षाड्गुण्यसमुद्देशः - क्षयस्थानवृद्धिनिश्चयः
विश्वास-प्रस्तुतिः - 01
01 षाड्गुण्यस्य प्रकृतिमण्डलं योनिः
मूलम् - 01
01 षाड्गुण्यस्य प्रकृतिमण्डलं योनिः
विश्वास-प्रस्तुतिः - 02
02 सन्धिविग्रहासनयानसंश्रयद्वैधीभावाः षाड्गुण्यम् इत्याचार्याः
मूलम् - 02
02 सन्धिविग्रहासनयानसंश्रयद्वैधीभावाः षाड्गुण्यम् इत्याचार्याः
विश्वास-प्रस्तुतिः - 03
03 द्वैगुण्यम् इति वातव्याधिः
मूलम् - 03
03 द्वैगुण्यम् इति वातव्याधिः
विश्वास-प्रस्तुतिः - 04
04 सन्धिविग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति
मूलम् - 04
04 सन्धिविग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते इति
विश्वास-प्रस्तुतिः - 05
05 षाड्गुण्यं एव एतद् अवस्थाभेदाद् इति कौटिल्यः
मूलम् - 05
05 षाड्गुण्यं एव एतद् अवस्थाभेदाद् इति कौटिल्यः
विश्वास-प्रस्तुतिः - 06
06 तत्र पणबन्धः सन्धिः
मूलम् - 06
06 तत्र पणबन्धः सन्धिः
विश्वास-प्रस्तुतिः - 07
07 अपकारो विग्रहः
मूलम् - 07
07 अपकारो विग्रहः
विश्वास-प्रस्तुतिः - 08
08 उपेक्षणं आसनम्
मूलम् - 08
08 उपेक्षणं आसनम्
विश्वास-प्रस्तुतिः - 09
09 अभ्युच्चयो यानम्
मूलम् - 09
09 अभ्युच्चयो यानम्
विश्वास-प्रस्तुतिः - 10
10 परार्पणं संश्रयः
मूलम् - 10
10 परार्पणं संश्रयः
विश्वास-प्रस्तुतिः - 11
11 सन्धिविग्रह उपादानं द्वैधीभावः
मूलम् - 11
11 सन्धिविग्रह उपादानं द्वैधीभावः
विश्वास-प्रस्तुतिः - 12
12 इति षड्गुणाः
मूलम् - 12
12 इति षड्गुणाः
विश्वास-प्रस्तुतिः - 13
13 परस्माद्द् हीयमानः सन्दधीत
मूलम् - 13
13 परस्माद्द् हीयमानः सन्दधीत
विश्वास-प्रस्तुतिः - 14
14 अभ्युच्चीयमानो विगृह्णीयात्
मूलम् - 14
14 अभ्युच्चीयमानो विगृह्णीयात्
विश्वास-प्रस्तुतिः - 15
15 न मां परो नाहं परं उपहन्तुं शक्तः इत्यासीत
मूलम् - 15
15 न मां परो नाहं परं उपहन्तुं शक्तः इत्यासीत
विश्वास-प्रस्तुतिः - 16
16 गुणातिशययुक्तो यायात्
मूलम् - 16
16 गुणातिशययुक्तो यायात्
विश्वास-प्रस्तुतिः - 17
17 शक्तिहीनः संश्रयेत
मूलम् - 17
17 शक्तिहीनः संश्रयेत
विश्वास-प्रस्तुतिः - 18
18 सहायसाध्ये कार्ये द्वैधीभावं गच्छेत्
मूलम् - 18
18 सहायसाध्ये कार्ये द्वैधीभावं गच्छेत्
विश्वास-प्रस्तुतिः - 19
19 इति गुणावस्थापनम्
मूलम् - 19
19 इति गुणावस्थापनम्
विश्वास-प्रस्तुतिः - 20
20 तेषां यस्मिन् वा गुणे स्थितः पश्येत् इहस्थः शक्ष्यामि दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं, परस्य च एतानि कर्माण्युपहन्तुम् इति तं आतिष्ठेत्
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21 सा वृद्धिः
मूलम् - 21
21 सा वृद्धिः
विश्वास-प्रस्तुतिः - 22
22 आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्।उदयतरा वा भविष्यति, विपरीता परस्य इति ज्ञात्वा परवृद्धिं उपेक्षेत
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 तुल्यकालफल उदयायां वा वृद्धौ सन्धिं उपेयात्
मूलम् - 23
23 तुल्यकालफल उदयायां वा वृद्धौ सन्धिं उपेयात्
विश्वास-प्रस्तुतिः - 24
24 यस्मिन् वा गुणे स्थितः स्वकर्मणां उपघातं पश्येन्न इतरस्य तस्मिन्न तिष्ठेत्
मूलम् - 24
24 यस्मिन् वा गुणे स्थितः स्वकर्मणां उपघातं पश्येन्न इतरस्य तस्मिन्न तिष्ठेत्
विश्वास-प्रस्तुतिः - 25
25 एष क्षयः
मूलम् - 25
25 एष क्षयः
विश्वास-प्रस्तुतिः - 26
26 चिरतरेणाल्पतरं वृद्ध्य्।उदयतरं वा क्षेष्ये, विपरीतं परः इति ज्ञात्वा क्षयं उपेक्षेत
मूलम् - 26
26 चिरतरेणाल्पतरं वृद्ध्य्।उदयतरं वा क्षेष्ये, विपरीतं परः इति ज्ञात्वा क्षयं उपेक्षेत
विश्वास-प्रस्तुतिः - 27
27 तुल्यकालफल उदये वा क्षये सन्धिं उपेयात्
मूलम् - 27
27 तुल्यकालफल उदये वा क्षये सन्धिं उपेयात्
विश्वास-प्रस्तुतिः - 28
28 यस्मिन् वा गुणे स्थितः स्वकर्मवृद्धिं क्षयं वा नाभिपश्येद् एतत्स्थानम्
मूलम् - 28
28 यस्मिन् वा गुणे स्थितः स्वकर्मवृद्धिं क्षयं वा नाभिपश्येद् एतत्स्थानम्
विश्वास-प्रस्तुतिः - 29
29 ह्रस्वतरं वृद्ध्य्।उदयतरं वा स्थास्यामि, विपरीतं परः इति ज्ञात्वा स्थानं उपेक्षेत
मूलम् - 29
29 ह्रस्वतरं वृद्ध्य्।उदयतरं वा स्थास्यामि, विपरीतं परः इति ज्ञात्वा स्थानं उपेक्षेत
विश्वास-प्रस्तुतिः - 30
30 तुल्यकालफल उदये वा स्थाने सन्धिं उपेयाद् इत्याचार्याः
मूलम् - 30
30 तुल्यकालफल उदये वा स्थाने सन्धिं उपेयाद् इत्याचार्याः
विश्वास-प्रस्तुतिः - 31
31 न एतद् विभाषितं इति कौटिल्यः
मूलम् - 31
31 न एतद् विभाषितं इति कौटिल्यः
विश्वास-प्रस्तुतिः - 32
32a यदि वा पश्येत् सन्धौ स्थितो महाफलैः स्वकर्मभिः परकर्माण्युपहनिष्यामि, महाफलानि वा स्वकर्माण्युपभोक्ष्ये, परकर्माणि वा, सन्धिविश्वासेन वा योग उपनिषत्प्रणिधिभिः परकर्माण्युपहनिष्यामि, सुखं वा सानुग्रहपरिहारसौकर्यं फललाभभूयस्त्वेन स्वकर्मणां परकर्मयोगावहं जनं आस्रावयिष्यामि -
32b बलिनाऽतिमात्रेण वा संहितः परः स्वकर्म उपघातं प्राप्स्यति, येन वा विगृहीतो मयासन्धत्ते तेनास्य विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्द्वेषिणो जनपदं पीडयिष्यति -
32ch पर उपहतो वाऽस्य जनपदो मां आगमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्नकर्मारम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत -
32d परतः प्रवृत्तकर्मारम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रुप्रतिबद्धं वा शत्रुणा सन्धिं कृत्वा मण्डलं भेत्स्यामि -
32e भिन्नं अवाप्स्यामि, दण्डानुग्रहेण वा शत्रुं उपगृह्य मण्डललिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं तेन एव घातयिष्यामि इति सन्धिना वृद्धिं आतिष्ठेत्
मूलम् - 32

विश्वास-प्रस्तुतिः - 33
33a यदि वा पश्येत् आयुधीयप्रायः श्रेणीप्रायो वा मे जनपदः शैलवननदीदुर्ग एकद्वारारक्षो वा शक्ष्यति पराभियोगं प्रतिहन्तुं, विषयान्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि परकर्माण्युपहन्तुं -
33b व्यसनपीड उपहत उत्साहो वा परः सम्प्राप्तकर्म उपघातकालः, विगृहीतस्यान्यतो वा शक्ष्यामि जनपदं अपवाहयितुम् इति विग्रहे स्थितो वृद्धिं आतिष्ठेत्
मूलम् - 33

विश्वास-प्रस्तुतिः - 34
34 यदि वा मन्येत न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म उपघाती वा, व्यसनं अस्य, श्ववराहयोरिव कलहे वा, स्वकर्मानुष्ठानपरो वा वर्धिष्ये इत्यासनेन वृद्धिं आतिष्ठेत्
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35 यदि वा मन्येत यानसाध्यः कर्म उपघातः शत्रोः, प्रतिविहितस्वकर्मारक्षश्चास्मि इति यानेन वृद्धिं आतिष्ठेत्
मूलम् - 35

विश्वास-प्रस्तुतिः - 36
36 यदि वा मन्येत नास्मि शक्तः परकर्माण्युपहन्तुं, स्वकर्म उपघातं वा त्रातुम् इति, बलवन्तं आश्रितः स्वकर्मानुष्ठानेन क्षयात् स्थानं स्थानाद् वृद्धिं चाकाङ्क्षेत
मूलम् - 36

विश्वास-प्रस्तुतिः - 37
37 यदि वा मन्येत सन्धिना एकतः स्वकर्माणि प्रवर्तयिष्यामि, विग्रहेण एकतः परकर्माण्युपहनिष्यामि इति द्वैधीभावेन वृद्धिं आतिष्ठेत्
मूलम् - 37

विश्वास-प्रस्तुतिः - 38
38ab एवं षड्भिर्गुणैरेतैः स्थितः प्रकृतिमण्डले ।
38chd पर्येषेत क्षयात् स्थानं स्थानाद् वृद्धिं च कर्मसु (इति)
मूलम् - 38