१०

मित्रहिरण्यभूमिकर्मसन्धयः, तत्र भूमिसन्धिः

विश्वास-प्रस्तुतिः - 01

01 त्वं चाहं च भूमिं लभावहे इति भूमिसन्धिः

मूलम् - 01

01 त्वं चाहं च भूमिं लभावहे इति भूमिसन्धिः

विश्वास-प्रस्तुतिः - 02

02 तयोर्यः प्रत्युपस्थितार्थः सम्पन्नां भूमिं अवाप्नोति सोऽतिसन्धत्ते

मूलम् - 02

02 तयोर्यः प्रत्युपस्थितार्थः सम्पन्नां भूमिं अवाप्नोति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 03

03 तुल्ये सम्पन्नालाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोऽतिसन्धत्ते

मूलम् - 03

03 तुल्ये सम्पन्नालाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 04

04 भूमिलाभं शत्रुकर्शनं प्रतापं च हि प्राप्नोति

मूलम् - 04

04 भूमिलाभं शत्रुकर्शनं प्रतापं च हि प्राप्नोति

विश्वास-प्रस्तुतिः - 05

05 दुर्बलाद्भूमिलाभे सत्यं सौकर्यं भवति

मूलम् - 05

05 दुर्बलाद्भूमिलाभे सत्यं सौकर्यं भवति

विश्वास-प्रस्तुतिः - 06

06 दुर्बल एव च भूमिलाभः, तत्सामन्तश्च मित्रं अमित्रभावं गच्छति

मूलम् - 06

06 दुर्बल एव च भूमिलाभः, तत्सामन्तश्च मित्रं अमित्रभावं गच्छति

विश्वास-प्रस्तुतिः - 07

07 तुल्ये बलीयस्त्वे यः स्थितशत्रुं उत्पाट्य भूमिं अवाप्नोति सोऽतिसन्धत्ते

मूलम् - 07

07 तुल्ये बलीयस्त्वे यः स्थितशत्रुं उत्पाट्य भूमिं अवाप्नोति सोऽतिसन्धत्ते

विश्वास-प्रस्तुतिः - 08

08 दुर्गावाप्तिर्हि स्वभूमिरक्षणं अमित्राटवीप्रतिषेधं च करोति

मूलम् - 08

08 दुर्गावाप्तिर्हि स्वभूमिरक्षणं अमित्राटवीप्रतिषेधं च करोति

विश्वास-प्रस्तुतिः - 09

09 चलामित्राद्भूमिलाभे शक्यसामन्ततो विशेषः

मूलम् - 09

09 चलामित्राद्भूमिलाभे शक्यसामन्ततो विशेषः

विश्वास-प्रस्तुतिः - 10

10 दुर्बलसामन्ता हि क्षिप्राप्यायनयोगक्षेमा भवति

मूलम् - 10

10 दुर्बलसामन्ता हि क्षिप्राप्यायनयोगक्षेमा भवति

विश्वास-प्रस्तुतिः - 11

11 विपरीता बलवत् सामन्ता कोशदण्डावच्छेदनी च भूमिर्भवति

मूलम् - 11

11 विपरीता बलवत् सामन्ता कोशदण्डावच्छेदनी च भूमिर्भवति

विश्वास-प्रस्तुतिः - 12

12 सम्पन्ना नित्यामित्रा मन्दगुणा वा भूमिरनित्यामित्रा इति सम्पन्ना नित्यामित्रा श्रेयसी भूमिः सम्पन्ना हि कोशदण्डौ सम्पादयति, तौ चामित्रप्रतिघातकौ इत्याचार्याः

मूलम् - 12

विश्वास-प्रस्तुतिः - 13

13 न इति कौटिल्यः

मूलम् - 13

13 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 14

14 नित्यामित्रालाभे भूयान् शत्रुलाभो भवति

मूलम् - 14

14 नित्यामित्रालाभे भूयान् शत्रुलाभो भवति

विश्वास-प्रस्तुतिः - 15

15 नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति, अनित्यः तु शत्रुरुपकाराद् अनपकाराद् वा शाम्यति

मूलम् - 15

15 नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति, अनित्यः तु शत्रुरुपकाराद् अनपकाराद् वा शाम्यति

विश्वास-प्रस्तुतिः - 16

16 यस्या हि भूमेर्बहुदुर्गाश्चोरगणैर्म्लेच्छाटवीभिर्वा नित्याविरहिताः प्रत्यन्ताः सा नित्यामित्रा, विपर्यये त्वनित्यामित्रा

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17 अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी

मूलम् - 17

17 अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी

विश्वास-प्रस्तुतिः - 18

18 सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति

मूलम् - 18

18 सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति

विश्वास-प्रस्तुतिः - 19

19 विपरीता व्यवहिता

मूलम् - 19

19 विपरीता व्यवहिता

विश्वास-प्रस्तुतिः - 20

20 व्यवहितयोरपि दण्डधारणाऽऽत्मधारणा वा भूमिरिति आत्मधारणा श्रेयसी

मूलम् - 20

20 व्यवहितयोरपि दण्डधारणाऽऽत्मधारणा वा भूमिरिति आत्मधारणा श्रेयसी

विश्वास-प्रस्तुतिः - 21

21 सा हि स्वसमुत्थाभ्यां कोशदण्डाभ्यां धार्यते

मूलम् - 21

21 सा हि स्वसमुत्थाभ्यां कोशदण्डाभ्यां धार्यते

विश्वास-प्रस्तुतिः - 22

22 विपरीता दण्डधारणा दण्डस्थानम्

मूलम् - 22

22 विपरीता दण्डधारणा दण्डस्थानम्

विश्वास-प्रस्तुतिः - 23

23 बालिशात् प्राज्ञाद् वा भूमिलाभ इति बालिशाद्भूमिलाभः श्रेयान्

मूलम् - 23

23 बालिशात् प्राज्ञाद् वा भूमिलाभ इति बालिशाद्भूमिलाभः श्रेयान्

विश्वास-प्रस्तुतिः - 24

24 सुप्राप्याऽनुपाल्या हि भवति, अप्रत्यादेया च

मूलम् - 24

24 सुप्राप्याऽनुपाल्या हि भवति, अप्रत्यादेया च

विश्वास-प्रस्तुतिः - 25

25 विपरीता प्राज्ञाद् अनुरक्ता

मूलम् - 25

25 विपरीता प्राज्ञाद् अनुरक्ता

विश्वास-प्रस्तुतिः - 26

26 पीडनीय उच्छेदनीययोरुच्छेदनीयाद् भूमिलाभः श्रेयान्

मूलम् - 26

26 पीडनीय उच्छेदनीययोरुच्छेदनीयाद् भूमिलाभः श्रेयान्

विश्वास-प्रस्तुतिः - 27

27 उच्छेदनीयो ह्यनपाश्रयो दुर्बलापाश्रयो वाऽभियुक्तः कोशदण्डावादायापसर्तुकामः प्रकृतिभिः त्यज्यते, न पीडनीयो दुर्गमित्रप्रतिष्टब्धः

मूलम् - 27

विश्वास-प्रस्तुतिः - 28

28 दुर्गप्रतिष्टब्धयोरपि स्थलनदीदुर्गीयाभ्यां स्थलदुर्गीयाद् भूमिलाभः श्रेयान्

मूलम् - 28

28 दुर्गप्रतिष्टब्धयोरपि स्थलनदीदुर्गीयाभ्यां स्थलदुर्गीयाद् भूमिलाभः श्रेयान्

विश्वास-प्रस्तुतिः - 29

29 स्थालेयं हि सुरोधावमर्दावस्कन्दं अनिह्श्राविशत्रु च

मूलम् - 29

29 स्थालेयं हि सुरोधावमर्दावस्कन्दं अनिह्श्राविशत्रु च

विश्वास-प्रस्तुतिः - 30

30 नदीदुर्गं तु द्विगुणक्लेशकरं, उदकं च पातव्यं वृत्तिकरं चामित्रस्य

मूलम् - 30

30 नदीदुर्गं तु द्विगुणक्लेशकरं, उदकं च पातव्यं वृत्तिकरं चामित्रस्य

विश्वास-प्रस्तुतिः - 31

31 नदीपर्वतदुर्गीयाभ्यां नदीदुर्गीयाद् ब्भूमिलाभः श्रेयान्

मूलम् - 31

31 नदीपर्वतदुर्गीयाभ्यां नदीदुर्गीयाद् ब्भूमिलाभः श्रेयान्

विश्वास-प्रस्तुतिः - 32

32 नदीदुर्गं हि हस्तिस्तम्भसङ्क्रमसेतुबन्धनौभिः साध्यं अनित्यगाम्भीर्यं अवस्राव्युदकं च

मूलम् - 32

32 नदीदुर्गं हि हस्तिस्तम्भसङ्क्रमसेतुबन्धनौभिः साध्यं अनित्यगाम्भीर्यं अवस्राव्युदकं च

विश्वास-प्रस्तुतिः - 33

33 पार्वतं तु स्व्।आरक्षं दुरुपरोधि कृच्छ्रारोहणं, भग्ने च एकस्मिन्न सर्ववधः, शिलावृक्षप्रमोक्षश्च महाऽपकारिणाम्

मूलम् - 33

विश्वास-प्रस्तुतिः - 34

34 निम्नस्थलयोधिभ्यो निम्नयोधिभ्यो भूमिलाभः श्रेयान्

मूलम् - 34

34 निम्नस्थलयोधिभ्यो निम्नयोधिभ्यो भूमिलाभः श्रेयान्

विश्वास-प्रस्तुतिः - 35

35 निम्नयोधिनो ह्युपरुद्धदेशकालाः, स्थलयोधिनः तु सर्वदेशकालयोधिनः

मूलम् - 35

35 निम्नयोधिनो ह्युपरुद्धदेशकालाः, स्थलयोधिनः तु सर्वदेशकालयोधिनः

विश्वास-प्रस्तुतिः - 36

36 खनकाकाशयोधिभ्यः खनकेभ्यो भूमिलाभः श्रेयान्

मूलम् - 36

36 खनकाकाशयोधिभ्यः खनकेभ्यो भूमिलाभः श्रेयान्

विश्वास-प्रस्तुतिः - 37

37 खनका हि खातेन शस्त्रेण च उभयथा युध्यन्ते, शस्त्रेण एवाकाशयोधिनः

मूलम् - 37

37 खनका हि खातेन शस्त्रेण च उभयथा युध्यन्ते, शस्त्रेण एवाकाशयोधिनः

विश्वास-प्रस्तुतिः - 38

38ab एवंविध्येभ्यः पृथिवीं लभमानोऽर्थशास्त्रवित् ।
38chd संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति (इति)

मूलम् - 38