मित्रहिरण्यभूमिकर्मसन्धयः, तत्र मित्रसन्धिः हिरण्यसन्धिश्च
विश्वास-प्रस्तुतिः - 01
01 संहितप्रयाणे मित्रहिरण्यभूमिलाभानां उत्तर उत्तरो लाभः श्रेयान्
मूलम् - 01
01 संहितप्रयाणे मित्रहिरण्यभूमिलाभानां उत्तर उत्तरो लाभः श्रेयान्
विश्वास-प्रस्तुतिः - 02
02 मित्रहिरण्ये हि भूमिलाभाद् भवतः, मित्रं हिरण्यलाभात्
मूलम् - 02
02 मित्रहिरण्ये हि भूमिलाभाद् भवतः, मित्रं हिरण्यलाभात्
विश्वास-प्रस्तुतिः - 03
03 यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति
मूलम् - 03
03 यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति
विश्वास-प्रस्तुतिः - 04
04 त्वं चाहं च मित्रं लभावहे इत्येवं।आदिद्ः समसन्धिः
मूलम् - 04
04 त्वं चाहं च मित्रं लभावहे इत्येवं।आदिद्ः समसन्धिः
विश्वास-प्रस्तुतिः - 05
05 त्वं मित्रम् इत्येवं।आदिर्विषमसन्धिः
मूलम् - 05
05 त्वं मित्रम् इत्येवं।आदिर्विषमसन्धिः
विश्वास-प्रस्तुतिः - 06
06 तयोर्विशेषलाभाद् अतिसन्धिः
मूलम् - 06
06 तयोर्विशेषलाभाद् अतिसन्धिः
विश्वास-प्रस्तुतिः - 07
07 समसन्धौ तु यः सम्पन्नं मित्रं मित्रकृच्छ्रे वा मित्रं अवाप्नोति सोऽतिसन्धत्ते
मूलम् - 07
07 समसन्धौ तु यः सम्पन्नं मित्रं मित्रकृच्छ्रे वा मित्रं अवाप्नोति सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 08
08 आपद्द् हि सौहृदस्थैर्यं उत्पादयति
मूलम् - 08
08 आपद्द् हि सौहृदस्थैर्यं उत्पादयति
विश्वास-प्रस्तुतिः - 09
09 मित्रकृच्छ्रेऽपि नित्यं अवश्यं अनित्यं वश्यं वा इति नित्यं अवश्यं श्रेयः, तद्द् हि अनुपकुर्वद् अपि नापकरोति इत्याचार्याः
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 न इति कौटिल्यः
मूलम् - 10
10 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 11
11 वश्यं अनित्यं श्रेयः
मूलम् - 11
11 वश्यं अनित्यं श्रेयः
विश्वास-प्रस्तुतिः - 12
12 यावद् उपकरोति तावन् मित्रं भवति, उपकारलक्षणं मित्रं इति
मूलम् - 12
12 यावद् उपकरोति तावन् मित्रं भवति, उपकारलक्षणं मित्रं इति
विश्वास-प्रस्तुतिः - 13
13 वश्ययोरपि महाभोगं अनित्यं अल्पभोगं वा नित्यं इति महाभोगं अनित्यं श्रेयः, महाभोगं अनित्यं अल्पकालेन महद्।उपकुर्वन् महान्ति व्ययस्थानानि प्रतिकरोति इत्याचार्याः ॥
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 न इति कौटिल्यः
मूलम् - 14
14 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 15
15 नित्यं अल्पभोगं श्रेयः
मूलम् - 15
15 नित्यं अल्पभोगं श्रेयः
विश्वास-प्रस्तुतिः - 16
16 महाभोगं अनित्यं उपकारभयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुं ईहते
मूलम् - 16
16 महाभोगं अनित्यं उपकारभयाद् अपक्रामति, उपकृत्य वा प्रत्यादातुं ईहते
विश्वास-प्रस्तुतिः - 17
17 नित्यं अल्पभोगं सातत्याद् अल्पं उपकुर्वन् महता कालेन महद् उपकरोति
मूलम् - 17
17 नित्यं अल्पभोगं सातत्याद् अल्पं उपकुर्वन् महता कालेन महद् उपकरोति
विश्वास-प्रस्तुतिः - 18
18 गुरुसमुत्थं महन् मित्रं लघुसमुत्थं अल्पं वा इति गुरुसमुत्थं महन् मित्रं प्रतापकरं भवति, यदा च उत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः
मूलम् - 18

विश्वास-प्रस्तुतिः - 19
19 न इति कौटिल्यः
मूलम् - 19
19 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 20
20 लघुसमुत्थं अल्पं श्रेयः
मूलम् - 20
20 लघुसमुत्थं अल्पं श्रेयः
विश्वास-प्रस्तुतिः - 21
21 लगुसमुत्थं अल्पं मित्रं कार्यकालं नातिपातयति दौर्बल्याच्च यथा इष्टभोग्यं भवति, न इतरत् प्रकृष्टभौमम्
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 विक्षिप्तसैन्यं अवश्यसैन्यं वा इति विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद् इत्याचार्याः
मूलम् - 22
22 विक्षिप्तसैन्यं अवश्यसैन्यं वा इति विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद् इत्याचार्याः
विश्वास-प्रस्तुतिः - 23
23 न इति कौटिल्यः
मूलम् - 23
23 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 24
24 अवश्यसैन्यं श्रेयः
मूलम् - 24
24 अवश्यसैन्यं श्रेयः
विश्वास-प्रस्तुतिः - 25
25 अवश्यं हि शक्यं सामादिभिर्वश्यं कर्तुं, न इतरत् कार्यव्यासक्तं प्रतिसंहर्तुम्
मूलम् - 25
25 अवश्यं हि शक्यं सामादिभिर्वश्यं कर्तुं, न इतरत् कार्यव्यासक्तं प्रतिसंहर्तुम्
विश्वास-प्रस्तुतिः - 26
26 पुरुषभोगं हिरण्यभोगं वा मित्रं इति पुरुषभोगं मित्रं श्रेयः, प्रुषभोगं मित्रं प्रतापकरं भवति, यदा च उत्तिष्ठते तदा कार्यं साधयति इत्याचार्याः
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27 न इति कौटिल्यः
मूलम् - 27
27 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 28
28 हिरण्यभोगं मित्रं श्रेयः
मूलम् - 28
28 हिरण्यभोगं मित्रं श्रेयः
विश्वास-प्रस्तुतिः - 29
29 नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन
मूलम् - 29
29 नित्यो हि हिरण्येन योगः कदाचिद् दण्डेन
विश्वास-प्रस्तुतिः - 30
30 दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति
मूलम् - 30
30 दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति
विश्वास-प्रस्तुतिः - 31
31 हिरण्यभोगं भूमिभोगं वा मित्रं इति हिरण्यभोगं गतिमत्त्वात् सर्वव्ययप्रतीकारकरम् इत्याचार्याः
मूलम् - 31
31 हिरण्यभोगं भूमिभोगं वा मित्रं इति हिरण्यभोगं गतिमत्त्वात् सर्वव्ययप्रतीकारकरम् इत्याचार्याः
विश्वास-प्रस्तुतिः - 32
32 न इति कौटिल्यः
मूलम् - 32
32 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 33
33 मित्रहिरण्ये हि भूमिलाभाद् भवत इत्युक्तं पुरस्ताद्
मूलम् - 33
33 मित्रहिरण्ये हि भूमिलाभाद् भवत इत्युक्तं पुरस्ताद्
विश्वास-प्रस्तुतिः - 34
34 तस्माद् भूमिभोगं मित्रं श्रेय इति
मूलम् - 34
34 तस्माद् भूमिभोगं मित्रं श्रेय इति
विश्वास-प्रस्तुतिः - 35
35 तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वं अनुरागः सर्वबललाभो वा मित्रकुलाद् विशेषः
मूलम् - 35
35 तुल्ये पुरुषभोगे विक्रमः क्लेशसहत्वं अनुरागः सर्वबललाभो वा मित्रकुलाद् विशेषः
विश्वास-प्रस्तुतिः - 36
36 तुल्ये हिरण्यभोगे प्रार्थितार्थता प्राभूत्यं अल्पप्रयसता सातत्यं च विशेषः
मूलम् - 36
36 तुल्ये हिरण्यभोगे प्रार्थितार्थता प्राभूत्यं अल्पप्रयसता सातत्यं च विशेषः
विश्वास-प्रस्तुतिः - 37
37 तत्र एतद् भवति
मूलम् - 37
37 तत्र एतद् भवति
विश्वास-प्रस्तुतिः - 38
38ab नित्यं वश्यं लघु।उत्थानं पितृपैतामहं महत् ।
38chd अद्वैध्यं च इति सम्पन्नं मित्रं षड्गुणं उच्यते
मूलम् - 38

विश्वास-प्रस्तुतिः - 39
39ab ऋते यद् अर्थं प्रणयाद् रक्ष्यते यच्च रक्षति ।
39chd पूर्व उपचितसम्बन्धं तन् मित्रं नित्यं उच्यते
मूलम् - 39

विश्वास-प्रस्तुतिः - 40
40ab सर्वचित्रमहाभोगं त्रिविधं वश्यं उच्यते ।
40chd एकतोभोग्युभयतः सर्वतोभोगि चापरम्
मूलम् - 40
40ab सर्वचित्रमहाभोगं त्रिविधं वश्यं उच्यते ।
40chd एकतोभोग्युभयतः सर्वतोभोगि चापरम्
विश्वास-प्रस्तुतिः - 41
41ab आदातृ वा दात्र्ऽपि वा जीवत्यरिषु हिंसया ।
41chd मित्रं नित्यं अवश्यं तद्दुर्गाटव्य्ऽपसारि च
मूलम् - 41
41ab आदातृ वा दात्र्ऽपि वा जीवत्यरिषु हिंसया ।
41chd मित्रं नित्यं अवश्यं तद्दुर्गाटव्य्ऽपसारि च
विश्वास-प्रस्तुतिः - 42
42ab अन्यतो विगृहीतं यल्लघुव्यसनं एव वा ।
42chd सन्धत्ते च उपकाराय तन् मित्रं वश्यं अध्रुवम्
मूलम् - 42
42ab अन्यतो विगृहीतं यल्लघुव्यसनं एव वा ।
42chd सन्धत्ते च उपकाराय तन् मित्रं वश्यं अध्रुवम्
विश्वास-प्रस्तुतिः - 43
43ab एकार्थेनाथ सम्बद्धं उपकार्यविकारि च ।
43chd मित्रभावि भवत्येतन् मित्रं अद्वैध्यं आपदि
मूलम् - 43
43ab एकार्थेनाथ सम्बद्धं उपकार्यविकारि च ।
43chd मित्रभावि भवत्येतन् मित्रं अद्वैध्यं आपदि
विश्वास-प्रस्तुतिः - 44
44ab मित्रभावाद् ध्रुवं मित्रं शत्रुसाधारणाच्चलम् ।
44chd न कस्यचिद् उदासीनं द्वयोरुभयभावि तत्
मूलम् - 44
44ab मित्रभावाद् ध्रुवं मित्रं शत्रुसाधारणाच्चलम् ।
44chd न कस्यचिद् उदासीनं द्वयोरुभयभावि तत्
विश्वास-प्रस्तुतिः - 45
45ab विजिगीषोरमित्रं यन् मित्रं अन्तर्धितां गतम् ।
45chd उपकारेऽनिविष्टं वाऽशक्तं वाऽनुपकारि तत्
मूलम् - 45
45ab विजिगीषोरमित्रं यन् मित्रं अन्तर्धितां गतम् ।
45chd उपकारेऽनिविष्टं वाऽशक्तं वाऽनुपकारि तत्
विश्वास-प्रस्तुतिः - 46
46ab प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा ।
46chd अनुगृह्णाति यन् मित्रं शत्रुसाधारणं हि तत्
मूलम् - 46

विश्वास-प्रस्तुतिः - 47
47ab प्रकृष्टभौमं सन्तुष्टं बलवच्चालसं च यत् ।
47chd उदासीनं भवत्येतद् व्यसनाद् अवमानितम्
मूलम् - 47
47ab प्रकृष्टभौमं सन्तुष्टं बलवच्चालसं च यत् ।
47chd उदासीनं भवत्येतद् व्यसनाद् अवमानितम्
विश्वास-प्रस्तुतिः - 48
48ab अरेर्नेतुश्च यद् वृद्धिं दौर्बल्याद् अनुवर्तते ।
48chd उभयस्याप्यविद्विष्टं विद्याद् उभयभावि तत्
मूलम् - 48

विश्वास-प्रस्तुतिः - 49
49ab कारणाकारणध्वस्तं कारणाकारणागतम् ।
49chd यो मित्रं समुपेक्षेत स मृत्युं उपगूहति
मूलम् - 49
49ab कारणाकारणध्वस्तं कारणाकारणागतम् ।
49chd यो मित्रं समुपेक्षेत स मृत्युं उपगूहति
विश्वास-प्रस्तुतिः - 50
50 क्षिप्रं अल्पो लाभश्चिरान् महान् इति वा क्षिप्रं अल्पो लाभः कार्यदेशकालसंवादकः श्रेयान् इत्याचार्याः
मूलम् - 50

विश्वास-प्रस्तुतिः - 51
51 न इति कौटिल्यः
मूलम् - 51
51 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 52
52 चिराद् अविनिपाती बीजसधर्मा महाम्ल्लाभः श्रेयान्, विपर्यये पूर्वः
मूलम् - 52
52 चिराद् अविनिपाती बीजसधर्मा महाम्ल्लाभः श्रेयान्, विपर्यये पूर्वः
विश्वास-प्रस्तुतिः - 53
53ab एवं दृष्ट्वा ध्रुवे लाभे लाभांशे च गुण उदयम् ।
53chd स्वार्थसिद्धिपरो यायात् संहितः सामवायिकैः (इति)
मूलम् - 53