हीनशक्तिपूरणम्
विश्वास-प्रस्तुतिः - 01
01 सामवायिकैरेवं अभियुक्तो विजिगीषुर्यः तेषां प्रधानः तं ब्रूयात् त्वया मे सन्धिः, इदं हिरण्यं, अहं च मित्रं, द्विगुणा ते वृद्धिः, नार्हस्यात्मक्षयेण मित्रमुखान् अमित्रान् वर्धयितुं, एते हि वृद्धाः त्वां एव परिभविष्यन्ति इति
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 भेदं वा ब्रूयात् अनपकारो यथाऽहं एतैः सम्भूयाभियुक्तः तथा त्वां अप्येते संहितबलाः स्वस्था व्यसने वाऽभियोक्ष्यन्ते, बलं हि चित्तं विकरोति, तद् एषां विघातय इति
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 भिन्नेषु प्रधानं उपगृह्य हीनेषु विक्रमयेत्, हीनान् अनुग्राह्य वा प्रधाने, यथा वा श्रेयोऽभिमन्येत तथा
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 वैरं वा परैर्ग्राहयित्वा विसंवादयेत्
मूलम् - 04
04 वैरं वा परैर्ग्राहयित्वा विसंवादयेत्
विश्वास-प्रस्तुतिः - 05
05 फलभूयस्त्वेन वा प्रधानं उपजाप्य सन्धिं कारयेत्
मूलम् - 05
05 फलभूयस्त्वेन वा प्रधानं उपजाप्य सन्धिं कारयेत्
विश्वास-प्रस्तुतिः - 06
06 अथ उभयवेतनाः फलभूयस्त्वं दर्शयन्तः सामवायिकान् अतिसंहिताः स्थ इत्युद्द्दूषयेयुः
मूलम् - 06
06 अथ उभयवेतनाः फलभूयस्त्वं दर्शयन्तः सामवायिकान् अतिसंहिताः स्थ इत्युद्द्दूषयेयुः
विश्वास-प्रस्तुतिः - 07
07 दुष्टेषु सन्धिं दूषयेत्
मूलम् - 07
07 दुष्टेषु सन्धिं दूषयेत्
विश्वास-प्रस्तुतिः - 08
08 अथ उभयवेतना भूयो भेदं एषां कुर्युः एवं तद् यद् अस्माभिर्दर्शितम् इति
मूलम् - 08
08 अथ उभयवेतना भूयो भेदं एषां कुर्युः एवं तद् यद् अस्माभिर्दर्शितम् इति
विश्वास-प्रस्तुतिः - 09
09 भिन्नेष्वन्यतम उपग्रहेण चेष्टेत
मूलम् - 09
09 भिन्नेष्वन्यतम उपग्रहेण चेष्टेत
विश्वास-प्रस्तुतिः - 10
10 प्रधानाभावे सामवायिकानां उत्साहयितारं स्थिरकर्माणं अनुरक्तप्रकृक्तिं लोभाद् भयाद् वा सङ्घातं उपागतं विजिगीषोर्भीतं राज्यप्रतिसम्बद्धं मित्रं चलामित्रं वा पूर्वान् उत्तराभावे साधयेत् - उत्साहयितारं आत्मनिसर्गेण, स्थिरकर्माणं सान्त्वप्रणिपातेन, अनुरक्तप्रकृतिं कन्यादानयापनाभ्यां, लुब्धं अंशद्वैगुण्येन, भीतं एभ्यः कोशदण्डानुग्रहेण, स्वतो भीतं विश्वास्य प्रतिभूप्रदानेन, राज्यप्रतिसम्बद्धं एकीभाव उपगमनेन, मित्रं उभयतः प्रियहिताभ्यां, उपकारत्यागेन वा, चलामित्रं अवधृतं अनपकार उपकाराभ्याम्
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 यो वा यथाऽयोगं भजेत तं तथा साधयेत्, सामदानभेददण्डैर्वा यथाऽऽपत्सु व्याख्यास्यामः
मूलम् - 11
11 यो वा यथाऽयोगं भजेत तं तथा साधयेत्, सामदानभेददण्डैर्वा यथाऽऽपत्सु व्याख्यास्यामः
विश्वास-प्रस्तुतिः - 12
12 व्यसन उपघातत्वरितो वा कोशदण्डाभ्यां देशे काले कार्ये वाऽवधृतं सन्धिं उपेयात्
मूलम् - 12
12 व्यसन उपघातत्वरितो वा कोशदण्डाभ्यां देशे काले कार्ये वाऽवधृतं सन्धिं उपेयात्
विश्वास-प्रस्तुतिः - 13
13 कृतसन्धिर्हीनं आत्मानं प्रतिकुर्वीत
मूलम् - 13
13 कृतसन्धिर्हीनं आत्मानं प्रतिकुर्वीत
विश्वास-प्रस्तुतिः - 14
14 पक्षे हीनो बन्धुमित्रपक्षं कुर्वीत, दुर्गं अविषह्यं वा
मूलम् - 14
14 पक्षे हीनो बन्धुमित्रपक्षं कुर्वीत, दुर्गं अविषह्यं वा
विश्वास-प्रस्तुतिः - 15
15 दुर्गमित्रप्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति
मूलम् - 15
15 दुर्गमित्रप्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति
विश्वास-प्रस्तुतिः - 16
16 मन्त्रशक्तिहीनः प्राज्ञपुरुष उपचयं विद्यावृद्धसम्योगं वा कुर्वीत
मूलम् - 16
16 मन्त्रशक्तिहीनः प्राज्ञपुरुष उपचयं विद्यावृद्धसम्योगं वा कुर्वीत
विश्वास-प्रस्तुतिः - 17
17 तथा हि सद्यः श्रेयः प्राप्नोति
मूलम् - 17
17 तथा हि सद्यः श्रेयः प्राप्नोति
विश्वास-प्रस्तुतिः - 18
18 प्रभावहीनः प्रकृतियोगक्षेमसिद्धौ यतेत
मूलम् - 18
18 प्रभावहीनः प्रकृतियोगक्षेमसिद्धौ यतेत
विश्वास-प्रस्तुतिः - 19
19 जनपदः सर्वकर्मणां योनिः, ततः प्रभावः
मूलम् - 19
19 जनपदः सर्वकर्मणां योनिः, ततः प्रभावः
विश्वास-प्रस्तुतिः - 20
20 तस्य स्थानं आत्मनश्चापदि दुर्गम्
मूलम् - 20
20 तस्य स्थानं आत्मनश्चापदि दुर्गम्
विश्वास-प्रस्तुतिः - 21
21 सेतुबन्धः सस्यानां योनिः
मूलम् - 21
21 सेतुबन्धः सस्यानां योनिः
विश्वास-प्रस्तुतिः - 22
22 नित्यानुषक्तो हि वर्षगुणलाभः सेतुवापेषु
मूलम् - 22
22 नित्यानुषक्तो हि वर्षगुणलाभः सेतुवापेषु
विश्वास-प्रस्तुतिः - 23
23 वणिक्पथः परातिसन्धानस्य योनिः
मूलम् - 23
23 वणिक्पथः परातिसन्धानस्य योनिः
विश्वास-प्रस्तुतिः - 24
24 वणिक्पथेन हि दण्डगूढपुरुषातिनयनं शस्त्रावरणयानवाहनक्रयश्च क्रियते, प्रवेशो निर्णयनं च
मूलम् - 24
24 वणिक्पथेन हि दण्डगूढपुरुषातिनयनं शस्त्रावरणयानवाहनक्रयश्च क्रियते, प्रवेशो निर्णयनं च
विश्वास-प्रस्तुतिः - 25
25 खनिः सङ्ग्राम उपकरणानां योनिः, द्रव्यवनं दुर्गकर्मणां यानरथयोश्च, हस्तिवनं हस्तिनां, गवाश्वखर उष्ट्राणां च व्रजः
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 तेषां अलाभे बन्धुमित्रकुलेभ्यः समार्जनम्
मूलम् - 26
26 तेषां अलाभे बन्धुमित्रकुलेभ्यः समार्जनम्
विश्वास-प्रस्तुतिः - 27
27 उत्साहहीनः श्रेणीप्रवीरपुरुषाणां चोरगणाटविकम्लेच्छजातीनां परापकारिणां गूढपुरुषाणां च यथालाब्भं उपचयं कुर्वीत
मूलम् - 27

विश्वास-प्रस्तुतिः - 28
28 परमिश्राप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत
मूलम् - 28
28 परमिश्राप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत
विश्वास-प्रस्तुतिः - 29
29ab एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च ।
29chd सम्पन्नः प्रतिनिर्गच्छेत् परावग्रहं आत्मनः (इति)
मूलम् - 29