पिता इवानुगृह्णीयात्

मूलम् - 23

23 दत्त्वा चाभयं पिता इवानुगृह्णीयात्

विश्वास-प्रस्तुतिः - 24

24 यश्चास्यापकुर्यात् तद् दोषं अभिविख्याप्य प्रकाशं एनं घातयेत्

मूलम् - 24

24 यश्चास्यापकुर्यात् तद् दोषं अभिविख्याप्य प्रकाशं एनं घातयेत्

विश्वास-प्रस्तुतिः - 25

25 पर उद्वेगकारणाद् वा दाण्डकर्मिकवच्चेष्टेत

मूलम् - 25

25 पर उद्वेगकारणाद् वा दाण्डकर्मिकवच्चेष्टेत

विश्वास-प्रस्तुतिः - 26

26 न च हतस्य भूमिद्रव्यपुत्रदारान् अभिमन्येत

मूलम् - 26

26 न च हतस्य भूमिद्रव्यपुत्रदारान् अभिमन्येत

विश्वास-प्रस्तुतिः - 27

27 कुल्यान् अप्यस्य स्वेषु पात्रेषु स्थापयेत्

मूलम् - 27

27 कुल्यान् अप्यस्य स्वेषु पात्रेषु स्थापयेत्

विश्वास-प्रस्तुतिः - 28

28 कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत्

मूलम् - 28

28 कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत्

विश्वास-प्रस्तुतिः - 29

29 एवं अस्य दण्ड उपनताः पुत्रपौत्रान् अनुवर्तन्ते

मूलम् - 29

29 एवं अस्य दण्ड उपनताः पुत्रपौत्रान् अनुवर्तन्ते

विश्वास-प्रस्तुतिः - 30

30 यः तु उपनतान् हत्वा बद्ध्वा वा भूमिद्रव्यपुत्रदारान् अभिमन्येत तस्य उद्विग्नं मण्डलं अभावाय उत्तिष्ठते

मूलम् - 30

विश्वास-प्रस्तुतिः - 31

31 ये चास्यामात्याः स्वभूमिष्वायत्ताः ते चास्य उद्विग्ना मण्डलं आश्रयन्ते

मूलम् - 31

31 ये चास्यामात्याः स्वभूमिष्वायत्ताः ते चास्य उद्विग्ना मण्डलं आश्रयन्ते

विश्वास-प्रस्तुतिः - 32

32 स्वयं वा राज्यं प्राणान् वाऽस्याभिमन्यन्ते

मूलम् - 32

32 स्वयं वा राज्यं प्राणान् वाऽस्याभिमन्यन्ते

विश्वास-प्रस्तुतिः - 33

33ab स्वभूमिषु च राजानः तस्मात् साम्नाऽनुपालिताः ।
33chd भवन्त्यनुगुणा राज्ञः पुत्रपौत्रानुवर्तिनः (इति)

मूलम् - 33