यातव्यवृत्तिः - अनुग्राह्यमित्रविशेषाः
विश्वास-प्रस्तुतिः - 01
01 यातव्योऽभियास्यमानः सन्धिकारणं आदातुकामो विहन्तुकामो वा सामवायिकानां अन्यतमं लाभद्वैगुण्येन पणेत
मूलम् - 01
01 यातव्योऽभियास्यमानः सन्धिकारणं आदातुकामो विहन्तुकामो वा सामवायिकानां अन्यतमं लाभद्वैगुण्येन पणेत
विश्वास-प्रस्तुतिः - 02
02 पणमानः क्षयव्ययप्रवासप्रत्यवायपर उपकारशरीराबाधांश्चास्य वर्णयेत्
मूलम् - 02
02 पणमानः क्षयव्ययप्रवासप्रत्यवायपर उपकारशरीराबाधांश्चास्य वर्णयेत्
विश्वास-प्रस्तुतिः - 03
03 प्रतिपन्नं अर्थेन योजयेत्
मूलम् - 03
03 प्रतिपन्नं अर्थेन योजयेत्
विश्वास-प्रस्तुतिः - 04
04 वैरं वा परैर्ग्राहयित्वा विसंवादयेत्
मूलम् - 04
04 वैरं वा परैर्ग्राहयित्वा विसंवादयेत्
विश्वास-प्रस्तुतिः - 05
05 दुरारब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामः स्व्।आरब्धां वा यात्रासिद्धिं विघातयितुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्यसंहितः पुनर्याचितुकामः प्रत्युत्पन्नार्थकृच्छ्रः तस्मिन्न् अविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत्, आयत्यां प्रभूतम्
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 मित्र उपकारं अमित्र उपघातं अर्थानुबन्धं अवेक्षमाणः पूर्व उपकारकं कारयितुकामो भूयः तदात्वे महान्तं लाभं उत्सृज्यायत्यां अल्पं इच्छेत्
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 दूष्यामित्राभ्यां मूलहरेण वा ज्यायसा विगृहीतं त्रातुकामः तथाविधं उपकारं कारयितुकामः सम्बन्धावेक्षी वा तदात्वे चायत्यां च लाभं न प्रतिगृह्णीयात्
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 कृतसन्धिरतिक्रमितुकामः परस्य प्रकृतिकर्शनं मित्रामित्रसन्धिविश्लेषणं वा कर्तुकामः पराभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 तं इतरः तदात्वे चायत्यां च क्रमं अवेक्षेत
मूलम् - 09
09 तं इतरः तदात्वे चायत्यां च क्रमं अवेक्षेत
विश्वास-प्रस्तुतिः - 10
10 तेन पूर्वे व्याख्याताः
मूलम् - 10
10 तेन पूर्वे व्याख्याताः
विश्वास-प्रस्तुतिः - 11
11 अरिविजिगीष्वोः तु स्वं स्वं मित्रं अनुगृह्णतोः शक्यकल्यभव्यारम्भिस्थिरकर्मानुरक्तप्रकृतिभ्यो विशेषः
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 शक्यारम्भी विषह्यं कर्मारभते, कल्यारम्भी निर्दोषं, भव्यारम्भी कल्याण उदयम्
मूलम् - 12
12 शक्यारम्भी विषह्यं कर्मारभते, कल्यारम्भी निर्दोषं, भव्यारम्भी कल्याण उदयम्
विश्वास-प्रस्तुतिः - 13
13 स्थिरकर्मा नासमाप्य कर्म उपरमते
मूलम् - 13
13 स्थिरकर्मा नासमाप्य कर्म उपरमते
विश्वास-प्रस्तुतिः - 14
14 अनुरक्तप्रकृतिः सुसहायत्वाद् अल्पेनाप्यनुग्रहेण कार्यं साधयति
मूलम् - 14
14 अनुरक्तप्रकृतिः सुसहायत्वाद् अल्पेनाप्यनुग्रहेण कार्यं साधयति
विश्वास-प्रस्तुतिः - 15
15 त एते कृतार्थाः सुखेन प्रभूतं च उपकुर्वन्ति
मूलम् - 15
15 त एते कृतार्थाः सुखेन प्रभूतं च उपकुर्वन्ति
विश्वास-प्रस्तुतिः - 16
16 अतः प्रतिलोमा नानुग्राह्याः
मूलम् - 16
16 अतः प्रतिलोमा नानुग्राह्याः
विश्वास-प्रस्तुतिः - 17
17 तयोरेकपुरुषानुग्रहे यो मित्रं मित्रतरं वाऽनुगृह्णाति सोऽतिसन्धत्ते
मूलम् - 17
17 तयोरेकपुरुषानुग्रहे यो मित्रं मित्रतरं वाऽनुगृह्णाति सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 18
18 मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपर उपकारान् इतरः
मूलम् - 18
18 मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपर उपकारान् इतरः
विश्वास-प्रस्तुतिः - 19
19 कृतार्थश्च शत्रुर्वैगुण्यं एति
मूलम् - 19
19 कृतार्थश्च शत्रुर्वैगुण्यं एति
विश्वास-प्रस्तुतिः - 20
20 मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाऽनुगृह्णाति सोऽतिसन्धत्ते
मूलम् - 20
20 मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाऽनुगृह्णाति सोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 21
21 मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपर उपकारान् इतरः
मूलम् - 21
21 मित्राद् आत्मवृद्धिं हि प्राप्नोति, क्षयव्ययप्रवासपर उपकारान् इतरः
विश्वास-प्रस्तुतिः - 22
22 मध्यमश्चेद् अनुगृहीतो विगुणः स्याद् अमित्रोऽतिसन्धत्ते
मूलम् - 22
22 मध्यमश्चेद् अनुगृहीतो विगुणः स्याद् अमित्रोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 23
23 कृतप्रयासं हि मध्यमामित्रं अपसृतं एकार्थ उपगतं प्राप्नोति
मूलम् - 23
23 कृतप्रयासं हि मध्यमामित्रं अपसृतं एकार्थ उपगतं प्राप्नोति
विश्वास-प्रस्तुतिः - 24
24 तेन उदासीनानुग्रहो व्याख्यातः
मूलम् - 24
24 तेन उदासीनानुग्रहो व्याख्यातः
विश्वास-प्रस्तुतिः - 25
25 मध्यम उदासीनयोर्बलांशदाने यः शूरं कृतास्त्रं दुःखसहं अनुरक्तं वा दण्डं ददाति सोऽतिसन्धीयते
मूलम् - 25
25 मध्यम उदासीनयोर्बलांशदाने यः शूरं कृतास्त्रं दुःखसहं अनुरक्तं वा दण्डं ददाति सोऽतिसन्धीयते
विश्वास-प्रस्तुतिः - 26
26 विपरीतोऽतिसन्धत्ते
मूलम् - 26
26 विपरीतोऽतिसन्धत्ते
विश्वास-प्रस्तुतिः - 27
27 यत्र तु दण्डः प्रहितः तं वा चार्थं अन्यांश्च साधयति तत्र मौलभृतश्रेणीमित्राटवीबलानां अन्यतमं उपलब्धदेशकालं दण्डं दद्यात्, अमित्राटवीबलं वा व्यवहितदेशकालम्
मूलम् - 27

विश्वास-प्रस्तुतिः - 28
28 यं तु मन्येत कृतार्थो मे दण्डं गृह्णीयाद्, अमित्राटव्य्ऽभूम्य्ऽनृतुषु वा वासयेद्, अफलं वा कुर्याद् इति, दण्डव्यासङ्गापदेशेन न एनं अनुगृह्णीयात्
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 एवं अवश्यं त्वनुग्रहीतव्ये तत्कालसहं अस्मै दण्डं दद्यात्
मूलम् - 29
29 एवं अवश्यं त्वनुग्रहीतव्ये तत्कालसहं अस्मै दण्डं दद्यात्
विश्वास-प्रस्तुतिः - 30
30 आसमाप्तेश्च एनं वासयेद् योधयेच्च बलव्यसनेभ्यश्च रक्षेत्
मूलम् - 30
30 आसमाप्तेश्च एनं वासयेद् योधयेच्च बलव्यसनेभ्यश्च रक्षेत्
विश्वास-प्रस्तुतिः - 31
31 कृतार्थाच्च सापदेशं अपस्रावयेत्
मूलम् - 31
31 कृतार्थाच्च सापदेशं अपस्रावयेत्
विश्वास-प्रस्तुतिः - 32
32 दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात्
मूलम् - 32
32 दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात्
विश्वास-प्रस्तुतिः - 33
33 यातव्येन वा सन्धाय एनं अतिसन्दध्यात्
मूलम् - 33
33 यातव्येन वा सन्धाय एनं अतिसन्दध्यात्
विश्वास-प्रस्तुतिः - 34
34ab समे हि लाभे सन्धिः स्याद् विषमे विक्रमो मतः
34chd समहीनविशिष्टानां इत्युक्ताः सन्धिविक्रमाः (इति)
मूलम् - 34