संश्रयवृत्ति
विश्वास-प्रस्तुतिः - 01
01 सन्धिविग्रहयोः तुल्यायां वृद्धौ सन्धिं उपेयात्
मूलम् - 01
01 सन्धिविग्रहयोः तुल्यायां वृद्धौ सन्धिं उपेयात्
विश्वास-प्रस्तुतिः - 02
02 विग्रहे हि क्षयव्ययप्रवासप्रत्यवाया भवन्ति
मूलम् - 02
02 विग्रहे हि क्षयव्ययप्रवासप्रत्यवाया भवन्ति
विश्वास-प्रस्तुतिः - 03
03 तेनासनयानयोरासनं व्याख्यातम्
मूलम् - 03
03 तेनासनयानयोरासनं व्याख्यातम्
विश्वास-प्रस्तुतिः - 04
04 द्वैधीभावसंश्रययोर्द्वैधीभावं गच्छेत्
मूलम् - 04
04 द्वैधीभावसंश्रययोर्द्वैधीभावं गच्छेत्
विश्वास-प्रस्तुतिः - 05
05 द्वैधीभूतो हि स्वकर्मप्रधान आत्मन एव उपकरोति, संश्रितः तु परस्य उपकरोति, नात्मनः
मूलम् - 05
05 द्वैधीभूतो हि स्वकर्मप्रधान आत्मन एव उपकरोति, संश्रितः तु परस्य उपकरोति, नात्मनः
विश्वास-प्रस्तुतिः - 06
06 यद्बलः सामन्तः तद्विशिष्टबलं आश्रयेत्
मूलम् - 06
06 यद्बलः सामन्तः तद्विशिष्टबलं आश्रयेत्
विश्वास-प्रस्तुतिः - 07
07 तद्विशिष्टबलाभावे तं एवाश्रितः कोशदण्डभूमीनां अन्यतमेनास्य उपकर्तुं अदृष्टः प्रयतेत
मूलम् - 07
07 तद्विशिष्टबलाभावे तं एवाश्रितः कोशदण्डभूमीनां अन्यतमेनास्य उपकर्तुं अदृष्टः प्रयतेत
विश्वास-प्रस्तुतिः - 08
08 महादोषो हि विशिष्टबलसमागमो राज्ञां, अन्यत्रारिविगृहीतात्
मूलम् - 08
08 महादोषो हि विशिष्टबलसमागमो राज्ञां, अन्यत्रारिविगृहीतात्
विश्वास-प्रस्तुतिः - 09
09 अशक्ये दण्ड उपनतवद् वर्तेत
मूलम् - 09
09 अशक्ये दण्ड उपनतवद् वर्तेत
विश्वास-प्रस्तुतिः - 10
10 यदा चास्य प्राणहरं व्याधिं अन्तःकोपं शत्रुवृद्धिं मित्रव्यसनं उपस्थितं वा तन्निमित्तां आत्मनश्च वृद्धिं पश्येत् तदा सम्भाव्यव्याधिधर्मकार्यापदेशेनापयायात्
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 स्वविषयस्थो वा न उपगच्छेत्
मूलम् - 11
11 स्वविषयस्थो वा न उपगच्छेत्
विश्वास-प्रस्तुतिः - 12
12 आसन्नो वाऽस्य च्छिद्रेषु प्रहरेत्
मूलम् - 12
12 आसन्नो वाऽस्य च्छिद्रेषु प्रहरेत्
विश्वास-प्रस्तुतिः - 13
13 बलीयसोर्वा मध्यगतः त्राणसमर्थं आश्रयेत, यस्य वाऽन्तर्धिः स्यात्, उभौ वा
मूलम् - 13
13 बलीयसोर्वा मध्यगतः त्राणसमर्थं आश्रयेत, यस्य वाऽन्तर्धिः स्यात्, उभौ वा
विश्वास-प्रस्तुतिः - 14
14 कपालसंश्रयः तिष्ठेत्, मूलहरं इतरस्य इतरं अपदिशन्
मूलम् - 14
14 कपालसंश्रयः तिष्ठेत्, मूलहरं इतरस्य इतरं अपदिशन्
विश्वास-प्रस्तुतिः - 15
15 भेदं उभयोर्वा परस्परापदेशं प्रयुञ्जीत, भिन्नयोरुपांशुदण्डम्
मूलम् - 15
15 भेदं उभयोर्वा परस्परापदेशं प्रयुञ्जीत, भिन्नयोरुपांशुदण्डम्
विश्वास-प्रस्तुतिः - 16
16 पार्श्वस्थो वा बलस्थयोरासन्नभयात् प्रतिकुर्वीत
मूलम् - 16
16 पार्श्वस्थो वा बलस्थयोरासन्नभयात् प्रतिकुर्वीत
विश्वास-प्रस्तुतिः - 17
17 दुर्गापाश्रयो वा द्वैधीभूतः तिष्ठेत्
मूलम् - 17
17 दुर्गापाश्रयो वा द्वैधीभूतः तिष्ठेत्
विश्वास-प्रस्तुतिः - 18
18 सन्धिविग्रहक्रमहेतुभिर्वा चेष्टेत
मूलम् - 18
18 सन्धिविग्रहक्रमहेतुभिर्वा चेष्टेत
विश्वास-प्रस्तुतिः - 19
19 दूष्यामित्राटविकान् उभयोरुपगृह्णीयात्
मूलम् - 19
19 दूष्यामित्राटविकान् उभयोरुपगृह्णीयात्
विश्वास-प्रस्तुतिः - 20
20 एतयोरन्यतरं गच्छंः तैरेवान्यतरस्य व्यसने प्रहरेत्
मूलम् - 20
20 एतयोरन्यतरं गच्छंः तैरेवान्यतरस्य व्यसने प्रहरेत्
विश्वास-प्रस्तुतिः - 21
21 द्वाभ्यां उपहतो वा मण्डलापाश्रयः तिष्ठेत्, मध्यमं उदासीनं वा संश्रयेत
मूलम् - 21
21 द्वाभ्यां उपहतो वा मण्डलापाश्रयः तिष्ठेत्, मध्यमं उदासीनं वा संश्रयेत
विश्वास-प्रस्तुतिः - 22
22 तेन सह एकं उपगृह्य इतरं उच्छिन्द्याद्, उभौ वा
मूलम् - 22
22 तेन सह एकं उपगृह्य इतरं उच्छिन्द्याद्, उभौ वा
विश्वास-प्रस्तुतिः - 23
23 द्वाभ्यां उच्छिन्नो वा मध्यम उदासीनयोः तत्पक्षीयाणां वा राज्ञां न्यायवृत्तिं आश्रयेत
मूलम् - 23
23 द्वाभ्यां उच्छिन्नो वा मध्यम उदासीनयोः तत्पक्षीयाणां वा राज्ञां न्यायवृत्तिं आश्रयेत
विश्वास-प्रस्तुतिः - 24
24 तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनं, यत्रस्थो वा शक्नुयाद् आत्मानं उद्धर्तुं, यत्र वा पूर्वपुरुष उचिता गतिरासन्नः सम्बन्धो वा, मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25ab प्रियो यस्य भवेद् यो वा प्रियोऽस्य कतरः तयोः ।
25chd प्रियो यस्य स तं गच्छेद् इत्याश्रयगतिः परा (इति)
मूलम् - 25