०४

विगृह्यासनं - सन्धायासनं - विगृह्ययानं - सन्धाययानं - सम्भूयप्रयाणम्

विश्वास-प्रस्तुतिः - 01

01 सन्धिविग्रहयोरासनं यानं च व्याख्यातम्

मूलम् - 01

01 सन्धिविग्रहयोरासनं यानं च व्याख्यातम्

विश्वास-प्रस्तुतिः - 02

02 स्थानं आसनं उपेक्षणं च इत्यासनपर्यायाः

मूलम् - 02

02 स्थानं आसनं उपेक्षणं च इत्यासनपर्यायाः

विश्वास-प्रस्तुतिः - 03

03 विशेषः तु - गुण एकदेशे स्थानं, स्ववृद्धिप्राप्त्य्ऽर्थं आसनं, उपायानां अप्रयोग उपेक्षणम्

मूलम् - 03

03 विशेषः तु - गुण एकदेशे स्थानं, स्ववृद्धिप्राप्त्य्ऽर्थं आसनं, उपायानां अप्रयोग उपेक्षणम्

विश्वास-प्रस्तुतिः - 04

04 अतिसन्धानकामयोररिविजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यासनं सन्धाय वा

मूलम् - 04

04 अतिसन्धानकामयोररिविजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यासनं सन्धाय वा

विश्वास-प्रस्तुतिः - 05

05 यदा वा पश्येत् स्वदण्डैर्मित्राटवीदण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे इति तदा कृतबाह्याभ्यन्तरकृत्यो विगृह्यासीत

मूलम् - 05

विश्वास-प्रस्तुतिः - 06

06 यदा वा पश्येत् उत्साहयुक्ता मे प्रकृतयः संहता विवृद्धाः स्वकर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति इति तदा विगृह्यासीत

मूलम् - 06

विश्वास-प्रस्तुतिः - 07

07a यदा वा पश्येत् परस्यापचरिताः क्षीणा लुब्धाः स्वचक्रस्तेनाटवीव्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति, सम्पन्ना मे वार्त्ता, विपन्ना परस्य, तस्य प्रकृतयो दुर्भिक्ष उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता, सम्पन्ना परस्य, -
07b तं मे प्रकृतयो न गमिष्यन्ति, विगृह्य चास्य धान्यपशुहिरण्यान्याहरिष्यामि, स्वपण्य उपघातीनि वा परपण्यानि निवर्तयिष्यामि, -
07ch परवणिक्पथाद् वा सरवन्ति मां एष्यन्ति विगृहीते, न इतरं, दूष्यामित्राटवीनिग्रहं वा विगृहीतो न करिष्यति, तैरेव वा विग्रहं प्राप्स्यति, -
07d मित्रं मे मित्रभाव्यभिप्रयातो बह्व्ऽल्पकालं तनुक्षयव्ययं अर्थं प्राप्स्यति, गुणवतीं आदेयां वा भूमिं, -
07e सर्वसन्दोहेन वा मां अनादृत्य प्रयातुकामः कथं न यायाद् इति परवृद्धिप्रतिघातार्थं प्रतापार्थं च विगृह्यासीत

मूलम् - 07

विश्वास-प्रस्तुतिः - 08

08 तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः

मूलम् - 08

08 तं एव हि प्रत्यावृत्तो ग्रसते इत्याचार्याः

विश्वास-प्रस्तुतिः - 09

09 न इति कौटिल्यः

मूलम् - 09

09 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 10

10 कर्शनमात्रं अस्य कुर्याद् अव्यसनिनः, परवृद्ध्या तु वृद्धः समुच्छेदनम्

मूलम् - 10

10 कर्शनमात्रं अस्य कुर्याद् अव्यसनिनः, परवृद्ध्या तु वृद्धः समुच्छेदनम्

विश्वास-प्रस्तुतिः - 11

11 एवं परस्य यातव्योऽस्मै साहाय्यं अविनष्टः प्रयच्छेत्

मूलम् - 11

11 एवं परस्य यातव्योऽस्मै साहाय्यं अविनष्टः प्रयच्छेत्

विश्वास-प्रस्तुतिः - 12

12 तस्मात् सर्वसन्दोहप्रकृतं विगृह्यासीत

मूलम् - 12

12 तस्मात् सर्वसन्दोहप्रकृतं विगृह्यासीत

विश्वास-प्रस्तुतिः - 13

13 विगृह्यासनहेतुप्रातिलोम्ये सन्धायासीत

मूलम् - 13

13 विगृह्यासनहेतुप्रातिलोम्ये सन्धायासीत

विश्वास-प्रस्तुतिः - 14

14 विगृह्यासनहेतुभिरभ्युच्चितः सर्वसन्दोहवर्जं विगृह्य यायात्

मूलम् - 14

14 विगृह्यासनहेतुभिरभ्युच्चितः सर्वसन्दोहवर्जं विगृह्य यायात्

विश्वास-प्रस्तुतिः - 15

15 यदा वा पश्येत् व्यसनी परः, प्रकृतिव्यसनं वाऽस्य शीषप्रकृतिभिरप्रतिकार्यं, स्वचक्रपीडिता विरक्ता वाऽस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद् वा भिन्नाः शक्या लोभयितुं, अग्न्य्।उदकव्याधिमरकदुर्भिक्षनिमित्तं क्षीणयुग्यपुरुषनिचयरक्षाविधानः परः इति तदा विगृह्य यायात्

मूलम् - 15

विश्वास-प्रस्तुतिः - 16

16 यदा वा पश्येत् मित्रं आक्रन्दश्च मे शूरवृद्धानुरक्तप्रकृतिः, विपरीतप्रकृतिः परः पार्ष्णिग्राहश्चासारश्च, शक्ष्यामि मित्रेणासारं आक्रन्देन पार्ष्णिग्राहं वा विगृह्य यातुम् इति तदा विगृह्य यायात्

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17 यदा वा फलं एकहार्यं अल्पकालं पश्येत् तदा पार्ष्णिग्राहासाराभ्यां विगृह्य यायात्

मूलम् - 17

17 यदा वा फलं एकहार्यं अल्पकालं पश्येत् तदा पार्ष्णिग्राहासाराभ्यां विगृह्य यायात्

विश्वास-प्रस्तुतिः - 18

18 विपर्यये सन्धाय यायात्

मूलम् - 18

18 विपर्यये सन्धाय यायात्

विश्वास-प्रस्तुतिः - 19

19 यदा वा पश्येत् न शक्यं एकेन यातुं अवश्यं च यातव्यम् इति तदा समहीनज्यायोभिः सामवायिकैः सम्भूय यायाद्, एकत्र निर्दिष्टेनांशेन, अनेकत्रानिर्दिष्टेनांशेन

मूलम् - 19

विश्वास-प्रस्तुतिः - 20

20 तेषां असमवाये दण्डं अन्यतमस्मान्निविष्टांशेन याचेत

मूलम् - 20

20 तेषां असमवाये दण्डं अन्यतमस्मान्निविष्टांशेन याचेत

विश्वास-प्रस्तुतिः - 21

21 सम्भूयाभिगमनेन वा निर्विश्येत, ध्रुवे लाभे निर्दिष्टेनांशेन, अध्रुवे लाभांशेन

मूलम् - 21

21 सम्भूयाभिगमनेन वा निर्विश्येत, ध्रुवे लाभे निर्दिष्टेनांशेन, अध्रुवे लाभांशेन

विश्वास-प्रस्तुतिः - 22

22ab अंशो दण्डसमः पूर्वः प्रयाससम उत्तमः ।
22chd विलोपो वा यथालाभं प्रक्षेपसम एव वा (इति)

मूलम् - 22