शमव्यायामिकम्
विश्वास-प्रस्तुतिः - 01
01 शमव्यायामौ योगक्षेमयोर्योनिः
मूलम् - 01
01 शमव्यायामौ योगक्षेमयोर्योनिः
विश्वास-प्रस्तुतिः - 02
02 कर्मारम्भाणां योगाराधनो व्यायामः
मूलम् - 02
02 कर्मारम्भाणां योगाराधनो व्यायामः
विश्वास-प्रस्तुतिः - 03
03 कर्मफल उपभोगानां क्षेमाराधनः शमः
मूलम् - 03
03 कर्मफल उपभोगानां क्षेमाराधनः शमः
विश्वास-प्रस्तुतिः - 04
04 शमव्यायामयोर्योनिः षाड्गुण्यम्
मूलम् - 04
04 शमव्यायामयोर्योनिः षाड्गुण्यम्
विश्वास-प्रस्तुतिः - 05
05 क्षयः स्थानं वृद्धिरित्युदयाः तस्य
मूलम् - 05
05 क्षयः स्थानं वृद्धिरित्युदयाः तस्य
विश्वास-प्रस्तुतिः - 06
06 मानुषं नयापनयौ, दैवं अयानयौ
मूलम् - 06
06 मानुषं नयापनयौ, दैवं अयानयौ
विश्वास-प्रस्तुतिः - 07
07 दैवमानुषं हि कर्म लोकं यापयति
मूलम् - 07
07 दैवमानुषं हि कर्म लोकं यापयति
विश्वास-प्रस्तुतिः - 08
08 अदृष्टकारितं दैवम्
मूलम् - 08
08 अदृष्टकारितं दैवम्
विश्वास-प्रस्तुतिः - 09
09 तस्मिन्न् इष्टेन फलेन योगोऽयः, अनिष्टेनानयः
मूलम् - 09
09 तस्मिन्न् इष्टेन फलेन योगोऽयः, अनिष्टेनानयः
विश्वास-प्रस्तुतिः - 10
10 दृष्टकारितं मानुषम्
मूलम् - 10
10 दृष्टकारितं मानुषम्
विश्वास-प्रस्तुतिः - 11
11 तस्मिन् योगक्षेमनिष्पत्तिर्नयः, विपत्तिरपनयः
मूलम् - 11
11 तस्मिन् योगक्षेमनिष्पत्तिर्नयः, विपत्तिरपनयः
विश्वास-प्रस्तुतिः - 12
12 तच्चिन्त्यं, अचिन्त्यं दैवम्
मूलम् - 12
12 तच्चिन्त्यं, अचिन्त्यं दैवम्
विश्वास-प्रस्तुतिः - 13
13 राजा आत्मद्रव्यप्रकृतिसम्पन्नो नयस्याधिष्ठानं विजिगीषुः
मूलम् - 13
13 राजा आत्मद्रव्यप्रकृतिसम्पन्नो नयस्याधिष्ठानं विजिगीषुः
विश्वास-प्रस्तुतिः - 14
14 तस्य समन्ततो मण्डलीभूता भूम्य्ऽनन्तरा अरिप्रकृतिः
मूलम् - 14
14 तस्य समन्ततो मण्डलीभूता भूम्य्ऽनन्तरा अरिप्रकृतिः
विश्वास-प्रस्तुतिः - 15
15 तथा एव भूम्य्।एकान्तरा मित्रप्रकृतिः
मूलम् - 15
15 तथा एव भूम्य्।एकान्तरा मित्रप्रकृतिः
विश्वास-प्रस्तुतिः - 16
16 अरिसम्पद्युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बलाश्रयो वा उच्छेदनीयः, विपर्यये पीडनीयः कर्शनीयो वा
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 इत्यरिविशेषाः
मूलम् - 17
17 इत्यरिविशेषाः
विश्वास-प्रस्तुतिः - 18
18 तस्मान् मित्रं अरिमित्रं मित्रमित्रं अरिमित्रमित्रं चानन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात् पार्ष्णिग्राह आक्रन्दः पार्ष्णिग्राहासार आक्रन्दासारः
मूलम् - 18

विश्वास-प्रस्तुतिः - 19
19 भूम्य्ऽनन्तरः प्रकृतिमित्रः, तुल्याभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः
मूलम् - 19
19 भूम्य्ऽनन्तरः प्रकृतिमित्रः, तुल्याभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः
विश्वास-प्रस्तुतिः - 20
20 भूम्य्।एकान्तरं प्रकृतिमित्रं, मातापितृसम्बद्धं सहजं, धनजीवितहेतोराश्रितं कृत्रिमम्
मूलम् - 20
20 भूम्य्।एकान्तरं प्रकृतिमित्रं, मातापितृसम्बद्धं सहजं, धनजीवितहेतोराश्रितं कृत्रिमम्
विश्वास-प्रस्तुतिः - 21
21 अरिविजिगीष्वोर्भूम्य्ऽनन्तरः संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यमः
मूलम् - 21
21 अरिविजिगीष्वोर्भूम्य्ऽनन्तरः संहतासंहतयोरनुग्रहसमर्थो निग्रहे चासंहतयोर्मध्यमः
विश्वास-प्रस्तुतिः - 22
22 अरिविजिगीषुमध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहतासंहतानां अरिविजिगीषुमध्यमानां अनुग्रहसमर्थो निग्रहे चासंहतानां उदासीनः
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 इति प्रकृतयः
मूलम् - 23
23 इति प्रकृतयः
विश्वास-प्रस्तुतिः - 24
24 विजिगीषुर्मित्रं मित्रमित्रं वाऽस्य प्रकृतयः तिस्रः
मूलम् - 24
24 विजिगीषुर्मित्रं मित्रमित्रं वाऽस्य प्रकृतयः तिस्रः
विश्वास-प्रस्तुतिः - 25
25 ताः पञ्चभिरमात्यजनपददुर्गकोशदण्डप्रकृतिभिरेक एकशः सम्युक्ता मण्डलं अष्टादशकं भवति
मूलम् - 25
25 ताः पञ्चभिरमात्यजनपददुर्गकोशदण्डप्रकृतिभिरेक एकशः सम्युक्ता मण्डलं अष्टादशकं भवति
विश्वास-प्रस्तुतिः - 26
26 अनेन मण्डलपृथक्त्वं व्याख्यातं अरिमध्यम उदासीनानाम्
मूलम् - 26
26 अनेन मण्डलपृथक्त्वं व्याख्यातं अरिमध्यम उदासीनानाम्
विश्वास-प्रस्तुतिः - 27
27 एवं चतुर्मण्डलसङ्क्षेपः
मूलम् - 27
27 एवं चतुर्मण्डलसङ्क्षेपः
विश्वास-प्रस्तुतिः - 28
28 द्वादश राजप्रकृतयः षष्टिर्द्रव्यप्रकृतयः, सङ्क्षेपेण द्विसप्ततिः
मूलम् - 28
28 द्वादश राजप्रकृतयः षष्टिर्द्रव्यप्रकृतयः, सङ्क्षेपेण द्विसप्ततिः
विश्वास-प्रस्तुतिः - 29
29 तासां यथास्वं सम्पदः
मूलम् - 29
29 तासां यथास्वं सम्पदः
विश्वास-प्रस्तुतिः - 30
30 शक्तिः सिद्धिश्च
मूलम् - 30
30 शक्तिः सिद्धिश्च
विश्वास-प्रस्तुतिः - 31
31 बलं शक्तिः
मूलम् - 31
31 बलं शक्तिः
विश्वास-प्रस्तुतिः - 32
32 सुखं सिद्धिः
मूलम् - 32
32 सुखं सिद्धिः
विश्वास-प्रस्तुतिः - 33
33 शक्तिः त्रिविधा - ज्ञानबलं मन्त्रशक्तिः, कोशदण्डबलं प्रभुशक्तिः, विक्रमबलं उत्साहशक्तिः
मूलम् - 33
33 शक्तिः त्रिविधा - ज्ञानबलं मन्त्रशक्तिः, कोशदण्डबलं प्रभुशक्तिः, विक्रमबलं उत्साहशक्तिः
विश्वास-प्रस्तुतिः - 34
34 एवं सिद्धिः त्रिविधा एव - मन्त्रशक्तिसाध्या मन्त्रसिद्धिः, प्रभुशक्तिसाध्या प्रभुसिद्धिः, उत्साहशक्तिसाध्या उत्साहसिद्धिः
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35 ताभिरभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्यशक्तिः समः
मूलम् - 35
35 ताभिरभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्यशक्तिः समः
विश्वास-प्रस्तुतिः - 36
36 तस्मात्शक्तिं सिद्धिं च घटेतात्मन्यावेशयितुं, साधारणो वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा
मूलम् - 36
36 तस्मात्शक्तिं सिद्धिं च घटेतात्मन्यावेशयितुं, साधारणो वा द्रव्यप्रकृतिष्वानन्तर्येण शौचवशेन वा
विश्वास-प्रस्तुतिः - 37
37 दूष्यामित्राभ्यां वाऽपक्रष्टुं यतेत
मूलम् - 37
37 दूष्यामित्राभ्यां वाऽपक्रष्टुं यतेत
विश्वास-प्रस्तुतिः - 38
38 यदि वा पश्येत् अमित्रो मे शक्तियुक्तो वाग्दण्डपारुष्यार्थदूषणैः प्रकृतीरुपहनिष्यति, सिद्धियुक्तो वा मृगयाद्यूतमद्यस्त्रीभिः प्रमादं गमिष्यति, स विरक्तप्रकृतिरुपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रहाभियुक्तो वा सर्वसन्दोहेन एकस्थोऽदुर्गस्थो वा स्थास्यति, स संहतसैन्यो मित्रदुर्गवियुक्तः साध्यो मे भविष्यति, बलवान् वा राजा परतः शत्रुं उच्छेत्तुकामः तं उच्छिद्य मां उच्छिन्द्याद् इति बलवता प्रार्थितस्य मे विपन्नकर्मारम्भस्य वा साहाय्यं दास्यति, मध्यमलिप्सायां च, इत्येवं।आदिषु कारणेष्वमित्रस्यापि शक्तिं सिद्धिं च इच्छेत्
मूलम् - 38

विश्वास-प्रस्तुतिः - 39
39ab नेमिं एकान्तरान् राज्ञः कृत्वा चानन्तरान् अरान् ।
39chd नाभिं आत्मानं आयच्छेन्नेता प्रकृतिमण्डले
मूलम् - 39

विश्वास-प्रस्तुतिः - 40
40ab मध्ये ह्युपहितः शत्रुर्नेतुर्मित्रस्य च उभयोः ।
40chd उच्छेद्यः पीडनीयो वा बलवान् अपि जायते (इति)
मूलम् - 40