षण्ँअवतितमं प्रकरणं - प्रकृतिसम्पदः

विश्वास-प्रस्तुतिः - 01

01 स्वाम्य्ऽमात्यजनपददुर्गकोशदण्डमित्राणि प्रकृतयः

मूलम् - 01

01 स्वाम्य्ऽमात्यजनपददुर्गकोशदण्डमित्राणि प्रकृतयः

विश्वास-प्रस्तुतिः - 02

02 तत्र स्वामिसम्पत्

मूलम् - 02

02 तत्र स्वामिसम्पत्

विश्वास-प्रस्तुतिः - 03

03 महाकुलीनो दैवबुद्धिसत्त्वसम्पन्नो वृद्धदर्शी धार्मिकः सत्यवाग् अविसंवादकः कृतज्ञः स्थूललक्षो महा उत्साहोऽदीर्घसूत्रः शक्यसामन्तो दृढबुद्धिरक्षुद्रपरिषत्को विनयकाम इत्याभिगामिका गुणाः

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 शुश्रूषाश्रवणग्रहणधारणविज्ञान ऊहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणाः

मूलम् - 04

04 शुश्रूषाश्रवणग्रहणधारणविज्ञान ऊहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणाः

विश्वास-प्रस्तुतिः - 05

05 शौर्यं अमर्षः शीघ्रता दाक्ष्यं च उत्साहगुणाः

मूलम् - 05

05 शौर्यं अमर्षः शीघ्रता दाक्ष्यं च उत्साहगुणाः

विश्वास-प्रस्तुतिः - 06

06 वाग्मी प्रगल्भः स्मृतिमतिबलवान् उदग्रः स्व्ऽवग्रहः कृतशिल्पोऽव्यसनो दण्डनाय्युपकारापकारयोर्दृष्टप्रतीकारी ह्रीमान् आपत्प्रकृत्योर्विनियोक्ता दीर्घदूरदर्शी देशकालपुरुषकारकार्यप्रधानः सन्धिविक्रमत्यागसम्यमपणपरच्छिद्रविभागी संवृतोऽदीनाभिहास्यजिह्मभ्रुकुटीक्षणः कामक्रोधलोभस्तम्भचापल उपतापपैशुन्यहीनः शक्लः स्मित उदग्राभिभाषी वृद्ध उपदेशाचार इत्यात्मसम्पत्

मूलम् - 06

विश्वास-प्रस्तुतिः - 07

07 अमात्यसम्पद् उक्ता पुरस्तात्

मूलम् - 07

07 अमात्यसम्पद् उक्ता पुरस्तात्

विश्वास-प्रस्तुतिः - 08

08 मध्ये चान्ते च स्थानवान् आत्मधारणः परधारणश्चापदि स्वारक्षः स्वाजीवः शत्रुद्वेषी शक्यसामन्तः पङ्कपाषाण उषरविषमकण्टकश्रेणीव्यालमृगाटवीहीनः कान्तः सीताखनिद्रव्यहस्तिवनवान् गव्यः पौरुषेयो गुप्तगोचरः पशुमान् अदेवमातृको वारिस्थलपथाभ्यां उपेतः सारचित्रबहुपण्यो दण्डकरसहः कर्मशीलकर्षकोऽबालिशस्वाम्य्ऽवरवर्णप्रायो भक्तशुचिमनुष्य इति जनपदसम्पत्

मूलम् - 08

विश्वास-प्रस्तुतिः - 09

09 दुर्गसम्पद् उक्ता पुरस्तात्

मूलम् - 09

09 दुर्गसम्पद् उक्ता पुरस्तात्

विश्वास-प्रस्तुतिः - 10

10 धर्माधिगतः पूर्वैः स्वयं वा हेमरूप्यप्रायश्चित्रस्थूलरत्नहिरण्यो दीर्घां अप्यापदं अनायतिं सहेत इति कोशसम्पत्

मूलम् - 10

विश्वास-प्रस्तुतिः - 11

11 पितृपैतामहो नित्यो वश्यः तुष्टभृतपुत्रदारः प्रवासेष्वविसंवादितः सर्वत्राप्रतिहतो दुःखसहो बहुयुद्धः सर्वयुद्धप्रहरणविद्याविशारदः सहवृद्धिक्षयिकत्वाद् अद्वैध्यः क्षत्रप्राय इति दण्डसम्पत्

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

12 पितृपैतामहं नित्यं वश्यं अद्वैध्यं महल्लघुसमुत्थं इति मित्रसम्पत्

मूलम् - 12

12 पितृपैतामहं नित्यं वश्यं अद्वैध्यं महल्लघुसमुत्थं इति मित्रसम्पत्

विश्वास-प्रस्तुतिः - 13

13 अराजबीजी लुब्धः क्षुद्रपरिषत्को विरक्तप्रकृतिरन्यायवृत्तिरयुक्तो व्यसनी निरुत्साहो दैवप्रमाणो यत्किञ्चनकार्यगतिरननुबन्धः क्लीबो नित्यापकारी च इत्यमित्रसम्पत्

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 एवम्भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति

मूलम् - 14

14 एवम्भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति

विश्वास-प्रस्तुतिः - 15

15ab अरिवर्जाः प्रकृतयः सप्त एताः स्वगुण उदयाः ।
15chd उक्ताः प्रत्यङ्गभूताः ताः प्रकृता राजसम्पदः

मूलम् - 15

15ab अरिवर्जाः प्रकृतयः सप्त एताः स्वगुण उदयाः ।
15chd उक्ताः प्रत्यङ्गभूताः ताः प्रकृता राजसम्पदः

विश्वास-प्रस्तुतिः - 16

16ab सम्पादयत्यसम्पन्नाः प्रकृतीरात्मवान्नृपः ।
16chd विवृद्धाश्चानुरक्ताश्च प्रकृतीर्हन्त्यनात्मवान्

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17ab ततः स दुष्टप्रकृतिश्चातुरन्तोऽप्यनात्मवान् ।
17chd हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम्

मूलम् - 17

17ab ततः स दुष्टप्रकृतिश्चातुरन्तोऽप्यनात्मवान् ।
17chd हन्यते वा प्रकृतिभिर्याति वा द्विषतां वशम्

विश्वास-प्रस्तुतिः - 18

18ab आत्मवांः त्वल्पदेशोऽपि युक्तः प्रकृतिसम्पदा ।
18chd नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते (इति)

मूलम् - 18