मित्रहिरण्यभूमिकर्मसन्धयः, तत्र कर्मसन्धिः
विश्वास-प्रस्तुतिः - 01
01 त्वं चाहं च दुर्गं कारयावहे इति कर्मसन्धिः
मूलम् - 01
01 त्वं चाहं च दुर्गं कारयावहे इति कर्मसन्धिः
विश्वास-प्रस्तुतिः - 02
02 तयोर्यो दैवकृतं अविषह्यं अल्पव्ययारम्भं दुर्गं कारयति सोऽतिसन्धत्ते
मूलम् - 02
02 तयोर्यो दैवकृतं अविषह्यं अल्पव्ययारम्भं दुर्गं कारयति सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 03
03 तत्रापि स्थलनदीपर्वतदुर्गाणां उत्तर उत्तरं श्रेयः
मूलम् - 03
03 तत्रापि स्थलनदीपर्वतदुर्गाणां उत्तर उत्तरं श्रेयः
विश्वास-प्रस्तुतिः - 04
04 सेतुबन्धयोरप्याहार्य उदकात् सह उदकः श्रेयान्
मूलम् - 04
04 सेतुबन्धयोरप्याहार्य उदकात् सह उदकः श्रेयान्
विश्वास-प्रस्तुतिः - 05
05 सह उदकयोरपि प्रभूतवापस्थानः श्रेयान्
मूलम् - 05
05 सह उदकयोरपि प्रभूतवापस्थानः श्रेयान्
विश्वास-प्रस्तुतिः - 06
06 द्रव्यवनयोरपि यो महत्सारवद्द्रव्याटवीकं विषयान्ते नदीमातृकं द्रव्यवनं छेदयति सोऽतिसन्धत्ते
मूलम् - 06
06 द्रव्यवनयोरपि यो महत्सारवद्द्रव्याटवीकं विषयान्ते नदीमातृकं द्रव्यवनं छेदयति सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 07
07 नदीमातृकं हि स्व्।आजीवं अपाश्रयश्चापदि भवति
मूलम् - 07
07 नदीमातृकं हि स्व्।आजीवं अपाश्रयश्चापदि भवति
विश्वास-प्रस्तुतिः - 08
08 हस्तिवनयोरपि यो बहुशूरमृगं दुर्बलप्रतिवेशंऽनन्तावक्लेशि विषयान्ते हस्तिवनं बध्नाति सोऽतिसन्धत्ते
मूलम् - 08
08 हस्तिवनयोरपि यो बहुशूरमृगं दुर्बलप्रतिवेशंऽनन्तावक्लेशि विषयान्ते हस्तिवनं बध्नाति सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 09
09 तत्रापि बहुकुण्ठाल्पशूरयोः अल्पशूरं श्रेयः, शूरेषु हि युद्धं, अल्पाः शूरा बहून् अशूरान् भञ्जन्ति, ते भग्नाः स्वसैन्यावघातिनो भवन्ति इत्याचार्याः
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 न इति कौटिल्यः
मूलम् - 10
10 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 11
11 कुण्ठा बहवः श्रेयांसः, स्कन्धविनियोगाद् अनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे, परेषां दुर्धर्षा विभीषणाश्च
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 बहुषु हि कुण्ठेषु विनयकर्मणा शक्यं शौर्यं आधातुं, न त्वेवाल्पेषु शूरेषु बहुत्वं इति
मूलम् - 12
12 बहुषु हि कुण्ठेषु विनयकर्मणा शक्यं शौर्यं आधातुं, न त्वेवाल्पेषु शूरेषु बहुत्वं इति
विश्वास-प्रस्तुतिः - 13
13 खन्योरपि यः प्रभूतसारां अदुर्गमार्गां अल्पव्ययारम्भां खनिं खानयति, सोऽतिसन्धत्ते
मूलम् - 13
13 खन्योरपि यः प्रभूतसारां अदुर्गमार्गां अल्पव्ययारम्भां खनिं खानयति, सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 14
14 तत्रापि महासारं अल्पं अल्पसारं वा प्रभूतं इति महासारं अल्पं श्रेयः, वज्रमणिमुक्ताप्रवालहेमरूप्यधातुर्हि प्रभूतं अल्पसारं अत्यर्घेण ग्रसते इत्याचार्याः
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 न इति कौटिल्यः
मूलम् - 15
15 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 16
16 चिराद् अल्पो महासारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्पसारस्य
मूलम् - 16
16 चिराद् अल्पो महासारस्य क्रेता विद्यते, प्रभूतः सातत्याद् अल्पसारस्य
विश्वास-प्रस्तुतिः - 17
17 एतेन वणिक्पथो व्याख्यातः
मूलम् - 17
17 एतेन वणिक्पथो व्याख्यातः
विश्वास-प्रस्तुतिः - 18
18 तत्रापि वारिस्थलपथयोर्वारिपथः श्रेयान्, अल्पव्ययव्यायामः प्रभूतपण्य उदयश्च इत्याचार्याः
मूलम् - 18
18 तत्रापि वारिस्थलपथयोर्वारिपथः श्रेयान्, अल्पव्ययव्यायामः प्रभूतपण्य उदयश्च इत्याचार्याः
विश्वास-प्रस्तुतिः - 19
19 न इति कौटिल्यः
मूलम् - 19
19 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 20
20 सम्रुद्धगतिरसार्वकालिकः प्रकृष्टभययोनिर्निष्प्रतीकारश्च वारिपथः, विपरीतः स्थलपथः
मूलम् - 20
20 सम्रुद्धगतिरसार्वकालिकः प्रकृष्टभययोनिर्निष्प्रतीकारश्च वारिपथः, विपरीतः स्थलपथः
विश्वास-प्रस्तुतिः - 21
21 वारिपथे तु कूलसम्यानपथयोः कूलपथः पण्यपत्तनबाहुल्यात्श्रेयान्, नदीपथो वा, सातत्याद् विषह्याबाधत्वाच्च
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 स्थलपथेऽपि हैमवतो दक्षिणापथात्श्रेयान्, हस्त्य्ऽश्वगन्धदन्ताजिनरूप्यसुवर्णपण्याः सारवत्तराः इत्याचार्याः
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 न इति कौटिल्यः
मूलम् - 23
23 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 24
24 कम्बलाजिनाश्वपण्यवर्जाः शङ्खवज्रमणिमुक्तासुवर्णपण्याश्च प्रभूततरा दक्षिणापथे
मूलम् - 24
24 कम्बलाजिनाश्वपण्यवर्जाः शङ्खवज्रमणिमुक्तासुवर्णपण्याश्च प्रभूततरा दक्षिणापथे
विश्वास-प्रस्तुतिः - 25
25 दक्षिणापथेऽपि बहुखनिः सारपण्यः प्रसिद्धगतिरल्पव्ययव्यायामो वा वणिक्पथः श्रेयान्, प्रभूतविषयो वा फल्गुपुण्यः
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः
मूलम् - 26
26 तेन पूर्वः पश्चिमश्च वणिक्पथो व्याख्यातः
विश्वास-प्रस्तुतिः - 27
27 तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वात्श्रेयान्, देशकालसम्भावनो वा खर उष्ट्रपथः
मूलम् - 27
27 तत्रापि चक्रपादपथयोश्चक्रपथो विपुलारम्भत्वात्श्रेयान्, देशकालसम्भावनो वा खर उष्ट्रपथः
विश्वास-प्रस्तुतिः - 28
28 आभ्यां अंसपथो व्याख्यातः
मूलम् - 28
28 आभ्यां अंसपथो व्याख्यातः
विश्वास-प्रस्तुतिः - 29
29 परकर्म उदयो नेतुः क्षयो वृद्धिर्विपर्यये
मूलम् - 29
29 परकर्म उदयो नेतुः क्षयो वृद्धिर्विपर्यये
विश्वास-प्रस्तुतिः - 30
30 तुल्ये कर्मपथे स्थानं ज्ञेयं स्वं विजिगीषुणा
मूलम् - 30
30 तुल्ये कर्मपथे स्थानं ज्ञेयं स्वं विजिगीषुणा
विश्वास-प्रस्तुतिः - 31
31 अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये
मूलम् - 31
31 अल्पागमातिव्ययता क्षयो वृद्धिर्विपर्यये
विश्वास-प्रस्तुतिः - 32
32 समायव्ययता स्थानं कर्मसु ज्ञेयं आत्मनः
मूलम् - 32
32 समायव्ययता स्थानं कर्मसु ज्ञेयं आत्मनः
विश्वास-प्रस्तुतिः - 33
33 तस्माद् अल्पव्ययारम्भं दुर्गादिषु महा उदयम्
मूलम् - 33
33 तस्माद् अल्पव्ययारम्भं दुर्गादिषु महा उदयम्
विश्वास-प्रस्तुतिः - 34
34 कर्म लब्ध्वा विशिष्टः स्याद् इत्युक्ताः कर्मसन्धयः (इति)
मूलम् - 34