संहितप्रयाणिकं - परिपणितापरिपणितापसृताः सन्धयः
विश्वास-प्रस्तुतिः - 01
01 विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसन्दध्यात्
मूलम् - 01
01 विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसन्दध्यात्
विश्वास-प्रस्तुतिः - 02
02 सामन्तं संहितप्रयाणे योजयेत् त्वं इतो याहि, अहं इतो यास्यामि, समानो लाभः इति
मूलम् - 02
02 सामन्तं संहितप्रयाणे योजयेत् त्वं इतो याहि, अहं इतो यास्यामि, समानो लाभः इति
विश्वास-प्रस्तुतिः - 03
03 लाभसाम्ये सन्धिः, वैषम्ये विक्रमः
मूलम् - 03
03 लाभसाम्ये सन्धिः, वैषम्ये विक्रमः
विश्वास-प्रस्तुतिः - 04
04 सन्धिः परिपणितश्चापरिपणितश्च
मूलम् - 04
04 सन्धिः परिपणितश्चापरिपणितश्च
विश्वास-प्रस्तुतिः - 05
05 त्वं एतं देशं याहि, अहं इमं देशं यास्यामि इति परिपणितदेशः
मूलम् - 05
05 त्वं एतं देशं याहि, अहं इमं देशं यास्यामि इति परिपणितदेशः
विश्वास-प्रस्तुतिः - 06
06 त्वं एतावन्तं कालं चेष्टस्व, अहं एतावन्तं कालं चेष्टिष्ये इति परिपणितकालः
मूलम् - 06
06 त्वं एतावन्तं कालं चेष्टस्व, अहं एतावन्तं कालं चेष्टिष्ये इति परिपणितकालः
विश्वास-प्रस्तुतिः - 07
07 त्वं एतावत्कार्यं साधय, अहं इदं कार्यं साधयिष्यामि इति परिपणितार्थः
मूलम् - 07
07 त्वं एतावत्कार्यं साधय, अहं इदं कार्यं साधयिष्यामि इति परिपणितार्थः
विश्वास-प्रस्तुतिः - 08
08 यदि वा मन्येत शैलवननदीदुर्गं अटवीव्यवहितं छिन्नधान्यपुरुषवीवधासारं अयवस इन्धन उदकं अविज्ञातं प्रकृष्टं अन्यभावदेशीयं वा सैन्यव्यायामानां अलब्धभौमं वा देशं परो यास्यति, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितदेशं सन्धिं उपेयात्
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 यदि वा मन्येत प्रवर्ष उष्णशीतं अतिव्याधिप्रायं उपक्षीणाहार उपभोगं सैन्यव्यायामानां चाउपरोधिकं कार्यसाधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितकालं सन्धिं उपेयात्
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 यदि वा मन्येत प्रत्यादेयं प्रकृतिकोपकं दीर्घकालं महाक्षयव्ययं अल्पं अनर्थानुबन्धं अकल्यं अधर्म्यं मध्यम उदासीनविरुद्धं मित्र उपघातकं वा कार्यं परः साधयिष्यति, विपरीतं अहम् इत्येतस्मिन् विशेषे परिपणितार्थं सन्धिं उपेयात्
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 एवं देशकालयोः कालकार्ययोर्देशकार्ययोर्देशकालकार्याणां चावस्थापनात् सप्तविधः परिपणितः
मूलम् - 11
11 एवं देशकालयोः कालकार्ययोर्देशकार्ययोर्देशकालकार्याणां चावस्थापनात् सप्तविधः परिपणितः
विश्वास-प्रस्तुतिः - 12
12 तस्मिन् प्राग् एवारभ्य प्रतिष्ठाप्य च स्वकर्माणि परकर्मसु विक्रमेत
मूलम् - 12
12 तस्मिन् प्राग् एवारभ्य प्रतिष्ठाप्य च स्वकर्माणि परकर्मसु विक्रमेत
विश्वास-प्रस्तुतिः - 13
13 व्यसनत्वरावमानालस्ययुक्तं अज्ञं वा शत्रुं अतिसन्धातुकामो देशकालकार्याणां अनवस्थापनात् संहितौ स्वः इति सन्धिविश्वासेन परच्छिद्रं आसाद्य प्रहरेद् इत्यपरिपणितः
मूलम् - 13
13 व्यसनत्वरावमानालस्ययुक्तं अज्ञं वा शत्रुं अतिसन्धातुकामो देशकालकार्याणां अनवस्थापनात् संहितौ स्वः इति सन्धिविश्वासेन परच्छिद्रं आसाद्य प्रहरेद् इत्यपरिपणितः
विश्वास-प्रस्तुतिः - 14
14 तत्र एतद् भवति
मूलम् - 14
14 तत्र एतद् भवति
विश्वास-प्रस्तुतिः - 15
15ab सामन्तेन एव सामन्तं विद्वान् आयोज्य विग्रहे ।
15chd ततोऽन्यस्य हरेद् भूमिं छित्त्वा पक्षं समन्ततः
मूलम् - 15
15ab सामन्तेन एव सामन्तं विद्वान् आयोज्य विग्रहे ।
15chd ततोऽन्यस्य हरेद् भूमिं छित्त्वा पक्षं समन्ततः
विश्वास-प्रस्तुतिः - 16
16 सन्धेरकृतचिकीर्षा कृतश्लेषणं कृतविदूषणं अवशीर्णक्रिया च
मूलम् - 16
16 सन्धेरकृतचिकीर्षा कृतश्लेषणं कृतविदूषणं अवशीर्णक्रिया च
विश्वास-प्रस्तुतिः - 17
17 विक्रमस्य प्रकाशयुद्धं कूटयुद्धं तूष्णींयुद्धम्
मूलम् - 17
17 विक्रमस्य प्रकाशयुद्धं कूटयुद्धं तूष्णींयुद्धम्
विश्वास-प्रस्तुतिः - 18
18 इति सन्धिविक्रमौ
मूलम् - 18
18 इति सन्धिविक्रमौ
विश्वास-प्रस्तुतिः - 19
19 अपूर्वस्य सन्धेः सानुबन्धैः सामादिभिः पर्येषणं समहीनज्यायसां च यथाबलं अवस्थापनं अकृतचिकीर्षा
मूलम् - 19
19 अपूर्वस्य सन्धेः सानुबन्धैः सामादिभिः पर्येषणं समहीनज्यायसां च यथाबलं अवस्थापनं अकृतचिकीर्षा
विश्वास-प्रस्तुतिः - 20
20 कृतस्य प्रियहिताभ्यां उभयतः परिपालनं यथासम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च कथं परस्मान्न भिद्येत इति कृतश्लेषणम्
मूलम् - 20
20 कृतस्य प्रियहिताभ्यां उभयतः परिपालनं यथासम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च कथं परस्मान्न भिद्येत इति कृतश्लेषणम्
विश्वास-प्रस्तुतिः - 21
21 परस्यापसन्धेयतां दूष्यातिसन्धानेन स्थापयित्वा व्यतिक्रमः कृतविदूषणम्
मूलम् - 21
21 परस्यापसन्धेयतां दूष्यातिसन्धानेन स्थापयित्वा व्यतिक्रमः कृतविदूषणम्
विश्वास-प्रस्तुतिः - 22
22 भृत्येन मित्रेण वा दोषापसृतेन प्रतिसन्धानं अवशीर्णक्रिया
मूलम् - 22
22 भृत्येन मित्रेण वा दोषापसृतेन प्रतिसन्धानं अवशीर्णक्रिया
विश्वास-प्रस्तुतिः - 23
23 तस्यां गतागतश्चतुर्विधः - कारणाद् गतागतो, विपरीतः, कारणाद् गतोऽकारणाद् आगतो, विपरीतश्च इति
मूलम् - 23
23 तस्यां गतागतश्चतुर्विधः - कारणाद् गतागतो, विपरीतः, कारणाद् गतोऽकारणाद् आगतो, विपरीतश्च इति
विश्वास-प्रस्तुतिः - 24
24 स्वामिनो दोषेण गतो गुणेनागतः परस्य गुणेन गतो दोषेणागत इति कारणाद् गतागतः सन्धेयः
मूलम् - 24
24 स्वामिनो दोषेण गतो गुणेनागतः परस्य गुणेन गतो दोषेणागत इति कारणाद् गतागतः सन्धेयः
विश्वास-प्रस्तुतिः - 25
25 स्वदोषेण गतागतो गुणं उभयोः परित्यज्य अकारणाद् गतागतः चलबुद्धिरसन्धेयः
मूलम् - 25
25 स्वदोषेण गतागतो गुणं उभयोः परित्यज्य अकारणाद् गतागतः चलबुद्धिरसन्धेयः
विश्वास-प्रस्तुतिः - 26
26 स्वामिनो दोषेण गतः परस्मात् स्वदोषेणागत इति कारणाद् गतोऽकारणाद् आगतः तर्कयितव्यः परप्रयुक्तः स्वेन वा दोषेणापकर्तुकामः, परस्य उच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघातभयाद् आगतः, परं वा मां उच्छेत्तुकामं परित्यज्यानृशंस्याद् आगतः इति
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27 ज्ञात्वा कल्याणबुद्धिं पूजयेद्, अन्यथाबुद्धिं अपकृष्टं वासयेत्
मूलम् - 27
27 ज्ञात्वा कल्याणबुद्धिं पूजयेद्, अन्यथाबुद्धिं अपकृष्टं वासयेत्
विश्वास-प्रस्तुतिः - 28
28 स्वदोषेण गतः परदोषेणागत इत्यकारणाद् गतः कारणाद् आगतः तर्कयितव्यः छिद्रं मे पूरयिष्यति, उचितोऽयं अस्य वासः, परत्रास्य जनो न रमते, मित्रैर्मे संहितः, शत्रुभिर्विगृहीतः, लुब्धक्रूराद् आविग्नः शत्रुसंहिताद् वा परस्मात् इति
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 ज्ञात्वा यथाबुद्ध्यवस्थापयितव्यः
मूलम् - 29
29 ज्ञात्वा यथाबुद्ध्यवस्थापयितव्यः
विश्वास-प्रस्तुतिः - 30
30 कृतप्रणाशः शक्तिहानिर्विद्यापण्यत्वं आशानिर्वेदो देशलौल्यं अविश्वासो बलवद्विग्रहो वा परित्यागस्थानम् इत्याचार्याः
मूलम् - 30
30 कृतप्रणाशः शक्तिहानिर्विद्यापण्यत्वं आशानिर्वेदो देशलौल्यं अविश्वासो बलवद्विग्रहो वा परित्यागस्थानम् इत्याचार्याः
विश्वास-प्रस्तुतिः - 31
31 भयं अवृत्तिरमर्ष इति कौटिल्यः
मूलम् - 31
31 भयं अवृत्तिरमर्ष इति कौटिल्यः
विश्वास-प्रस्तुतिः - 32
32 इहापकारी त्याज्यः, परापकारी सन्धेयः, उभयापकारी तर्कयितव्य इति समानम्
मूलम् - 32
32 इहापकारी त्याज्यः, परापकारी सन्धेयः, उभयापकारी तर्कयितव्य इति समानम्
विश्वास-प्रस्तुतिः - 33
33 असन्धेयेन त्ववश्यं सन्धातव्ये यतः प्रभावः ततः प्रतिविदध्यात्
मूलम् - 33
33 असन्धेयेन त्ववश्यं सन्धातव्ये यतः प्रभावः ततः प्रतिविदध्यात्
विश्वास-प्रस्तुतिः - 34
34ab स उपकारं व्यवहितं गुप्तं आयुःक्षयाद् इति ।
34chd वासयेद् अरिपक्षीयं अवशीर्णक्रियाविधौ
मूलम् - 34
34ab स उपकारं व्यवहितं गुप्तं आयुःक्षयाद् इति ।
34chd वासयेद् अरिपक्षीयं अवशीर्णक्रियाविधौ
विश्वास-प्रस्तुतिः - 35
35ab विक्रमयेद् भर्तरि वा सिद्धं वा दण्डचारिणम्
35chd कुर्याद् अमित्राटवीषु प्रत्यन्ते वाऽन्यतः क्षिपेत्
मूलम् - 35
35ab विक्रमयेद् भर्तरि वा सिद्धं वा दण्डचारिणम्
35chd कुर्याद् अमित्राटवीषु प्रत्यन्ते वाऽन्यतः क्षिपेत्
विश्वास-प्रस्तुतिः - 36
36ab पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम्
36chd तस्य एव दोषेणादूष्य परसन्धेयकारणात्
मूलम् - 36
36ab पण्यं कुर्याद् असिद्धं वा सिद्धं वा तेन संवृतम्
36chd तस्य एव दोषेणादूष्य परसन्धेयकारणात्
विश्वास-प्रस्तुतिः - 37
37ab अथ वा शमयेद् एनं आयत्य्ऽर्थं उपांशुना
37chd आयत्यां च वधप्रेप्सुं दृष्ट्वा हन्याद् गतागतम्
मूलम् - 37
37ab अथ वा शमयेद् एनं आयत्य्ऽर्थं उपांशुना
37chd आयत्यां च वधप्रेप्सुं दृष्ट्वा हन्याद् गतागतम्
विश्वास-प्रस्तुतिः - 38
38ab अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः
38chd सर्पसंवासधर्मित्वान्नित्य उद्वेगेन दूषितः
मूलम् - 38
38ab अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः
38chd सर्पसंवासधर्मित्वान्नित्य उद्वेगेन दूषितः
विश्वास-प्रस्तुतिः - 39
39ab जायते प्लक्ष+++(=strangler fig)+++-बीजाशात्
कपोताद् इव शाल्मलेः
उद्वेग-जननो नित्यं
पश्चाद् अपि भयावहः
कुशाग्रः
उपमा कौटिल्यस्य: कौटिल्य की उपमा
-कुशाग्र अनिकेत
अर्थशास्त्र के प्रणेता कौटिल्य एक राजनीतिज्ञ के रूप में प्रसिद्ध हैं। किन्तु जिन्होंने अर्थशास्त्र का मूल संस्कृत में अध्ययन किया है, वे जानते हैं कि कौटिल्य एक शास्त्रकार होने के साथ-साथ एक कुशल कवि और व्यंग्यकार भी थे।
महाकवि कालिदास की उपमाएँ जगद्विख्यात हैं। कहा भी गया है - “उपमा कालिदासस्य”। जहाँ कालिदास की उपमाओं में गाम्भीर्य और लालित्य है, वहीं कौटिल्य की उपमाएँ सीधी और सहज हैं। इन्हें पढ़कर एक ऐसे कवि की छवि उभरती है जो लोक-जीवन से जुड़ा हुआ था। यह कवि भारत की प्राचीन कृषि-संस्कृति से भली-भाँति परिचित था और प्रकृति के अनुभव-जन्य ज्ञान से संपन्न था।
कौटिल्य के इस कवित्व को समझने के लिए, उनके अर्थशास्त्र के दो श्लोकों का उद्धरण देखिए। ये श्लोक अर्थशास्त्र के सप्तम अध्याय (षाड्गुण्यम्) के अन्तर्गत एकादश प्रकरण (संहितप्रयाणिकम्) में आते हैं-
अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः। सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः॥
“जो शत्रु के पास से आया है, वह शत्रु के साथ रहने के कारण दोष उत्पन्न करता है, जैसे सर्प के साथ वास करना निरन्तर उद्वेग-रूपी दोष से युक्त होता है।”
जायते प्लक्षबीजाशात्कपोतादिव शाल्मलेः। उद्वेगजननो नित्यं पश्चादपि भयावहः॥
“जिस प्रकार प्लक्ष (पाकर) के बीज खाने वाले कपोत से शाल्मलि (सेमल) के वृक्ष को भय होता है, उसी प्रकार शत्रु के पास से आया पुरुष भी नित्य उद्वेग-कारी होता और बाद में भी भयावह सिद्ध होता है।”
(अर्थशास्त्र, ७.११.३८-३९)
यह श्लोक अर्थशास्त्र के गतागत प्रकरण में आया है, जिसमें बताया गया है कि शत्रु के घर से आया सेवक किसी राजा के लिए भय का कारण बनता है। इसके लिए यहाँ कपोत और शाल्मलि की उपमा दी गई है, जो विचारणीय है। प्रथमदृष्ट्या इन दोनों का क्रमशः शत्रु के पास से आए पुरुष और किसी राजा के साथ क्या संबंध है - यह स्पष्ट नहीं है।
अनेक समकालीन अध्येता कौटिल्य की इस उपमा से मोहित हो चुके हैं। कोई कहता है कि कपोत के आने से उन्हें पकड़ कर खाने वाले गीध अथवा व्याध शाल्मली के वृक्ष पर धावा बोल देंगे, जिससे शाल्मलि को हानि होगी। किन्तु इस व्याख्या में प्लक्ष के बीज का कोई स्थान नहीं है। कोई और कहता है कि प्लक्ष के बीज खाने वाला कपोत शाल्मली के वृक्ष पर उन बीजों को न पाकर सदा दुःखी रहेगा, जिससे शाल्मलि को भी अपने आश्रित-जनों की इच्छा-पूर्ति न कर पाने के कारण दुःख होगा। यह व्याख्या तो और भी अधिक हास्यास्पद है और कपोल-कल्पना मात्र है। एक भग्न-हृदय कपोत से शाल्मलि को क्या भय हो सकता है? जहाँ अर्थशास्त्र पर साधिकार बोलने वाले समकालीन विद्वान् इस पंक्ति का उचित अर्थ नहीं लगा पा रहे हैं, वहीं एक पीढ़ी पूर्व के विद्वानों ने इस पूरे कपोत और सेमल के प्रकरण से बचकर सरल मार्ग अपनाया है। इनमें गणपति शास्त्री, वाचस्पति गैरोला, रघुनाथ सिंह, और शामशास्त्री जैसे अर्थशास्त्र के अनुवादक और व्याख्याकार भी हैं। खेद है कि इन सभी विद्वानों ने कौटिल्य की इस सरल और हृदय-ग्राह्य उपमा का अर्थ प्रकाशित करना उचित नहीं समझा। मेरी दृष्टि में इस का कारण है जैविक विज्ञान से अनभिज्ञता।
कौटिल्य के श्लोक को समझने के लिए सर्वप्रथम ध्यातव्य है कि यहाँ स्पष्टतया “प्लक्ष के बीज खाने वाले कपोत” की बात की गई है। जिस व्याख्या का प्लक्ष के बीज से सम्बन्ध न हो, वह व्याख्या प्रणेता के आशय को कैसे प्रकाशित कर सकती है?
प्लक्ष अथवा पाकर एक वृक्ष है, जो बरगद के समान होता है और सारे भारत में पाया जाता है। इसे अँग्रेज़ी में Ficus Infectoria (“white fig”) भी कहते हैं। यह वृक्ष प्रायः विशालकाय होता है और इसके फल श्वेत रंग के होते हैं। प्लक्ष का वर्णन महाभारत और तत्पश्चात् आयुर्वेद और पाकशास्त्र के ग्रन्थों में मिलता है। कौटिल्य के अनुसार प्लक्ष का वृक्ष शाल्मलि का शत्रु है। इसके पीछे तर्क यह है कि प्लक्ष के बीज यदि शाल्मलि की जड़ों और शाखाओं पर गिरते हैं तो वे वहाँ अंकुरित हो जाते हैं और शाल्मलि का नाश कर देते हैं । इस प्रक्रिया के कारण प्लक्ष को “strangler fig” का एक प्रकार भी कहा जाता है। अतः शाल्मलि के हित में है कि वह विशेषतः प्लक्ष के बीजों से बचकर रहे।
यहाँ कपोत प्रतीक है शत्रु के समीप से आगत पुरुष का, क्योंकि उस कपोत ने पहले प्लक्ष का आश्रय लिया और फिर शाल्मलि के पास आया है। कपोत से शाल्मलि को भय है, क्योंकि वह प्लक्ष के बीज खाने वाला कपोत प्रायः उन बीजों को लाकर शाल्मलि पर गिरा सकता है, जिससे शाल्मलि के लिए संकट उत्पन्न हो गया है। चिड़ियों द्वारा फैलाए गए बीजों से नए पौधों का अंकुरित होना एक सुविदित प्राकृतिक प्रक्रिया है।
मेरे संज्ञान में केवल आर॰ पी॰ कांगले हैं, जिन्होंने इस अर्थ को पहचाना है: “Plakṣa is the ari of śālmali, which is uprooted by the former’s seeds taking root at its base, being dropped there by the kapota” (The Kautilya Arthasastra, p.342).
इस प्रकार वैज्ञानिक और तार्किक दृष्टिकोण से देखने पर कौटिल्य की उपमा सहसा हृदयगम्य हो जाती है। इसके विपरीत खींच-तान करने से यह सरल बात भी अगम्य बनी रहती है। कौटिल्य के अर्थशास्त्र को पढ़ने के लिए एक भिन्न प्रकार की तर्क-परिष्कृत सहृदयता अपेक्षित है। इस सहृदयता के बिना कौटिल्य का सम्पूर्ण मूल्यांकन संभव नहीं है।
मूलम् - 39
39ab जायते प्लक्षबीजाशात् कपोताद् इव शाल्मलेः
39chd उद्वेगजननो नित्यं पश्चाद् अपि भयावहः
विश्वास-प्रस्तुतिः - 40
40ab प्रकाशयुद्धं निर्दिष्टे देशे काले च विक्रमः
40chd विभीषणं अवस्कन्दः प्रमादव्यसनार्दनम्
मूलम् - 40
40ab प्रकाशयुद्धं निर्दिष्टे देशे काले च विक्रमः
40chd विभीषणं अवस्कन्दः प्रमादव्यसनार्दनम्
विश्वास-प्रस्तुतिः - 41
41ab एकत्र त्यागघातौ च कूटयुद्धस्य मातृका
41chd योगगूढ उपजापार्थं तूष्णींयुद्धस्य लक्षणम् (इति)
मूलम् - 41
41ab एकत्र त्यागघातौ च कूटयुद्धस्य मातृका
41chd योगगूढ उपजापार्थं तूष्णींयुद्धस्य लक्षणम् (इति)