द्वैधीभाविकाः सन्धिविक्रमाः
विश्वास-प्रस्तुतिः - 01
01 विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात्
मूलम् - 01
01 विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात्
विश्वास-प्रस्तुतिः - 02
02 सामन्तं सामन्तेन सम्भूय यायात्, यदि वा मन्येत पार्ष्णिं मे न ग्रहीष्यति, पार्ष्णिग्राहं वारयिष्यति, यातव्यं नाभिसरिष्यति, बलद्वैगुण्यं मे भविष्यति, वीवधासारौ मे प्रवर्तयिष्यति, परस्य वारयिष्यति, बह्व्।आबाधे मे पथि कण्टकान् मर्दयिष्यति, दुर्गाटव्य्ऽपसारेषु दण्डेन चरिष्यति, यातव्यं अविषह्ये दोषे सन्धौ वा
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 द्वैधीभूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत
मूलम् - 03
03 द्वैधीभूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत
विश्वास-प्रस्तुतिः - 04
04 तेषां ज्यायसोऽधिकेनांशेन समात् समेन हीनाद्द् हीनेन इति समसन्धिः
मूलम् - 04
04 तेषां ज्यायसोऽधिकेनांशेन समात् समेन हीनाद्द् हीनेन इति समसन्धिः
विश्वास-प्रस्तुतिः - 05
05 विपर्यये विषमसन्धिः
मूलम् - 05
05 विपर्यये विषमसन्धिः
विश्वास-प्रस्तुतिः - 06
06 तयोर्विशेषलाभाद् अतिसन्धिः
मूलम् - 06
06 तयोर्विशेषलाभाद् अतिसन्धिः
विश्वास-प्रस्तुतिः - 07
07 व्यसनिनं अपायस्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बलसमेन लाभेन पणेत
मूलम् - 07
07 व्यसनिनं अपायस्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बलसमेन लाभेन पणेत
विश्वास-प्रस्तुतिः - 08
08 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
मूलम् - 08
08 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
विश्वास-प्रस्तुतिः - 09
09 एवम्भूतो वा हीनशक्तिप्रतापपूरणार्थं सम्भाव्यार्थाभिसारी मूलपार्ष्णित्राणार्थं वा ज्यायांसं हीनो बलसमाद् विशिष्टेन लाभेन पणेत
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 पणितः कल्याणबुद्धिं अनुगृह्णीयात्, अन्यथा विक्रमेत
मूलम् - 10
10 पणितः कल्याणबुद्धिं अनुगृह्णीयात्, अन्यथा विक्रमेत
विश्वास-प्रस्तुतिः - 11
11 जातव्यसनप्रकृतिरन्ध्रं उपस्थितानर्थं वा ज्यायांसं हीनो दुर्गमित्रप्रतिष्टब्धो वा ह्रस्वं अध्वानं यातुकामः शत्रुं अयुद्धं एकान्तसिद्धिं वा लाभं आदातुकामो बलसमाद्द् हीनेन लाभेन पणेत
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
मूलम् - 12
12 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
विश्वास-प्रस्तुतिः - 13
13 अरन्ध्रव्यसनो वा ज्यायान् दुर्।आरब्धकर्माणं भूयः क्षयव्ययाभ्यां योक्तुकामो दूष्यदण्डं प्रवासयितुकामो दूष्यदण्डं आवाहयितुकामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितुकामः सन्धिप्रधानो वा कल्याणबुद्धिर्हीनं लाभं प्रतिगृह्णीयात्
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 कल्याणबुद्धिना सम्भूयार्थं लिप्सेत, अन्यथा विक्रमेत
मूलम् - 14
14 कल्याणबुद्धिना सम्भूयार्थं लिप्सेत, अन्यथा विक्रमेत
विश्वास-प्रस्तुतिः - 15
15 एवं समः समं अतिसन्दध्याद् अनुगृह्णीयाद् वा
मूलम् - 15
15 एवं समः समं अतिसन्दध्याद् अनुगृह्णीयाद् वा
विश्वास-प्रस्तुतिः - 16
16 परानीकस्य प्रत्यनीकं मित्राटवीनां वा, शत्रोर्विभूमीनां देशिकं मूलपार्ष्णित्राणार्थं वा समो बलसमेन लाभेन पणेत
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 पणितः कल्याणबुद्धिं अनुगृह्णीयात्, अन्यथा विक्रमेत
मूलम् - 17
17 पणितः कल्याणबुद्धिं अनुगृह्णीयात्, अन्यथा विक्रमेत
विश्वास-प्रस्तुतिः - 18
18 जातव्यसनप्रकृतिरन्ध्रं अनेकविरुद्धं अन्यतो लभमानो वा समो बलसमाद्द् हीनेन लाभेन पणेत
मूलम् - 18
18 जातव्यसनप्रकृतिरन्ध्रं अनेकविरुद्धं अन्यतो लभमानो वा समो बलसमाद्द् हीनेन लाभेन पणेत
विश्वास-प्रस्तुतिः - 19
19 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
मूलम् - 19
19 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
विश्वास-प्रस्तुतिः - 20
20 एवम्भूतो वा समः सामन्तायत्तकार्यः कर्तव्यबलो वा बलसमाद् विशिष्टेन लाभेन पणेत
मूलम् - 20
20 एवम्भूतो वा समः सामन्तायत्तकार्यः कर्तव्यबलो वा बलसमाद् विशिष्टेन लाभेन पणेत
विश्वास-प्रस्तुतिः - 21
21 पणितः कल्याणबुद्धिं अनुगृह्णीयात् अन्यथा विक्रमेत
मूलम् - 21
21 पणितः कल्याणबुद्धिं अनुगृह्णीयात् अन्यथा विक्रमेत
विश्वास-प्रस्तुतिः - 22
22 जातव्यसनप्रकृतिरन्ध्रं अभिहन्तुकामः स्व्।आरब्धं एकान्तसिद्धिं वाऽस्य कर्म उपहन्तुकामो मूले यात्रायां वा प्रहर्तुकामो यातव्याद्भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 भूयो वा याचितः स्वबलरक्षाऽर्थं दुर्धर्षं अन्यदुर्गं आसारं अटवीं वा परदण्डेन मर्दितुकामः प्रकृष्टेऽध्वनि काले वा परदण्डं क्षयव्ययाभ्यां योक्तुकामः परदण्डेन वा विवृद्धः तं एव उच्छेत्तुकामः परदण्डं आदातुकामो वा भूयो दद्यात्
मूलम् - 23

विश्वास-प्रस्तुतिः - 24
24 ज्यायान् वा हीनं यातव्यापदेशेन हस्ते कर्तुकामः परं उच्छिद्य वा तं एव उच्छेत्तुकामः, त्यागं वा कृत्वा प्रत्यादातुकामो बलसमाद् विशिष्टेन लाभेन पणेत
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
मूलम् - 25
25 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
विश्वास-प्रस्तुतिः - 26
26 यातव्यसंहितो वा तिष्ठेत्, दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात्
मूलम् - 26
26 यातव्यसंहितो वा तिष्ठेत्, दूष्यामित्राटवीदण्डं वाऽस्मै दद्यात्
विश्वास-प्रस्तुतिः - 27
27 जातव्यसनप्रकृतिरन्ध्रो वा ज्यायान् हीनं बलसमेन लाभेन पणेत
मूलम् - 27
27 जातव्यसनप्रकृतिरन्ध्रो वा ज्यायान् हीनं बलसमेन लाभेन पणेत
विश्वास-प्रस्तुतिः - 28
28 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
मूलम् - 28
28 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
विश्वास-प्रस्तुतिः - 29
29 एवम्भूतं हीनं ज्यायान् बलसमाद्द् हीनेन लाभेन पणेत
मूलम् - 29
29 एवम्भूतं हीनं ज्यायान् बलसमाद्द् हीनेन लाभेन पणेत
विश्वास-प्रस्तुतिः - 30
30 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
मूलम् - 30
30 पणितः तस्यापकारसमर्थो विक्रमेत, अन्यथा सन्दध्यात्
विश्वास-प्रस्तुतिः - 31
31ab आदौ बुध्येत पणितः पणमानश्च कारणम्
31chd ततो वितर्क्य उभयतो यतः श्रेयश्ततो व्रजेत् (इति)
मूलम् - 31