०५

यातव्यामित्रयोरभिग्रहचिन्ताः - क्षयलोभविरागहेतवः प्रकृतीनां - सामवायिकविपरिमर्शः

विश्वास-प्रस्तुतिः - 01

01 तुल्यसामन्तव्यसने यातव्यं अमित्रं वा इत्यमित्रं अभियायात्, तत्सिद्धौ यातव्यम्

मूलम् - 01

01 तुल्यसामन्तव्यसने यातव्यं अमित्रं वा इत्यमित्रं अभियायात्, तत्सिद्धौ यातव्यम्

विश्वास-प्रस्तुतिः - 02

02 अमित्रसिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्यसिद्धौ

मूलम् - 02

02 अमित्रसिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्यसिद्धौ

विश्वास-प्रस्तुतिः - 03

03 गुरुव्यसनं यातव्यं लघुव्यसनं अमित्रं वा इति गुरुव्यसनं सौकर्यतो यायाद् इत्याचार्याः

मूलम् - 03

03 गुरुव्यसनं यातव्यं लघुव्यसनं अमित्रं वा इति गुरुव्यसनं सौकर्यतो यायाद् इत्याचार्याः

विश्वास-प्रस्तुतिः - 04

04 न इति कौटिल्यः

मूलम् - 04

04 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 05

05 लघुव्यसनं अमित्रं यायात्

मूलम् - 05

05 लघुव्यसनं अमित्रं यायात्

विश्वास-प्रस्तुतिः - 06

06 लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति

मूलम् - 06

06 लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति

विश्वास-प्रस्तुतिः - 07

07 सत्यं गुर्वपि गुरुतरं भवति

मूलम् - 07

07 सत्यं गुर्वपि गुरुतरं भवति

विश्वास-प्रस्तुतिः - 08

08 अनभियुक्तः तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत्, पार्ष्णिं वा गृह्णीयात्

मूलम् - 08

08 अनभियुक्तः तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत्, पार्ष्णिं वा गृह्णीयात्

विश्वास-प्रस्तुतिः - 09

09 यातव्ययौगपद्ये गुरुव्यसनं न्यायवृत्तिं लघुव्यसनं अन्यायवृत्तिं विरक्तप्रकृतिं वा इति विरक्तप्रकृतिं यायात्

मूलम् - 09

विश्वास-प्रस्तुतिः - 10

10 गुरुव्यसनं न्यायवृत्तिं अभियुक्तं प्रकृतयोऽनुगृह्णन्ति, लघुव्यसनं अन्यायवृत्तिं उपेक्षन्ते, विरक्ता बलवन्तं अप्युच्छिन्दन्ति

मूलम् - 10

विश्वास-प्रस्तुतिः - 11

11 तस्माद् विरक्तप्रकृतिं एव यायात्

मूलम् - 11

11 तस्माद् विरक्तप्रकृतिं एव यायात्

विश्वास-प्रस्तुतिः - 12

12 क्षीणलुब्धप्रकृतिं अपचरितप्रकृतिं वा इति क्षीणलुब्धप्रकृतिं यायात्, क्षीणलुब्धा हि प्रकृतयः सुखेन उपजापं पीडां वा उपगच्छन्ति, नापचरिताः प्रधानावग्रहसाध्याः इत्याचार्याः

मूलम् - 12

विश्वास-प्रस्तुतिः - 13

13 न इति कौटिल्यः

मूलम् - 13

13 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 14

14 क्षीणलुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृहिते तिष्ठन्ति, उपजापं वा विसंवादयन्ति, अनुरागे सार्वगुण्यं इति

मूलम् - 14

विश्वास-प्रस्तुतिः - 15

15 तस्माद् अपचरितप्रकृतिं एव यायात्

मूलम् - 15

15 तस्माद् अपचरितप्रकृतिं एव यायात्

विश्वास-प्रस्तुतिः - 16

16 बलवन्तं अन्यायवृत्तिं दुर्बलं वा न्यायवृत्तिं इति बलवन्तं अन्यायवृत्तिं यायात्

मूलम् - 16

16 बलवन्तं अन्यायवृत्तिं दुर्बलं वा न्यायवृत्तिं इति बलवन्तं अन्यायवृत्तिं यायात्

विश्वास-प्रस्तुतिः - 17

17 बलवन्तं अन्यायवृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति, निष्पातयन्ति, अमित्रं वाऽस्य भजन्ते

मूलम् - 17

17 बलवन्तं अन्यायवृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति, निष्पातयन्ति, अमित्रं वाऽस्य भजन्ते

विश्वास-प्रस्तुतिः - 18

18 दुर्बलं तु न्यायवृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा

मूलम् - 18

18 दुर्बलं तु न्यायवृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति, अनुनिष्पतन्ति वा

विश्वास-प्रस्तुतिः - 19

19ab अवक्षेपेण हि सतां असतां प्रग्रहेण च ।
19chd अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः

मूलम् - 19

19ab अवक्षेपेण हि सतां असतां प्रग्रहेण च ।
19chd अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः

विश्वास-प्रस्तुतिः - 20

20ab उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।
20chd अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च

मूलम् - 20

20ab उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः ।
20chd अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च

विश्वास-प्रस्तुतिः - 21

21ab अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।
21chd अप्रदानैश्च देयानां अदेयानां च साधनैः

मूलम् - 21

21ab अकार्याणां च करणैः कार्याणां च प्रणाशनैः ।
21chd अप्रदानैश्च देयानां अदेयानां च साधनैः

विश्वास-प्रस्तुतिः - 22

22ab अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः ।
22chd अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः

मूलम् - 22

विश्वास-प्रस्तुतिः - 23

23ab अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः ।
23chd अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः

मूलम् - 23

23ab अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः ।
23chd अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः

विश्वास-प्रस्तुतिः - 24

24ab पातैः पुरुषकाराणां कर्मणां गुणदूषणैः ।
24chd उपघातैः प्रधानानां मान्यानां चावमाननैः

मूलम् - 24

24ab पातैः पुरुषकाराणां कर्मणां गुणदूषणैः ।
24chd उपघातैः प्रधानानां मान्यानां चावमाननैः

विश्वास-प्रस्तुतिः - 25

25ab विरोधनैश्च वृद्धानां वैषम्येणानृतेन च ।
25chd कृतस्याप्रतिकारेण स्थितस्याकरणेन च

मूलम् - 25

25ab विरोधनैश्च वृद्धानां वैषम्येणानृतेन च ।
25chd कृतस्याप्रतिकारेण स्थितस्याकरणेन च

विश्वास-प्रस्तुतिः - 26

26ab राज्ञः प्रमादालस्याभ्यां योगक्षेमवधेन वा ।
26chd प्रकृतीनां क्षयो लोभो वैराग्यं च उपजायते

मूलम् - 26

26ab राज्ञः प्रमादालस्याभ्यां योगक्षेमवधेन वा ।
26chd प्रकृतीनां क्षयो लोभो वैराग्यं च उपजायते

विश्वास-प्रस्तुतिः - 27

27ab क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम् ।
27chd विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम्

मूलम् - 27

विश्वास-प्रस्तुतिः - 28

28 तस्मात् प्रकृतीनां क्षयलोभविरागकारणानि न उत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत

मूलम् - 28

28 तस्मात् प्रकृतीनां क्षयलोभविरागकारणानि न उत्पादयेत्, उत्पन्नानि वा सद्यः प्रतिकुर्वीत

विश्वास-प्रस्तुतिः - 29

29 क्षीणा लुब्धा विरक्ता वा प्रकृतय इति

मूलम् - 29

29 क्षीणा लुब्धा विरक्ता वा प्रकृतय इति

विश्वास-प्रस्तुतिः - 30

30 क्षीणाः पीडन उच्छेदनभयात् सद्यः सन्धिं युद्धं निष्पतनं वा रोचयन्ते

मूलम् - 30

30 क्षीणाः पीडन उच्छेदनभयात् सद्यः सन्धिं युद्धं निष्पतनं वा रोचयन्ते

विश्वास-प्रस्तुतिः - 31

31 लुब्धा लोभेनासन्तुष्टाः पर उपजापं लिप्सन्ते

मूलम् - 31

31 लुब्धा लोभेनासन्तुष्टाः पर उपजापं लिप्सन्ते

विश्वास-प्रस्तुतिः - 32

32 विरक्ताः पराभियोगं अभ्युत्तिष्ठन्ते

मूलम् - 32

32 विरक्ताः पराभियोगं अभ्युत्तिष्ठन्ते

विश्वास-प्रस्तुतिः - 33

33 तासां हिरण्यधान्यक्षयः सर्व उपघाती कृच्छ्रप्रतीकारश्च, युग्यपुरुषक्षयो हिरण्यधान्यसाध्यः

मूलम् - 33

33 तासां हिरण्यधान्यक्षयः सर्व उपघाती कृच्छ्रप्रतीकारश्च, युग्यपुरुषक्षयो हिरण्यधान्यसाध्यः

विश्वास-प्रस्तुतिः - 34

34 लोभ ऐकदेशिको मुख्यायत्तः परार्थेषु शक्यः प्रतिहन्तुं आदातुं वा

मूलम् - 34

34 लोभ ऐकदेशिको मुख्यायत्तः परार्थेषु शक्यः प्रतिहन्तुं आदातुं वा

विश्वास-प्रस्तुतिः - 35

35 विरागः प्रधानावग्रहसाध्यः

मूलम् - 35

35 विरागः प्रधानावग्रहसाध्यः

विश्वास-प्रस्तुतिः - 36

36 निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषां, अनापत्सहाः तु

मूलम् - 36

36 निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषां, अनापत्सहाः तु

विश्वास-प्रस्तुतिः - 37

37 प्रकृतिमुख्यप्रग्रहैः तु बहुधा भिन्ना गुप्ता भवन्त्यापत्सहाश्च

मूलम् - 37

37 प्रकृतिमुख्यप्रग्रहैः तु बहुधा भिन्ना गुप्ता भवन्त्यापत्सहाश्च

विश्वास-प्रस्तुतिः - 38

38 सामवायिकानां अपि सन्धिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तैः सम्भूय यायात्

मूलम् - 38

38 सामवायिकानां अपि सन्धिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तैः सम्भूय यायात्

विश्वास-प्रस्तुतिः - 39

39 शक्तिमान् हि पार्ष्णिग्रहणे यात्रासाहाय्यदाने वा शक्तः, शुचिः सिद्धौ चासिद्धौ च यथास्थितकारी इति

मूलम् - 39

39 शक्तिमान् हि पार्ष्णिग्रहणे यात्रासाहाय्यदाने वा शक्तः, शुचिः सिद्धौ चासिद्धौ च यथास्थितकारी इति

विश्वास-प्रस्तुतिः - 40

40 तेषां ज्यायसा एकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः

मूलम् - 40

40 तेषां ज्यायसा एकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः

विश्वास-प्रस्तुतिः - 41

41 ज्यायसा ह्यवगृहीतश्चरति, समाभ्यां अतिसन्धानाधिक्ये वा

मूलम् - 41

41 ज्यायसा ह्यवगृहीतश्चरति, समाभ्यां अतिसन्धानाधिक्ये वा

विश्वास-प्रस्तुतिः - 42

42 तौ हि सुखौ भेदयितुं, दुष्टश्च एको द्वाभ्यां नियन्तुं भेद उपग्रहं च उपगन्तुं इति

मूलम् - 42

42 तौ हि सुखौ भेदयितुं, दुष्टश्च एको द्वाभ्यां नियन्तुं भेद उपग्रहं च उपगन्तुं इति

विश्वास-प्रस्तुतिः - 43

43 समेन एकेन द्वाभ्यां हीनाभ्यां वा इति द्वाभ्यां हीनाभ्यां श्रेयः

मूलम् - 43

43 समेन एकेन द्वाभ्यां हीनाभ्यां वा इति द्वाभ्यां हीनाभ्यां श्रेयः

विश्वास-प्रस्तुतिः - 44

44 तौ हि द्विकार्यसाधकौ वश्यौ च भवतः

मूलम् - 44

44 तौ हि द्विकार्यसाधकौ वश्यौ च भवतः

विश्वास-प्रस्तुतिः - 45

45ab कार्यसिद्धौ तु - कृतार्थाज् ज्यायसो गूढः सापदेशं अपस्रवेत् ।
45chd अशुचेः शुचिवृत्तात् तु प्रतीक्षेता विसर्जनात्

मूलम् - 45

विश्वास-प्रस्तुतिः - 46

46ab सत्त्राद् अपसरेद् यत्तः कलत्रं अपनीय वा ।
46chd समाद् अपि हि लब्धार्थाद् विश्वः तस्य भयं भवेत्

मूलम् - 46

46ab सत्त्राद् अपसरेद् यत्तः कलत्रं अपनीय वा ।
46chd समाद् अपि हि लब्धार्थाद् विश्वः तस्य भयं भवेत्

विश्वास-प्रस्तुतिः - 47

47ab ज्यायस्त्वे चापि लब्धार्थः समोऽपि परिकल्पते ।
47chd अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्तविकारिणी

मूलम् - 47

विश्वास-प्रस्तुतिः - 48

48ab विशिष्टाद् अल्पं अप्यंशं लब्ध्वा तुष्टमुखो व्रजेत् ।
48chd अनंशो वा ततोऽस्याङ्के प्रहृत्य द्विगुणं हरेत्

मूलम् - 48

विश्वास-प्रस्तुतिः - 49

49ab कृतार्थः तु स्वयं नेता विसृजेत् सामवायिकान् ।
49chd अपि जीयेत न जयेन् मण्डल इष्टः तथा भवेत् (इति)

मूलम् - 49