११

मित्रहिरण्यभूमिकर्मसन्धयः - तत्र अनवसितसन्धिः

विश्वास-प्रस्तुतिः - 01

01 त्वं चाहं च शून्यं निवेशयावहे इत्यनवसितसन्धिः

मूलम् - 01

01 त्वं चाहं च शून्यं निवेशयावहे इत्यनवसितसन्धिः

विश्वास-प्रस्तुतिः - 02

02 तयोर्यः प्रत्युपस्थितार्थो यथा उक्तगुणां भूमिं निवेशयति सोऽतिसन्धत्ते

मूलम् - 02

02 तयोर्यः प्रत्युपस्थितार्थो यथा उक्तगुणां भूमिं निवेशयति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 03

03 तत्रापि स्थलं औदकं वा इति महतः स्थलाद् अल्पं औदकं श्रेयः, सातत्याद् अवस्थितत्वाच्च फलानाम्

मूलम् - 03

03 तत्रापि स्थलं औदकं वा इति महतः स्थलाद् अल्पं औदकं श्रेयः, सातत्याद् अवस्थितत्वाच्च फलानाम्

विश्वास-प्रस्तुतिः - 04

04 स्थलयोरपि प्रभूतपूर्वापरसस्यं अल्पवर्षपाकं असक्तारम्भं श्रेयः

मूलम् - 04

04 स्थलयोरपि प्रभूतपूर्वापरसस्यं अल्पवर्षपाकं असक्तारम्भं श्रेयः

विश्वास-प्रस्तुतिः - 05

05 औदकयोरपि धान्यवापं अधान्यवापात्श्रेयः

मूलम् - 05

05 औदकयोरपि धान्यवापं अधान्यवापात्श्रेयः

विश्वास-प्रस्तुतिः - 06

06 तयोरल्पबहुत्वे धान्यकान्ताद् अल्पान् महद् अधान्यकान्तं श्रेयः

मूलम् - 06

06 तयोरल्पबहुत्वे धान्यकान्ताद् अल्पान् महद् अधान्यकान्तं श्रेयः

विश्वास-प्रस्तुतिः - 07

07 महत्यवकाशे हि स्थाल्याश्चानूप्याश्चोषधयो भवन्ति

मूलम् - 07

07 महत्यवकाशे हि स्थाल्याश्चानूप्याश्चोषधयो भवन्ति

विश्वास-प्रस्तुतिः - 08

08 दुर्गादीनि च कर्माणि प्रभूत्येन क्रियन्ते

मूलम् - 08

08 दुर्गादीनि च कर्माणि प्रभूत्येन क्रियन्ते

विश्वास-प्रस्तुतिः - 09

09 कृत्रिमा हि भूमिगुणाः

मूलम् - 09

09 कृत्रिमा हि भूमिगुणाः

विश्वास-प्रस्तुतिः - 10

10 खनिधान्यभोगयोः खनिभोगः कोशकरः, धान्यभोगः कोशकोष्ठागारकरः

मूलम् - 10

10 खनिधान्यभोगयोः खनिभोगः कोशकरः, धान्यभोगः कोशकोष्ठागारकरः

विश्वास-प्रस्तुतिः - 11

11 धान्यमूला हि दुर्गादीनां कर्मणां आरम्भाः

मूलम् - 11

11 धान्यमूला हि दुर्गादीनां कर्मणां आरम्भाः

विश्वास-प्रस्तुतिः - 12

12 महाविषयविक्रयो वा खनिभोगः श्रेयान्

मूलम् - 12

12 महाविषयविक्रयो वा खनिभोगः श्रेयान्

विश्वास-प्रस्तुतिः - 13

13 द्रव्यहस्तिवनभोगयोर्द्रव्यवनभोगः सर्वकर्मणां योनिः प्रभूतनिधानक्षमश्च, विपरीतो हस्तिवनभोगः इत्याचार्याः

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 न इति कौटिल्यः

मूलम् - 14

14 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 15

15 शक्यं द्रव्यवनं अनेकं अनेकस्यां भूमौ वापयितुं, न हस्तिवनम्

मूलम् - 15

15 शक्यं द्रव्यवनं अनेकं अनेकस्यां भूमौ वापयितुं, न हस्तिवनम्

विश्वास-प्रस्तुतिः - 16

16 हस्तिप्रधानो हि परानीकवध इति

मूलम् - 16

16 हस्तिप्रधानो हि परानीकवध इति

विश्वास-प्रस्तुतिः - 17

17 वारिस्थलपथभोगयोरनित्यो वारिपथभोगः, नित्यः स्थलपथभोगः

मूलम् - 17

17 वारिस्थलपथभोगयोरनित्यो वारिपथभोगः, नित्यः स्थलपथभोगः

विश्वास-प्रस्तुतिः - 18

18 भिन्नमनुष्या श्रेणीमनुष्या वा भूमिरिति भिन्नमनुष्या श्रेयसी

मूलम् - 18

18 भिन्नमनुष्या श्रेणीमनुष्या वा भूमिरिति भिन्नमनुष्या श्रेयसी

विश्वास-प्रस्तुतिः - 19

19 भिन्नमनुष्या भोग्या भवति, अनुपजाप्या चान्येषां, अनापत्सहा तु

मूलम् - 19

19 भिन्नमनुष्या भोग्या भवति, अनुपजाप्या चान्येषां, अनापत्सहा तु

विश्वास-प्रस्तुतिः - 20

20 विपरीता श्रेणीमनुष्या, कोपे महादोषा

मूलम् - 20

20 विपरीता श्रेणीमनुष्या, कोपे महादोषा

विश्वास-प्रस्तुतिः - 21

21 तस्यां चातुर्वर्ण्यनिवेशे सर्वभोगसहत्वाद् अवरवर्णप्राया श्रेयसी, बाहुल्याद् ध्रुवत्वाच्च कृष्याः कर्षकवती, कृष्याश्चान्येषां चारम्भाणां प्रयोजकत्वात् गोरक्षकवती, पण्यनिचय।ऋणानुग्रहाद् आढ्यवणिग्वती

मूलम् - 21

विश्वास-प्रस्तुतिः - 22

22 भूमिगुणानां अपाश्रयः श्रेयान्

मूलम् - 22

22 भूमिगुणानां अपाश्रयः श्रेयान्

विश्वास-प्रस्तुतिः - 23

23 दुर्गापाश्रया पुरुषापाश्रया वा भूमिरिति पुरुषापाश्रया श्रेयसी

मूलम् - 23

23 दुर्गापाश्रया पुरुषापाश्रया वा भूमिरिति पुरुषापाश्रया श्रेयसी

विश्वास-प्रस्तुतिः - 24

24 पुरुषवद् धि राज्यम्

मूलम् - 24

24 पुरुषवद् धि राज्यम्

विश्वास-प्रस्तुतिः - 25

25 अपुरुषा गौर्वन्ध्येव किं दुहीत

मूलम् - 25

25 अपुरुषा गौर्वन्ध्येव किं दुहीत

विश्वास-प्रस्तुतिः - 26

26 महाक्षयव्ययनिवेशां तु भूमिं अवाप्तुकामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराजबीजिनं निरुत्साहं अपक्षं अन्यायवृत्तिं व्यसनिनं दैवप्रमाणं यत्किञ्चनकारिणं वा

मूलम् - 26

विश्वास-प्रस्तुतिः - 27

27 महाक्षयव्ययनिवेशायां हि भूमौ दुर्बलो राजबीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षयव्ययेनावसीदति

मूलम् - 27

27 महाक्षयव्ययनिवेशायां हि भूमौ दुर्बलो राजबीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षयव्ययेनावसीदति

विश्वास-प्रस्तुतिः - 28

28 बलवान् अराजबीजी क्षयव्ययभयाद् असगन्धाभिः प्रकृतिभिः त्यज्यते

मूलम् - 28

28 बलवान् अराजबीजी क्षयव्ययभयाद् असगन्धाभिः प्रकृतिभिः त्यज्यते

विश्वास-प्रस्तुतिः - 29

29 निरुत्साहः तु दण्डवान् अपि दण्डस्याप्रणेता सदण्डः क्षयव्ययेनावभज्यते

मूलम् - 29

29 निरुत्साहः तु दण्डवान् अपि दण्डस्याप्रणेता सदण्डः क्षयव्ययेनावभज्यते

विश्वास-प्रस्तुतिः - 30

30 कोशवान् अप्यपक्षः क्षयव्ययानुग्रहहीनत्वान्न कुतश्चित् प्राप्नोति

मूलम् - 30

30 कोशवान् अप्यपक्षः क्षयव्ययानुग्रहहीनत्वान्न कुतश्चित् प्राप्नोति

विश्वास-प्रस्तुतिः - 31

31 अन्यायवृत्तिर्निविष्टं अप्युत्थापयेत्

मूलम् - 31

31 अन्यायवृत्तिर्निविष्टं अप्युत्थापयेत्

विश्वास-प्रस्तुतिः - 32

32 स कथं अनिविष्टं निवेशयेत्

मूलम् - 32

32 स कथं अनिविष्टं निवेशयेत्

विश्वास-प्रस्तुतिः - 33

33 तेन व्यसनी व्याख्यातः

मूलम् - 33

33 तेन व्यसनी व्याख्यातः

विश्वास-प्रस्तुतिः - 34

34 दैवप्रमाणो मानुषहीनो निरारम्भो विपन्नकर्मारम्भो वाऽवसीदति

मूलम् - 34

34 दैवप्रमाणो मानुषहीनो निरारम्भो विपन्नकर्मारम्भो वाऽवसीदति

विश्वास-प्रस्तुतिः - 35

35 यत्किञ्चनकारी न किञ्चिद् आसादयति

मूलम् - 35

35 यत्किञ्चनकारी न किञ्चिद् आसादयति

विश्वास-प्रस्तुतिः - 36

36 स च एषां पापिष्ठतमो भवति

मूलम् - 36

36 स च एषां पापिष्ठतमो भवति

विश्वास-प्रस्तुतिः - 37

37 यत्किञ्चिद्।आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः

मूलम् - 37

37 यत्किञ्चिद्।आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद् इत्याचार्याः

विश्वास-प्रस्तुतिः - 38

38 यथा छिद्रं तथा विनाशं अप्यासादयेद् इति कौटिल्यः

मूलम् - 38

38 यथा छिद्रं तथा विनाशं अप्यासादयेद् इति कौटिल्यः

विश्वास-प्रस्तुतिः - 39

39 तेषां अलाभे यथा पार्ष्णिग्राह उपग्रहे वक्ष्यामः तथा भूमिं अवस्थापयेत्

मूलम् - 39

39 तेषां अलाभे यथा पार्ष्णिग्राह उपग्रहे वक्ष्यामः तथा भूमिं अवस्थापयेत्

विश्वास-प्रस्तुतिः - 40

40 इत्यभिहितसन्धिः

मूलम् - 40

40 इत्यभिहितसन्धिः

विश्वास-प्रस्तुतिः - 41

41 गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः सन्धिं अवस्थाप्य दद्यात्

मूलम् - 41

41 गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः सन्धिं अवस्थाप्य दद्यात्

विश्वास-प्रस्तुतिः - 42

42 इत्यनिभृतसन्धिः

मूलम् - 42

42 इत्यनिभृतसन्धिः

विश्वास-प्रस्तुतिः - 43

43 समेन वा याचितः कारणं अवेक्ष्य दद्यात् प्रत्यादेया मे भूमिर्वश्या वा, अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमिविक्रयाद् वा मित्रहिरण्यलाभः कार्यसामर्थ्यकरो मे भविष्यति इति

मूलम् - 43

विश्वास-प्रस्तुतिः - 44

44 तेन हीनः क्रेता व्याख्यातः

मूलम् - 44

44 तेन हीनः क्रेता व्याख्यातः

विश्वास-प्रस्तुतिः - 45

45ab एवं मित्रं हिरण्यं च सजनां अजनां च गाम् ।
45chd लभमानोऽतिसन्धत्ते शास्त्रवित् सामवायिकान् (इति)

मूलम् - 45