समहीनज्यायसां गुणाभिनिवेशः - हीनसन्धयः
विश्वास-प्रस्तुतिः - 01
01 विजिगीषुः शक्त्य्ऽपेक्षः षाड्गुण्यं उपयुञ्जीत
मूलम् - 01
01 विजिगीषुः शक्त्य्ऽपेक्षः षाड्गुण्यं उपयुञ्जीत
विश्वास-प्रस्तुतिः - 02
02 समज्यायोभ्यां सन्धीयेत, हीनेन विगृह्णीयात्
मूलम् - 02
02 समज्यायोभ्यां सन्धीयेत, हीनेन विगृह्णीयात्
विश्वास-प्रस्तुतिः - 03
03 विगृहीतो हि ज्यायसा हस्तिना पादयुद्धं इवाभ्युपैति
मूलम् - 03
03 विगृहीतो हि ज्यायसा हस्तिना पादयुद्धं इवाभ्युपैति
विश्वास-प्रस्तुतिः - 04
04 समेन चामं पात्रं आमेनाहतं इव उभयतः क्षयं करोति
मूलम् - 04
04 समेन चामं पात्रं आमेनाहतं इव उभयतः क्षयं करोति
विश्वास-प्रस्तुतिः - 05
05 कुम्भेन इवाश्मा हीनेन एकान्तसिद्धिं अवाप्नोति
मूलम् - 05
05 कुम्भेन इवाश्मा हीनेन एकान्तसिद्धिं अवाप्नोति
विश्वास-प्रस्तुतिः - 06
06 ज्यायांश्चेन्न सन्धिं इच्छेद् दण्ड उपनतवृत्तं आबलीयसं वा योगं आतिष्ठेत्
मूलम् - 06
06 ज्यायांश्चेन्न सन्धिं इच्छेद् दण्ड उपनतवृत्तं आबलीयसं वा योगं आतिष्ठेत्
विश्वास-प्रस्तुतिः - 07
07 समश्चेन्न सन्धिं इच्छेद् यावन्मात्रं अपकुर्यात् तावन्मात्रं अस्य प्रत्यपकुर्यात्
मूलम् - 07
07 समश्चेन्न सन्धिं इच्छेद् यावन्मात्रं अपकुर्यात् तावन्मात्रं अस्य प्रत्यपकुर्यात्
विश्वास-प्रस्तुतिः - 08
08 तेजो हि सन्धानकारणम्
मूलम् - 08
08 तेजो हि सन्धानकारणम्
विश्वास-प्रस्तुतिः - 09
09 नातप्तं लोहं लोहेन सन्धत्त इति
मूलम् - 09
09 नातप्तं लोहं लोहेन सन्धत्त इति
विश्वास-प्रस्तुतिः - 10
10 हीनश्चेत् सर्वत्रानुप्रणतः तिष्ठेत् सन्धिं उपेयात्
मूलम् - 10
10 हीनश्चेत् सर्वत्रानुप्रणतः तिष्ठेत् सन्धिं उपेयात्
विश्वास-प्रस्तुतिः - 11
11 आरण्योऽग्निरिव हि दुःखामर्षजं तेजो विक्रमयति
मूलम् - 11
11 आरण्योऽग्निरिव हि दुःखामर्षजं तेजो विक्रमयति
विश्वास-प्रस्तुतिः - 12
12 मण्डलस्य चानुग्राह्यो भवति
मूलम् - 12
12 मण्डलस्य चानुग्राह्यो भवति
विश्वास-प्रस्तुतिः - 13
13 संहितश्चेत् परप्रकृतयो लुब्धक्षीणापचरिताः प्रत्यादानभयाद् वा न उपगच्छन्ति इति पश्येद्द् हीनोऽपि विगृह्णीयात्
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 विगृहीतश्चेत् परप्रकृतयो लुब्धक्षीणापचरिता विग्रह उद्विग्ना वा मां न उपगच्छन्ति इति पश्येज् ज्यायान् अपि सन्धीयेत, विग्रह उद्वेगं वा शमयेत्
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 व्यसनयौगपद्येऽपि गुरुव्यसनोऽस्मि, लघुव्यसनः परः सुखेन प्रतिकृत्य व्यसनं आत्मनोऽभियुञ्ज्याद् इति पश्येज् ज्यायान् अपि सन्धीयेत
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 सन्धिविग्रहयोश्चेत् परकर्शनं आत्म उपचयं वा नाभिपश्येज् ज्यायान् अप्यासीत
मूलम् - 16
16 सन्धिविग्रहयोश्चेत् परकर्शनं आत्म उपचयं वा नाभिपश्येज् ज्यायान् अप्यासीत
विश्वास-प्रस्तुतिः - 17
17 परव्यसनं अप्रतिकार्यं चेत् पश्येद्द् हीनोऽप्यभियायात्
मूलम् - 17
17 परव्यसनं अप्रतिकार्यं चेत् पश्येद्द् हीनोऽप्यभियायात्
विश्वास-प्रस्तुतिः - 18
18 अप्रतिकार्यासन्नव्यसनो वा ज्यायान् अपि संश्रयेत
मूलम् - 18
18 अप्रतिकार्यासन्नव्यसनो वा ज्यायान् अपि संश्रयेत
विश्वास-प्रस्तुतिः - 19
19 सन्धिना एकतो विग्रहेण एकतश्चेत् कार्यसिद्धिं पश्येज् ज्यायान् अपि द्वैधीभूतः तिष्ठेत्
मूलम् - 19
19 सन्धिना एकतो विग्रहेण एकतश्चेत् कार्यसिद्धिं पश्येज् ज्यायान् अपि द्वैधीभूतः तिष्ठेत्
विश्वास-प्रस्तुतिः - 20
20 एवं समस्य षाड्गुण्य उपयोगः
मूलम् - 20
20 एवं समस्य षाड्गुण्य उपयोगः
विश्वास-प्रस्तुतिः - 21
21 तत्र तु प्रतिविशेषः
मूलम् - 21
21 तत्र तु प्रतिविशेषः
विश्वास-प्रस्तुतिः - 22
22ab प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताऽबलः ।
22chd सन्धिना उपनमेत् तूर्णं कोशदण्डात्मभूमिभिः
मूलम् - 22
22ab प्रवृत्तचक्रेणाक्रान्तो राज्ञा बलवताऽबलः ।
22chd सन्धिना उपनमेत् तूर्णं कोशदण्डात्मभूमिभिः
विश्वास-प्रस्तुतिः - 23
23ab स्वयं सङ्ख्यातदण्डेन दण्डस्य विभवेन वा ।
23chd उपस्थातव्यं इत्येष सन्धिरात्मामिषो मतः
मूलम् - 23
23ab स्वयं सङ्ख्यातदण्डेन दण्डस्य विभवेन वा ।
23chd उपस्थातव्यं इत्येष सन्धिरात्मामिषो मतः
विश्वास-प्रस्तुतिः - 24
24ab सेनापतिकुमाराभ्यां उपस्थातव्यं इत्ययम् ।
24chd पुरुषान्तरसन्धिः स्यान्नात्मना इत्यात्मरक्षणः
मूलम् - 24
24ab सेनापतिकुमाराभ्यां उपस्थातव्यं इत्ययम् ।
24chd पुरुषान्तरसन्धिः स्यान्नात्मना इत्यात्मरक्षणः
विश्वास-प्रस्तुतिः - 25
25ab एकेनान्यत्र यातव्यं स्वयं दण्डेन वा इत्ययम् ।
25chd अदृष्टपुरुषः सन्धिर्दण्डमुख्यात्मरक्षणः
मूलम् - 25
25ab एकेनान्यत्र यातव्यं स्वयं दण्डेन वा इत्ययम् ।
25chd अदृष्टपुरुषः सन्धिर्दण्डमुख्यात्मरक्षणः
विश्वास-प्रस्तुतिः - 26
26ab मुख्यस्त्रीबन्धनं कुर्यात् पूर्वयोः पश्चिमे त्वरिम् ।
26chd साधयेद् गूढं इत्येते दण्ड उपनतसन्धयः
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27ab कोशदानेन शेषाणां प्रकृतीनां विमोक्षणम् ।
27chd परिक्रयो भवेत् सन्धिः स एव च यथासुखम्
मूलम् - 27
27ab कोशदानेन शेषाणां प्रकृतीनां विमोक्षणम् ।
27chd परिक्रयो भवेत् सन्धिः स एव च यथासुखम्
विश्वास-प्रस्तुतिः - 28
28ab स्कन्ध उपनेयो बहुधा ज्ञेयः सन्धिरुपग्रहः ।
28chd निरुद्धो देशकालाभ्यां अत्ययः स्याद् उपग्रहः
मूलम् - 28
28ab स्कन्ध उपनेयो बहुधा ज्ञेयः सन्धिरुपग्रहः ।
28chd निरुद्धो देशकालाभ्यां अत्ययः स्याद् उपग्रहः
विश्वास-प्रस्तुतिः - 29
29ab विषह्यदानाद् आयत्यां क्षमः स्त्रीबन्धनाद् अपि ।
29chd सुवर्णसन्धिर्विश्वासाद् एकीभावगतो भवेत्
मूलम् - 29
29ab विषह्यदानाद् आयत्यां क्षमः स्त्रीबन्धनाद् अपि ।
29chd सुवर्णसन्धिर्विश्वासाद् एकीभावगतो भवेत्
विश्वास-प्रस्तुतिः - 30
30ab विपरीतः कपालः स्याद् अत्यादानाभिभाषितः ।
30chd पूर्वयोः प्रणयेत् कुप्यं हस्त्य्ऽश्वं वा गरान्वितम्
मूलम् - 30

विश्वास-प्रस्तुतिः - 31
31ab तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् ।
31chd तिष्ठेच्चतुर्थ इत्येते कोश उपनतसन्धयः
मूलम् - 31
31ab तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् ।
31chd तिष्ठेच्चतुर्थ इत्येते कोश उपनतसन्धयः
विश्वास-प्रस्तुतिः - 32
32ab भूम्य्।एकदेशत्यागेन शेषप्रकृतिरक्षणम् ।
32chd आदिष्टसन्धिः तत्र इष्टो गूढस्तेन उपघातिनः
मूलम् - 32
32ab भूम्य्।एकदेशत्यागेन शेषप्रकृतिरक्षणम् ।
32chd आदिष्टसन्धिः तत्र इष्टो गूढस्तेन उपघातिनः
विश्वास-प्रस्तुतिः - 33
33ab भूमीनां आत्तसाराणां मूलवर्जं प्रणामनम् ।
33chd उच्छिन्नसन्धिः तत्र इष्टः परव्यसनकाङ्क्षिणः
मूलम् - 33
33ab भूमीनां आत्तसाराणां मूलवर्जं प्रणामनम् ।
33chd उच्छिन्नसन्धिः तत्र इष्टः परव्यसनकाङ्क्षिणः
विश्वास-प्रस्तुतिः - 34
34ab फलदानेन भूमीनां मोक्षणं स्याद् अवक्रयः ।
34chd फलातिमुक्तो भूमिभ्यः सन्धिः स परिदूषणः
मूलम् - 34
34ab फलदानेन भूमीनां मोक्षणं स्याद् अवक्रयः ।
34chd फलातिमुक्तो भूमिभ्यः सन्धिः स परिदूषणः
विश्वास-प्रस्तुतिः - 35
35ab कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसम् ।
35chd आदाय फलं इत्येते देश उपनतसन्धयः
मूलम् - 35
35ab कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसम् ।
35chd आदाय फलं इत्येते देश उपनतसन्धयः
विश्वास-प्रस्तुतिः - 36
36ab स्वकार्याणां वशेन एते देशे काले च भाषिताः ।
36chd आबलीयसिकाः कार्याः त्रिविधा हीनसन्धयः (इति)
मूलम् - 36