१५

विगृह्य उपरोधहेतवः - दण्ड उपनतवृत्तम्

विश्वास-प्रस्तुतिः - 01

01 दुर्बलो राजा बलवताऽभियुक्तः तद्विशिष्टबलं आश्रयेत यं इतरो मन्त्रशक्त्या नातिसन्दध्यात्

मूलम् - 01

01 दुर्बलो राजा बलवताऽभियुक्तः तद्विशिष्टबलं आश्रयेत यं इतरो मन्त्रशक्त्या नातिसन्दध्यात्

विश्वास-प्रस्तुतिः - 02

02 तुल्यमन्त्रशक्तीनां आयत्तसम्पदो वृद्धसम्योगाद् वा विशेषः

मूलम् - 02

02 तुल्यमन्त्रशक्तीनां आयत्तसम्पदो वृद्धसम्योगाद् वा विशेषः

विश्वास-प्रस्तुतिः - 03

03 विशिष्टबलाभावे समबलैः तुल्यबलसङ्घैर्वा बलवतः सम्भूय तिष्ठेद् यान्न मन्त्रप्रभावशक्तिभ्यां अतिसन्दध्यात्

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 तुल्यमन्त्रप्रभावशक्तीनां विपुलारम्भतो विशेषः

मूलम् - 04

04 तुल्यमन्त्रप्रभावशक्तीनां विपुलारम्भतो विशेषः

विश्वास-प्रस्तुतिः - 05

05 समबलाभावे हीनबलैः शुचिभिरुत्साहिभिः प्रत्यनीकभूतैर्बलवतः सम्भूय तिष्ठेद् यान्न मन्त्रप्रभाव उत्साहशक्तिभिरतिसन्दध्यात्

मूलम् - 05

विश्वास-प्रस्तुतिः - 06

06 तुल्य उत्साहशक्तीनां स्वयुद्धभूमिलाभाद् विशेषः

मूलम् - 06

06 तुल्य उत्साहशक्तीनां स्वयुद्धभूमिलाभाद् विशेषः

विश्वास-प्रस्तुतिः - 07

07 तुल्यभूमीनां स्वयुद्धकाललाभाद् विशेषः

मूलम् - 07

07 तुल्यभूमीनां स्वयुद्धकाललाभाद् विशेषः

विश्वास-प्रस्तुतिः - 08

08 तुल्यदेशकालानां युग्यशस्त्रावरणतो विशेषः

मूलम् - 08

08 तुल्यदेशकालानां युग्यशस्त्रावरणतो विशेषः

विश्वास-प्रस्तुतिः - 09

09 सहायाभावे दुर्गं आश्रयेत यत्रामित्रः प्रभूतसैन्योऽपि भक्तयवस इन्धन उदक उपरोधं न कुर्यात् स्वयं च क्षयव्ययाभ्यां युज्येत

मूलम् - 09

विश्वास-प्रस्तुतिः - 10

10 तुल्यदुर्गाणां निचयापसारतो विशेषः

मूलम् - 10

10 तुल्यदुर्गाणां निचयापसारतो विशेषः

विश्वास-प्रस्तुतिः - 11

11 निचयापसारसम्पन्नं हि मनुष्यदुर्गं इच्छेद् इति कौटिल्यः

मूलम् - 11

11 निचयापसारसम्पन्नं हि मनुष्यदुर्गं इच्छेद् इति कौटिल्यः

विश्वास-प्रस्तुतिः - 12

12a तद् एभिः कार्णैराश्रयेत - पार्ष्णिग्राहं आसारं मध्यमं उदासीनं वा प्रतिपादयिष्यामि, सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतमेनास्य राज्यं हारयिष्यामि घातयिष्यामि वा -
12b कृत्यपक्ष उपग्रहेण वाऽस्य दुर्गे राष्ट्रे स्कन्धावारे वा कोपं समुत्थापयिष्यामि, शस्त्राग्निरसप्रणिधानैरौपनिषदिकैर्वा यथा इष्टं आसन्नं हनिष्यामि -
12ch स्वयंऽधिष्ठितेन वा योगप्रणिधानेन क्षयव्ययं एनं उपनेष्यामि, क्षयव्ययप्रवास उपतप्ते वाऽस्य मित्रवर्गे सैन्ये वा क्रमेण उपजापं प्राप्स्यामि -
12d वीवधासारप्रसारवधेन वाऽस्य स्कन्धावारावग्रहं करिष्यामि, दण्ड उपनयेन वाऽस्य रन्ध्रं उत्थाप्य सर्वसन्दोहेन प्रहरिष्यामि, प्रतिहत उत्साहेन वा यथा इष्टं सन्धिं अवाप्स्यामि, मयि प्रतिबद्धस्य वा सर्वतः कोपाः समुत्थास्यन्ति -
12e निरासारं वाऽस्य मूलं मित्राटवीदण्डैरुद्धातयिष्यामि, महतो वा देशस्य योगक्षेमं इहस्थः पालयिष्यामि, स्वविक्षिप्तं मित्रविक्षिप्तं वा मे सैन्यं इहस्थस्य एकस्थं अविषह्यं भविष्यति, निम्नखातरात्रियुद्धविशारदं वा मे सैन्यं पथ्याबाधमुक्तं आसन्ने कर्म करिष्यति -
12f विरुद्धदेशकालं इहागतो वा स्वयं एव क्षयव्ययाभ्यां न भविष्यति, महाक्षयव्ययाभिगम्योऽयं देशो दुर्गाटव्य्ऽपसारबाहुल्यात् -
12g परेषां व्याधिप्रायः सैन्यव्यायामानां अलब्धभौमश्च, तं आपद्गतः प्रवेक्ष्यति, प्रविष्टो वा न निर्गमिष्यति इति

मूलम् - 12

विश्वास-प्रस्तुतिः - 13

13 कारणाभावे बलसमुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत्

मूलम् - 13

13 कारणाभावे बलसमुच्छ्रये वा परस्य दुर्गं उन्मुच्यापगच्छेत्

विश्वास-प्रस्तुतिः - 14

14 अग्निपतङ्गवद् अमित्रे वा प्रविशेत्

मूलम् - 14

14 अग्निपतङ्गवद् अमित्रे वा प्रविशेत्

विश्वास-प्रस्तुतिः - 15

15 अन्यतरसिद्धिर्हि त्यक्तात्मनो भवति इत्याचार्याः

मूलम् - 15

15 अन्यतरसिद्धिर्हि त्यक्तात्मनो भवति इत्याचार्याः

विश्वास-प्रस्तुतिः - 16

16 न इति कौटिल्यः

मूलम् - 16

16 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 17

17 सन्धेयतां आत्मनः परस्य च उपलभ्य सन्दधीत

मूलम् - 17

17 सन्धेयतां आत्मनः परस्य च उपलभ्य सन्दधीत

विश्वास-प्रस्तुतिः - 18

18 विपर्यये विक्रमेण सन्धिं अपसारं वा लिप्सेत

मूलम् - 18

18 विपर्यये विक्रमेण सन्धिं अपसारं वा लिप्सेत

विश्वास-प्रस्तुतिः - 19

19 सन्धेयस्य वा दूतं प्रेषयेत्

मूलम् - 19

19 सन्धेयस्य वा दूतं प्रेषयेत्

विश्वास-प्रस्तुतिः - 20

20 तेन वा प्रेषितं अर्थमानाभ्यां सत्कृत्य ब्रूयात् इदं राज्ञः पण्यागारं, इदं देवीकुमाराणां, देवीकुमारवचनात्, इदं राज्यं अहं च त्वद्ऽर्पणः इति

मूलम् - 20

विश्वास-प्रस्तुतिः - 21

21 लब्धसंश्रयः समयाचारिकवद् भर्तरि वर्तेत

मूलम् - 21

21 लब्धसंश्रयः समयाचारिकवद् भर्तरि वर्तेत

विश्वास-प्रस्तुतिः - 22

22 दुर्गादीनि च कर्माणि आवाहविवाहपुत्राभिषेकाश्वपण्यहस्तिग्रहणसत्त्रयात्राविहारगमनानि चानुज्ञातः कुर्वीत

मूलम् - 22

विश्वास-प्रस्तुतिः - 23

23 स्वभूम्य्ऽवस्थितप्रकृतिसन्धिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत

मूलम् - 23

23 स्वभूम्य्ऽवस्थितप्रकृतिसन्धिं उपघातं अपसृतेषु वा सर्वं अनुज्ञातः कुर्वीत

विश्वास-प्रस्तुतिः - 24

24 दुष्टपौरजानपदो वा न्यायवृत्तिरन्यां भूमिं याचेत

मूलम् - 24

24 दुष्टपौरजानपदो वा न्यायवृत्तिरन्यां भूमिं याचेत

विश्वास-प्रस्तुतिः - 25

25 दुष्यवद् उपांशुदण्डेन वा प्रतिकुर्वीत

मूलम् - 25

25 दुष्यवद् उपांशुदण्डेन वा प्रतिकुर्वीत

विश्वास-प्रस्तुतिः - 26

26 उचितां वा मित्राद् भूमिं दीयमानां न प्रतिगृह्णीयात्

मूलम् - 26

26 उचितां वा मित्राद् भूमिं दीयमानां न प्रतिगृह्णीयात्

विश्वास-प्रस्तुतिः - 27

27 मन्त्रिपुरोहितसेनापतियुवराजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत्, यथाशक्ति च उपकुर्यात्

मूलम् - 27

27 मन्त्रिपुरोहितसेनापतियुवराजानां अन्यतमं अदृश्यमाने भर्तरि पश्येत्, यथाशक्ति च उपकुर्यात्

विश्वास-प्रस्तुतिः - 28

28 दैवतस्वस्तिवाचनेषु तत्परा आशिषो वाचयेत्

मूलम् - 28

28 दैवतस्वस्तिवाचनेषु तत्परा आशिषो वाचयेत्

विश्वास-प्रस्तुतिः - 29

29 सर्वत्रात्मनिसर्गं गुणं ब्रूयात्

मूलम् - 29

29 सर्वत्रात्मनिसर्गं गुणं ब्रूयात्

विश्वास-प्रस्तुतिः - 30

30ab सम्युक्तबलवत्सेवी विरुद्धः शङ्कितादिभिः ।
30chd वर्तेत दण्ड उपनतो भर्तर्येवं अवस्थितः (इति)

मूलम् - 30