Continuance of the kingdom
Continuous sovereignty
विश्वास-प्रस्तुतिः - 01
01 राजव्यसनं एवं अमात्यः प्रतिकुर्वीत
मूलम् - 01
01 राजव्यसनं एवं अमात्यः प्रतिकुर्वीत
विश्वास-प्रस्तुतिः - 02
02 प्राग् एव मरणाबाधभयाद् राज्ञः प्रियहित उपग्रहेण मासद्विमासान्तरं दर्शनं स्थापयेद् देशपीडाऽपहं अमित्रापहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति इत्यपदेशेन
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 राजव्यञ्जनं अरूपवेलायां प्रकृतीनां दर्शयेत्, मित्रामित्रदूतानां च
मूलम् - 03
03 राजव्यञ्जनं अरूपवेलायां प्रकृतीनां दर्शयेत्, मित्रामित्रदूतानां च
विश्वास-प्रस्तुतिः - 04
04 तैश्च यथा उचितां सम्भाषां अमात्यमुखो गच्छेत्
मूलम् - 04
04 तैश्च यथा उचितां सम्भाषां अमात्यमुखो गच्छेत्
विश्वास-प्रस्तुतिः - 05
05 दौवारिकान्तर्वंशिकमुखश्च यथा उक्तं राजप्रणिधिं अनुवर्तयेत्
मूलम् - 05
05 दौवारिकान्तर्वंशिकमुखश्च यथा उक्तं राजप्रणिधिं अनुवर्तयेत्
विश्वास-प्रस्तुतिः - 06
06 अपकारिषु च हेडं प्रसादं वा प्रकृतिकान्तं दर्शयेत्, प्रसादं एव उपकारिषु
मूलम् - 06
06 अपकारिषु च हेडं प्रसादं वा प्रकृतिकान्तं दर्शयेत्, प्रसादं एव उपकारिषु
विश्वास-प्रस्तुतिः - 07
07 आप्तपुरुषाधिष्ठितौ दुर्गप्रत्यन्तस्थौ वा कोशदण्डावेकस्थौ कारयेत्, कुल्यकुमारमुख्यांश्चान्यापदेशेन
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 यश्च मुख्यः पक्षवान् दुर्गाटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत्
मूलम् - 08
08 यश्च मुख्यः पक्षवान् दुर्गाटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत्
विश्वास-प्रस्तुतिः - 09
09 बह्व्।आबाधं वा यात्रां प्रेषयेत्, मित्रकुलं वा
मूलम् - 09
09 बह्व्।आबाधं वा यात्रां प्रेषयेत्, मित्रकुलं वा
विश्वास-प्रस्तुतिः - 10
10 यस्माच्च सामन्ताद् आबाधं पश्येत् तं उत्सवविवाहहस्तिबन्धनाश्वपण्यभूमिप्रदानापदेशेनावग्राहयेत्, स्वमित्रेण वा
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 ततः सन्धिं अदूष्यं कारयेत्
मूलम् - 11
11 ततः सन्धिं अदूष्यं कारयेत्
विश्वास-प्रस्तुतिः - 12
12 आटविकामित्रैर्वा वैरं ग्राहयेत्
मूलम् - 12
12 आटविकामित्रैर्वा वैरं ग्राहयेत्
विश्वास-प्रस्तुतिः - 13
13 तत्कुलीनं अपरुद्धं वा भूंय्।एकदेशेन उपग्राहयेत्
मूलम् - 13
13 तत्कुलीनं अपरुद्धं वा भूंय्।एकदेशेन उपग्राहयेत्
विश्वास-प्रस्तुतिः - 14
14 कुल्यकुमारमुख्य उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत्
मूलम् - 14
14 कुल्यकुमारमुख्य उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत्
विश्वास-प्रस्तुतिः - 15
15 दाण्डकर्मिकवद् वा राज्यकण्टकान् उद्धृत्य राज्यं कारयेत्
मूलम् - 15
15 दाण्डकर्मिकवद् वा राज्यकण्टकान् उद्धृत्य राज्यं कारयेत्
विश्वास-प्रस्तुतिः - 16
16 यदि वा कश्चिन् मुख्यः सामन्तादीनां अन्यतमः कोपं भजेत तं एहि, राजानं त्वा करिष्यामि इत्यावाहयित्वा घातयेत्
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 आपत्प्रतीकारेण वा साधयेत्
मूलम् - 17
17 आपत्प्रतीकारेण वा साधयेत्
विश्वास-प्रस्तुतिः - 18
18 युवराजे वा क्रमेण राज्यभारं आरोप्य राजव्यसनं ख्यापयेत्
मूलम् - 18
18 युवराजे वा क्रमेण राज्यभारं आरोप्य राजव्यसनं ख्यापयेत्
विश्वास-प्रस्तुतिः - 19
19 परभूमौ राजव्यसने मित्रेणामित्रव्यञ्जनेन शत्रोः सन्धिं अवस्थाप्यापगच्छेत्
मूलम् - 19
19 परभूमौ राजव्यसने मित्रेणामित्रव्यञ्जनेन शत्रोः सन्धिं अवस्थाप्यापगच्छेत्
विश्वास-प्रस्तुतिः - 20
20 सामन्तादीनां अन्यतमं वाऽस्य दुर्गे स्थापयित्वाऽपगच्छेत्
मूलम् - 20
20 सामन्तादीनां अन्यतमं वाऽस्य दुर्गे स्थापयित्वाऽपगच्छेत्
विश्वास-प्रस्तुतिः - 21
21 कुमारं अभिषिच्य वा प्रतिव्यूहेत
मूलम् - 21
21 कुमारं अभिषिच्य वा प्रतिव्यूहेत
विश्वास-प्रस्तुतिः - 22
22 परेणाभियुक्तो वा यथा उक्तं आपत्प्रतीकारं कुर्यात्
मूलम् - 22
22 परेणाभियुक्तो वा यथा उक्तं आपत्प्रतीकारं कुर्यात्
विश्वास-प्रस्तुतिः - 23
23 एवं एकाइश्वर्यं अमात्यः कारयेद् इति कौटिल्यः
मूलम् - 23
23 एवं एकाइश्वर्यं अमात्यः कारयेद् इति कौटिल्यः
विश्वास-प्रस्तुतिः - 24
24 न एवम् इति भारद्वाजः
मूलम् - 24
24 न एवम् इति भारद्वाजः
विश्वास-प्रस्तुतिः - 25
25 प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् परस्परं मुख्येषु वा विक्रमयेत्
मूलम् - 25
25 प्रम्रियमाणे वा राजन्यमात्यः कुल्यकुमारमुख्यान् परस्परं मुख्येषु वा विक्रमयेत्
विश्वास-प्रस्तुतिः - 26
26 विक्रान्तं प्रकृतिकोपेन घातयेत्
मूलम् - 26
26 विक्रान्तं प्रकृतिकोपेन घातयेत्
विश्वास-प्रस्तुतिः - 27
27 कुल्यकुमारमुख्यान् उपांशुदण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात्
मूलम् - 27
27 कुल्यकुमारमुख्यान् उपांशुदण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात्
विश्वास-प्रस्तुतिः - 28
28 राज्यकारणाद्द् हि पिता पुत्रान् पुत्राश्च पितरं अभिद्रुह्यन्ति, किं अङ्ग पुनरमात्यप्रकृतिर्ह्येकप्रग्रहो राज्यस्य
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 तत् स्वयं उपस्थितं नावमन्येत
मूलम् - 29
29 तत् स्वयं उपस्थितं नावमन्येत
विश्वास-प्रस्तुतिः - 30
30 स्वयं आरूढा हि स्त्री त्यज्यमानाऽभिशपति इति लोकप्रवादः
मूलम् - 30
30 स्वयं आरूढा हि स्त्री त्यज्यमानाऽभिशपति इति लोकप्रवादः
विश्वास-प्रस्तुतिः - 31
31ab कालश्च सकृद् अभ्येति यं नरं कालकाङ्क्षिणम् ।
31chd दुर्लभः स पुनः तस्य कालः कर्म चिकीर्षतः
मूलम् - 31
31ab कालश्च सकृद् अभ्येति यं नरं कालकाङ्क्षिणम् ।
31chd दुर्लभः स पुनः तस्य कालः कर्म चिकीर्षतः
विश्वास-प्रस्तुतिः - 32
32 प्रकृतिकोपकं अधर्मिष्ठं अनैकान्तिकं च एतद् इति कौटिल्यः
मूलम् - 32
32 प्रकृतिकोपकं अधर्मिष्ठं अनैकान्तिकं च एतद् इति कौटिल्यः
विश्वास-प्रस्तुतिः - 33
33 राजपुत्रं आत्मसम्पन्नं राज्ये स्थापयेत्
मूलम् - 33
33 राजपुत्रं आत्मसम्पन्नं राज्ये स्थापयेत्
विश्वास-प्रस्तुतिः - 34
34 सम्पन्नाभावेऽव्यसनिनं कुमारं राजकन्यां गर्भिणीं देवीं वा पुरस्कृत्य महामात्रान् सन्निपात्य ब्रूयात् अयं वो निक्षेपः, पितरं अस्यावेक्षध्वं सत्त्वाभिजनं आत्मनश्च, ध्वजमात्रोऽयं भवन्त एव स्वामिनः, कथं वा क्रियताम् इति
मूलम् - 34

विश्वास-प्रस्तुतिः - 35
35 तथा ब्रुवाणं योगपुरुषा ब्रूयुः कोऽन्यो भवत्पुरोगाद् अस्माद् राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम् इति
मूलम् - 35

विश्वास-प्रस्तुतिः - 36
36 तथा इत्यमात्यः कुमारं राजकन्यां गर्भिणीं देवीं वाऽधिकुर्वीत, बन्धुसम्बन्धिनां मित्रामित्रदूतानां च दर्शयेत्
मूलम् - 36

विश्वास-प्रस्तुतिः - 37
37 भक्तवेतनविशेषं अमात्यानां आयुधीयानां च कारयेत्, भूयश्चायं वृद्धः करिष्यति इति ब्रूयात्
मूलम् - 37
37 भक्तवेतनविशेषं अमात्यानां आयुधीयानां च कारयेत्, भूयश्चायं वृद्धः करिष्यति इति ब्रूयात्
विश्वास-प्रस्तुतिः - 38
38 एवं दुर्गराष्ट्रमुख्यान् आभाषेत, यथाऽर्हं च मित्रामित्रपक्षम्
मूलम् - 38
38 एवं दुर्गराष्ट्रमुख्यान् आभाषेत, यथाऽर्हं च मित्रामित्रपक्षम्
विश्वास-प्रस्तुतिः - 39
39 विनयकर्मणि च कुमारस्य प्रयतेत
मूलम् - 39
39 विनयकर्मणि च कुमारस्य प्रयतेत
विश्वास-प्रस्तुतिः - 40
40 कन्यायां समानजातीयाद् अपत्यं उत्पाद्य वाऽभिषिञ्चेत्
मूलम् - 40
40 कन्यायां समानजातीयाद् अपत्यं उत्पाद्य वाऽभिषिञ्चेत्
विश्वास-प्रस्तुतिः - 41
41 मातुश्चित्तक्षोभभयात् कुल्यं अल्पसत्त्वं छात्रं च लक्षण्यं उपनिदध्यात्
मूलम् - 41
41 मातुश्चित्तक्षोभभयात् कुल्यं अल्पसत्त्वं छात्रं च लक्षण्यं उपनिदध्यात्
विश्वास-प्रस्तुतिः - 42
42 ऋतौ च एनां रक्षेत्
मूलम् - 42
42 ऋतौ च एनां रक्षेत्
विश्वास-प्रस्तुतिः - 43
43 न चात्मार्थं कञ्चिद् उत्कृष्टं उपभोगं कारयेत्
मूलम् - 43
43 न चात्मार्थं कञ्चिद् उत्कृष्टं उपभोगं कारयेत्
विश्वास-प्रस्तुतिः - 44
44 राजार्थं तु यानवाहनाभरणवस्त्रस्त्रीवेश्मपरिवापान् कारयेत्
मूलम् - 44
44 राजार्थं तु यानवाहनाभरणवस्त्रस्त्रीवेश्मपरिवापान् कारयेत्
विश्वास-प्रस्तुतिः - 45
45ab यौवनस्थं च याचेत विश्रमं चित्तकारणात् ।
45chd परित्यजेद् अतुष्यन्तं तुष्यन्तं चानुपालयेत्
मूलम् - 45
45ab यौवनस्थं च याचेत विश्रमं चित्तकारणात् ।
45chd परित्यजेद् अतुष्यन्तं तुष्यन्तं चानुपालयेत्
विश्वास-प्रस्तुतिः - 46
46ab निवेद्य पुत्ररक्षाऽर्थं गूढसारपरिग्रहान् ।
46chd अरण्यं दीर्घसत्त्रं वा सेवेतारुच्यतां गतः
मूलम् - 46
46ab निवेद्य पुत्ररक्षाऽर्थं गूढसारपरिग्रहान् ।
46chd अरण्यं दीर्घसत्त्रं वा सेवेतारुच्यतां गतः
विश्वास-प्रस्तुतिः - 47
47ab मुख्यैरवगृहीतं वा राजानं तत्प्रियाश्रितः ।
47chd इतिहासपुराणाभ्यां बोधयेद् अर्थशास्त्रवित्
मूलम् - 47
47ab मुख्यैरवगृहीतं वा राजानं तत्प्रियाश्रितः ।
47chd इतिहासपुराणाभ्यां बोधयेद् अर्थशास्त्रवित्
विश्वास-प्रस्तुतिः - 48
48ab सिद्धव्यञ्जनरूपो वा योगं आस्थाय पार्थिवम् ।
48chd लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत् (इति)
मूलम् - 48