१३

पार्ष्णिग्राह्चिन्ता

विश्वास-प्रस्तुतिः - 01

01 संहत्यारिविजिगीष्वोरमित्रयोः पराभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्तिसम्पन्नस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 शक्तिसम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णिग्राहं उच्छिन्द्यात्, न हीनशक्तिरलब्धलाभः

मूलम् - 02

02 शक्तिसम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णिग्राहं उच्छिन्द्यात्, न हीनशक्तिरलब्धलाभः

विश्वास-प्रस्तुतिः - 03

03 शक्तिसाम्ये यो विपुलारम्भस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

मूलम् - 03

03 शक्तिसाम्ये यो विपुलारम्भस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 04

04 विपुलारम्भो ह्यमित्रं उच्छिद्य पार्ष्णिग्राहं उच्छिन्द्यात्, नाल्पारम्भः सक्तचक्रः

मूलम् - 04

04 विपुलारम्भो ह्यमित्रं उच्छिद्य पार्ष्णिग्राहं उच्छिन्द्यात्, नाल्पारम्भः सक्तचक्रः

विश्वास-प्रस्तुतिः - 05

05 आरम्भसाम्ये यः सर्वसन्दोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

मूलम् - 05

05 आरम्भसाम्ये यः सर्वसन्दोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 06

06 शून्यमूलो ह्यस्य सुकरो भवति, नैकदेशबलप्रयातः कृतपार्ष्णिप्रतिविधानः

मूलम् - 06

06 शून्यमूलो ह्यस्य सुकरो भवति, नैकदेशबलप्रयातः कृतपार्ष्णिप्रतिविधानः

विश्वास-प्रस्तुतिः - 07

07 बल उपादानसाम्ये यश्चलामित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

मूलम् - 07

07 बल उपादानसाम्ये यश्चलामित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 08

08 चलामित्रं प्रयातो हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहं उच्छिन्द्यात्, न स्थितामित्रं प्रयातः

मूलम् - 08

08 चलामित्रं प्रयातो हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहं उच्छिन्द्यात्, न स्थितामित्रं प्रयातः

विश्वास-प्रस्तुतिः - 09

09 असौ हि दुर्गप्रतिहतः पार्ष्णिग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते

मूलम् - 09

09 असौ हि दुर्गप्रतिहतः पार्ष्णिग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते

विश्वास-प्रस्तुतिः - 10

10 तेन पूर्वे व्याख्याताः

मूलम् - 10

10 तेन पूर्वे व्याख्याताः

विश्वास-प्रस्तुतिः - 11

11 शत्रुसाम्ये यो धार्मिकाभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

मूलम् - 11

11 शत्रुसाम्ये यो धार्मिकाभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 12

12 धार्मिकाभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिकाभियोगी सम्प्रियः

मूलम् - 12

12 धार्मिकाभियोगी हि स्वेषां परेषां च द्वेष्यो भवति, अधार्मिकाभियोगी सम्प्रियः

विश्वास-प्रस्तुतिः - 13

13 तेन मूलहरतादात्विककदर्याभियोगिनां पार्ष्णिग्रहणं व्याख्यातम्

मूलम् - 13

13 तेन मूलहरतादात्विककदर्याभियोगिनां पार्ष्णिग्रहणं व्याख्यातम्

विश्वास-प्रस्तुतिः - 14

14 मित्राभियोगिनोः पार्ष्णिग्रहणे त एव हेतवः

मूलम् - 14

14 मित्राभियोगिनोः पार्ष्णिग्रहणे त एव हेतवः

विश्वास-प्रस्तुतिः - 15

15 मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्राभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

मूलम् - 15

15 मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्राभियोगिनः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 16

16 मित्राभियोगी हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहं उच्छिन्द्यात्

मूलम् - 16

16 मित्राभियोगी हि सुखेनावाप्तसिद्धिः पार्ष्णिग्राहं उच्छिन्द्यात्

विश्वास-प्रस्तुतिः - 17

17 सुकरो हि मित्रेण सन्धिर्नामित्रेण

मूलम् - 17

17 सुकरो हि मित्रेण सन्धिर्नामित्रेण

विश्वास-प्रस्तुतिः - 18

18 मित्रं अमित्रं च उद्धरतोर्योऽमित्र उद्धारिणः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

मूलम् - 18

18 मित्रं अमित्रं च उद्धरतोर्योऽमित्र उद्धारिणः पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 19

19 वृद्धमित्रो ह्यमित्र उद्धारी पार्ष्णिग्राहं उच्छिन्द्यात्, न इतरः स्वपक्ष उपघाती

मूलम् - 19

19 वृद्धमित्रो ह्यमित्र उद्धारी पार्ष्णिग्राहं उच्छिन्द्यात्, न इतरः स्वपक्ष उपघाती

विश्वास-प्रस्तुतिः - 20

20 तयोरलब्धलाभापगमने यस्यामित्रो महतो लाभाद् वियुक्तः क्षयव्ययाधिको वा स पार्ष्णिग्राहोऽतिसन्धत्ते

मूलम् - 20

20 तयोरलब्धलाभापगमने यस्यामित्रो महतो लाभाद् वियुक्तः क्षयव्ययाधिको वा स पार्ष्णिग्राहोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 21

21 लब्धलाभापगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णिग्राहोऽतिसन्धत्ते, यस्य वा यातव्यः शत्रोर्विग्रहापकारसमर्थः स्यात्

मूलम् - 21

विश्वास-प्रस्तुतिः - 22

22 पार्ष्णिग्राहयोरपि यः शक्यारम्भबल उपादानाधिकः स्थितशत्रुः पार्श्वस्थायी वा सोऽतिसन्धत्ते

मूलम् - 22

22 पार्ष्णिग्राहयोरपि यः शक्यारम्भबल उपादानाधिकः स्थितशत्रुः पार्श्वस्थायी वा सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 23

23 पार्श्वस्थायी हि यातव्याभिसारो मूलाबाधकश्च भवति, मूलाबाधक एव पश्चात्स्थायी

मूलम् - 23

23 पार्श्वस्थायी हि यातव्याभिसारो मूलाबाधकश्च भवति, मूलाबाधक एव पश्चात्स्थायी

विश्वास-प्रस्तुतिः - 24

24ab पार्ष्णिग्राहाः त्रयो ज्ञेयाः शत्रोश्चेष्टानिरोधकाः ।
24chd सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः

मूलम् - 24

विश्वास-प्रस्तुतिः - 25

25ab अरेर्नेतुश्च मध्यस्थो दुर्बलोऽन्तर्धिरुच्यते ।
25chd प्रतिघातो बलवतो दुर्गाटव्य्ऽपसारवान्

मूलम् - 25

25ab अरेर्नेतुश्च मध्यस्थो दुर्बलोऽन्तर्धिरुच्यते ।
25chd प्रतिघातो बलवतो दुर्गाटव्य्ऽपसारवान्

विश्वास-प्रस्तुतिः - 26

26 मध्यमं त्वरिविजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्धलाभापगमने यो मध्यमं मित्राद् वियोजयत्यमित्रं च मित्रं आप्नोति सोऽतिसन्धत्ते

मूलम् - 26

विश्वास-प्रस्तुतिः - 27

27 सन्धेयश्च शत्रुरुपकुर्वाणो, न मित्रं मित्रभावाद् उत्क्रान्तम्

मूलम् - 27

27 सन्धेयश्च शत्रुरुपकुर्वाणो, न मित्रं मित्रभावाद् उत्क्रान्तम्

विश्वास-प्रस्तुतिः - 28

28 तेन उदासीनलिप्सा व्याख्याता

मूलम् - 28

28 तेन उदासीनलिप्सा व्याख्याता

विश्वास-प्रस्तुतिः - 29

29 पार्ष्णिग्रहणाभियानयोः तु मन्त्रयुद्धाद् अभ्युच्चयः

मूलम् - 29

29 पार्ष्णिग्रहणाभियानयोः तु मन्त्रयुद्धाद् अभ्युच्चयः

विश्वास-प्रस्तुतिः - 30

30 व्यायामयुद्धे हि क्षयव्ययाभ्यां उभयोरवृद्धिः

मूलम् - 30

30 व्यायामयुद्धे हि क्षयव्ययाभ्यां उभयोरवृद्धिः

विश्वास-प्रस्तुतिः - 31

31 जित्वाऽपि हि क्षिणदण्डकोशः पराजितो भवति इत्याचार्याः

मूलम् - 31

31 जित्वाऽपि हि क्षिणदण्डकोशः पराजितो भवति इत्याचार्याः

विश्वास-प्रस्तुतिः - 32

32 न इति कौटिल्यः

मूलम् - 32

32 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 33

33 सुमहताऽपि क्षयव्ययेन शत्रुविनाशोऽभ्युपगन्तव्यः

मूलम् - 33

33 सुमहताऽपि क्षयव्ययेन शत्रुविनाशोऽभ्युपगन्तव्यः

विश्वास-प्रस्तुतिः - 34

34 तुल्ये क्षयव्यये यः पुरस्ताद् दूष्यबलं घातयित्वा निह्शल्यः पश्चाद् वश्यबलो युध्येत सोऽतिसन्धत्ते

मूलम् - 34

34 तुल्ये क्षयव्यये यः पुरस्ताद् दूष्यबलं घातयित्वा निह्शल्यः पश्चाद् वश्यबलो युध्येत सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 35

35 द्वयोरपि पुरस्ताद् दूष्यबलघातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्तदूष्यं च घातयेत् सोऽतिसन्धत्ते

मूलम् - 35

35 द्वयोरपि पुरस्ताद् दूष्यबलघातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्तदूष्यं च घातयेत् सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 36

36 तेनामित्राटवीबलघातो व्याख्यातः

मूलम् - 36

36 तेनामित्राटवीबलघातो व्याख्यातः

विश्वास-प्रस्तुतिः - 37

37ab पार्ष्णिग्राहोऽभियोक्ता वा यातव्यो वा यदा भवेत् ।
37chd विजिगीषुः तदा तत्र नेत्रं एतत् समाचरेत्

मूलम् - 37

37ab पार्ष्णिग्राहोऽभियोक्ता वा यातव्यो वा यदा भवेत् ।
37chd विजिगीषुः तदा तत्र नेत्रं एतत् समाचरेत्

विश्वास-प्रस्तुतिः - 38

38ab पार्ष्णिग्राहो भवेन्नेता शत्रोर्मित्राभियोगिनः ।
38chd विग्राह्य पूर्वं आक्रन्दं पार्ष्णिग्राहाभिसारिणा

मूलम् - 38

विश्वास-प्रस्तुतिः - 39

39ab आक्रन्देनाभियुञ्जानः पार्ष्णिग्राहं निवारयेत् ।
39chd तथाऽऽक्रन्दाभिसारेण पार्ष्णिग्राहाभिसारिणम्

मूलम् - 39

विश्वास-प्रस्तुतिः - 40

40ab अरिमित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् ।
40chd मित्रमित्रं अरेश्चापि मित्रमित्रेण वारयेत्

मूलम् - 40

40ab अरिमित्रेण मित्रं च पुरस्ताद् अवघट्टयेत् ।
40chd मित्रमित्रं अरेश्चापि मित्रमित्रेण वारयेत्

विश्वास-प्रस्तुतिः - 41

41ab मित्रेण ग्राहयेत् पार्ष्णिं अभियुक्तोऽभियोगिनः ।
41chd मित्रमित्रेण चाक्रन्दं पार्ष्णिग्राहान्निवारयेत्

मूलम् - 41

विश्वास-प्रस्तुतिः - 42

42ab एवं मण्डलं आत्मार्थं विजिगीषुर्निवेशयेत् ।
42chd पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा

मूलम् - 42

42ab एवं मण्डलं आत्मार्थं विजिगीषुर्निवेशयेत् ।
42chd पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा

विश्वास-प्रस्तुतिः - 43

43ab कृत्स्ने च मण्डले नित्यं दूतान् गूढांश्च वासयेत् ।
43chd मित्रभूतः सपत्नानां हत्वा हत्वा च संवृतः

मूलम् - 43

विश्वास-प्रस्तुतिः - 44

44ab असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः ।
44chd निह्संशयं विपद्यन्ते भिन्नप्लव इव उदधौ (इति)

मूलम् - 44