Proper behaviour for a courtier

विश्वास-प्रस्तुतिः - 01

01 नियुक्तः कर्मसु व्ययविशुद्धं उदयं दर्शयेत्

मूलम् - 01

01 नियुक्तः कर्मसु व्ययविशुद्धं उदयं दर्शयेत्

विश्वास-प्रस्तुतिः - 02

02 आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं इदं एवम् इति विशेषयेच्च

मूलम् - 02

02 आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं इदं एवम् इति विशेषयेच्च

विश्वास-प्रस्तुतिः - 03

03 मृगयाद्यूतमद्यस्त्रीषु प्रसक्तं न एनं अनुवर्तेत प्रशंसाभिः

मूलम् - 03

03 मृगयाद्यूतमद्यस्त्रीषु प्रसक्तं न एनं अनुवर्तेत प्रशंसाभिः

विश्वास-प्रस्तुतिः - 04

04 आसन्नश्चास्य व्यसन उपघाते प्रयतेत, पर उपजापातिसन्धान उपधिभ्यश्च रक्षेत्

मूलम् - 04

04 आसन्नश्चास्य व्यसन उपघाते प्रयतेत, पर उपजापातिसन्धान उपधिभ्यश्च रक्षेत्

विश्वास-प्रस्तुतिः - 05

05 इङ्गिताकारौ चास्य लक्षयेत्

मूलम् - 05

05 इङ्गिताकारौ चास्य लक्षयेत्

विश्वास-प्रस्तुतिः - 06

06 कामद्वेषहर्षदैन्यव्यवसायभयद्वन्द्वविपर्यासं इङ्गिताकाराभ्यां हि मन्त्रसंवरणार्थं आचरति प्राज्ञः

मूलम् - 06

06 कामद्वेषहर्षदैन्यव्यवसायभयद्वन्द्वविपर्यासं इङ्गिताकाराभ्यां हि मन्त्रसंवरणार्थं आचरति प्राज्ञः

विश्वास-प्रस्तुतिः - 07

07 दर्शने प्रसीदति, वाक्यं प्रतिगृह्णाति, आसनं ददाति, विविक्तो दर्शयते, शङ्कास्थाने नातिशङ्कते, कथायां रमते, परिज्ञाप्येष्ववेक्षते, पथ्यं उक्तं सहते, स्मयमानो नियुङ्क्ते, हस्तेन स्पृशति, श्लाघ्ये न उपहसति, परोक्षं गुणं ब्रवीति, भक्ष्येषु स्मरति, सह विहारं याति, व्यसनेऽभ्युपपद्यते, तद्भक्तीन् पूजयति, गुह्यं आचष्टे, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति - इति तुष्टज्ञानम्

मूलम् - 07

विश्वास-प्रस्तुतिः - 08

08 एतद् एव विपरीतं अतुष्टस्य, भूयश्च वक्ष्यामः

मूलम् - 08

08 एतद् एव विपरीतं अतुष्टस्य, भूयश्च वक्ष्यामः

विश्वास-प्रस्तुतिः - 09

09 सन्दर्शने कोपः, वाक्यस्याश्रवणप्रतिषेधौ, आसनचक्षुषोरदानं, वर्णस्वरभेदः, एकाक्षिभ्रुकुट्य्।ओष्ठनिर्भोगः, स्वेदश्वासस्मितानां अस्थान उत्पत्तिः, परमन्त्रणं, अकस्माद्व्रजनं, वर्धनं अन्यस्य, भूमिगात्रविलेखनं, अन्यस्य उपतोदनं, विद्यावर्णदेशकुत्सा, समदोषनिन्दा, प्रतिदोषनिन्दा, प्रतिलोमस्तवः, सुकृतानवेक्षणं, दुष्कृतानुकीर्तनं, पृष्ठावधानं, अतित्यागः, मिथ्याऽभिभाषणं, राजदर्शिनां च तद्वृत्तान्यत्वम्

मूलम् - 09

विश्वास-प्रस्तुतिः - 10

10 वृत्तिविकारं चावेक्षेताप्यमानुषाणाम्

मूलम् - 10

10 वृत्तिविकारं चावेक्षेताप्यमानुषाणाम्

विश्वास-प्रस्तुतिः - 11

11 अयं उच्चैः सिञ्चति इति कात्यायनः प्रवव्राज, क्रौञ्चोऽपसव्यम् इति कणिङ्को भारद्वाजः, तृणम् इति दीर्घश्चारायणः, शीता शाटी इति घोटमुखः, हस्ती प्रत्यौक्षीत् इति किञ्जल्कः, रथाश्वं प्राशंसीत् इति पिशुनः, प्रतिरवणे शुनः पिशुनपुत्रः

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

12 अर्थमानावक्षेपे च परित्यागः

मूलम् - 12

12 अर्थमानावक्षेपे च परित्यागः

विश्वास-प्रस्तुतिः - 13

13 स्वामिशीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत

मूलम् - 13

13 स्वामिशीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत

विश्वास-प्रस्तुतिः - 14

14 मित्रं उपकृष्टं वाऽस्य गच्छेत्

मूलम् - 14

14 मित्रं उपकृष्टं वाऽस्य गच्छेत्

विश्वास-प्रस्तुतिः - 15

15ab तत्रस्थो दोषनिर्घातं मित्रैर्भर्तरि चाचरेत् ।
15chd ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् (इति)

मूलम् - 15