Salaries of state servants
विश्वास-प्रस्तुतिः - 01
01 दुर्गजनपदशक्त्या भृत्यकर्म समुदयपादेन स्थापयेत्, कार्यसाधनसहेन वा भृत्यलाभेन
मूलम् - 01
01 दुर्गजनपदशक्त्या भृत्यकर्म समुदयपादेन स्थापयेत्, कार्यसाधनसहेन वा भृत्यलाभेन
विश्वास-प्रस्तुतिः - 02
02 शरीरं अवेक्षेत, न धर्मार्थौ पीडयेत्
मूलम् - 02
02 शरीरं अवेक्षेत, न धर्मार्थौ पीडयेत्
विश्वास-प्रस्तुतिः - 03
03 ऋत्विग्।आचार्यमन्त्रिपुरोहितसेनापतियुवराजराजमातृराजमहिष्योऽष्टचत्वारिंशत्साहस्राः
मूलम् - 03
03 ऋत्विग्।आचार्यमन्त्रिपुरोहितसेनापतियुवराजराजमातृराजमहिष्योऽष्टचत्वारिंशत्साहस्राः
विश्वास-प्रस्तुतिः - 04
04 एतावता भरणेनानास्पद्यत्वं अकोपकं च एषां भवति
मूलम् - 04
04 एतावता भरणेनानास्पद्यत्वं अकोपकं च एषां भवति
विश्वास-प्रस्तुतिः - 05
05 दौवारिकान्तर्वंशिकप्रशास्तृसमाहर्तृसन्निधातारश्चतुर्विंशतिसाहस्राः
मूलम् - 05
05 दौवारिकान्तर्वंशिकप्रशास्तृसमाहर्तृसन्निधातारश्चतुर्विंशतिसाहस्राः
विश्वास-प्रस्तुतिः - 06
06 एतावता कर्मण्या भवन्ति
मूलम् - 06
06 एतावता कर्मण्या भवन्ति
विश्वास-प्रस्तुतिः - 07
07 कुमारकुमारमातृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषद्राष्ट्रान्तपालाश्च द्वादशसाहस्राः
मूलम् - 07
07 कुमारकुमारमातृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषद्राष्ट्रान्तपालाश्च द्वादशसाहस्राः
विश्वास-प्रस्तुतिः - 08
08 स्वामिपरिबन्धबलसहाया ह्येतावता भवन्ति
मूलम् - 08
08 स्वामिपरिबन्धबलसहाया ह्येतावता भवन्ति
विश्वास-प्रस्तुतिः - 09
09 श्रेणीमुख्या हस्त्य्ऽश्वरथमुख्याः प्रदेष्टारश्चाष्टसाहस्राः
मूलम् - 09
09 श्रेणीमुख्या हस्त्य्ऽश्वरथमुख्याः प्रदेष्टारश्चाष्टसाहस्राः
विश्वास-प्रस्तुतिः - 10
10 स्ववर्गानुकर्षिणो ह्येतावता भवन्ति
मूलम् - 10
10 स्ववर्गानुकर्षिणो ह्येतावता भवन्ति
विश्वास-प्रस्तुतिः - 11
11 पत्त्य्ऽश्वरथहस्त्य्ऽध्यक्षा द्रव्यहस्तिवनपालाश्च चतुःसाहस्राः
मूलम् - 11
11 पत्त्य्ऽश्वरथहस्त्य्ऽध्यक्षा द्रव्यहस्तिवनपालाश्च चतुःसाहस्राः
विश्वास-प्रस्तुतिः - 12
12 रथिकानीकस्थचिकित्सकाश्वदमकवर्धकयो योनिपोषकाश्च द्विसाहस्राः
मूलम् - 12
12 रथिकानीकस्थचिकित्सकाश्वदमकवर्धकयो योनिपोषकाश्च द्विसाहस्राः
विश्वास-प्रस्तुतिः - 13
13 कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकसूतमागधाः पुरोहितपुरुषाः सर्वाध्यक्षाश्च साहस्राः
मूलम् - 13
13 कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिकसूतमागधाः पुरोहितपुरुषाः सर्वाध्यक्षाश्च साहस्राः
विश्वास-प्रस्तुतिः - 14
14 शिल्पवन्तः पादाताः सङ्ख्यायकलेखकादिवर्गश्च पञ्चशताः
मूलम् - 14
14 शिल्पवन्तः पादाताः सङ्ख्यायकलेखकादिवर्गश्च पञ्चशताः
विश्वास-प्रस्तुतिः - 15
15 कुशीलवाः त्वर्धतृतीयशताः, द्विगुणवेतनाश्च एषां तूर्यकराः
मूलम् - 15
15 कुशीलवाः त्वर्धतृतीयशताः, द्विगुणवेतनाश्च एषां तूर्यकराः
विश्वास-प्रस्तुतिः - 16
16 कारुशिल्पिनो विंशतिशतिकाः
मूलम् - 16
16 कारुशिल्पिनो विंशतिशतिकाः
विश्वास-प्रस्तुतिः - 17
17 चतुष्पदद्विपदपरिचारकपारिकर्मिकाउपस्थायिकपालकविष्टिबन्धकाः षष्टिवेतनाः, आर्ययुक्तारोहकमाणवकशैलखनकाः सर्व उपस्थायिनश्च
मूलम् - 17

विश्वास-प्रस्तुतिः - 18
18 आचार्या विद्यावन्तश्च पूजावेतनानि यथाऽर्हं लभेरन् पञ्चशतावरं सहस्रपरम्
मूलम् - 18
18 आचार्या विद्यावन्तश्च पूजावेतनानि यथाऽर्हं लभेरन् पञ्चशतावरं सहस्रपरम्
विश्वास-प्रस्तुतिः - 19
19 दशपणिको योजने दूतो मध्यमः, दश उत्तरे द्विगुणवेतन आयोजनशताद् इति
मूलम् - 19
19 दशपणिको योजने दूतो मध्यमः, दश उत्तरे द्विगुणवेतन आयोजनशताद् इति
विश्वास-प्रस्तुतिः - 20
20 समानविद्येभ्यः त्रिगुणवेतनो राजा राजसूयादिषु क्रतुषु
मूलम् - 20
20 समानविद्येभ्यः त्रिगुणवेतनो राजा राजसूयादिषु क्रतुषु
विश्वास-प्रस्तुतिः - 21
21 राज्ञः सारथिः साहस्रः
मूलम् - 21
21 राज्ञः सारथिः साहस्रः
विश्वास-प्रस्तुतिः - 22
22 कापटिक उदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाः साहस्राः
मूलम् - 22
22 कापटिक उदास्थितगृहपतिकवैदेहकतापसव्यञ्जनाः साहस्राः
विश्वास-प्रस्तुतिः - 23
23 ग्रामभृतकसत्त्रितीक्ष्णरसदभिक्षुक्यः पञ्चशताः
मूलम् - 23
23 ग्रामभृतकसत्त्रितीक्ष्णरसदभिक्षुक्यः पञ्चशताः
विश्वास-प्रस्तुतिः - 24
24 चारसञ्चारिणोऽर्धतृतीयशताः, प्रयासवृद्धवेतना वा
मूलम् - 24
24 चारसञ्चारिणोऽर्धतृतीयशताः, प्रयासवृद्धवेतना वा
विश्वास-प्रस्तुतिः - 25
25 शतवर्गसहस्रवर्गाणां अध्यक्षा भक्तवेतनलाभं आदेशं विक्षेपं च कुर्युः
मूलम् - 25
25 शतवर्गसहस्रवर्गाणां अध्यक्षा भक्तवेतनलाभं आदेशं विक्षेपं च कुर्युः
विश्वास-प्रस्तुतिः - 26
26 अविक्षेपो राजपरिग्रहदुर्गराष्ट्ररक्षावेक्षणेषु च
मूलम् - 26
26 अविक्षेपो राजपरिग्रहदुर्गराष्ट्ररक्षावेक्षणेषु च
विश्वास-प्रस्तुतिः - 27
27 नित्यमुख्याः स्युरनेकमुख्याश्च
मूलम् - 27
27 नित्यमुख्याः स्युरनेकमुख्याश्च
विश्वास-प्रस्तुतिः - 28
28 कर्मसु मृतानां पुत्रदारा भक्तवेतनं लभेरन्
मूलम् - 28
28 कर्मसु मृतानां पुत्रदारा भक्तवेतनं लभेरन्
विश्वास-प्रस्तुतिः - 29
29 बालवृद्धव्याधिताश्च एषां अनुग्राह्याः
मूलम् - 29
29 बालवृद्धव्याधिताश्च एषां अनुग्राह्याः
विश्वास-प्रस्तुतिः - 30
30 प्रेतव्याधितसूतिकाकृत्येषु च एषां अर्थमानकर्म कुर्यात्
मूलम् - 30
30 प्रेतव्याधितसूतिकाकृत्येषु च एषां अर्थमानकर्म कुर्यात्
विश्वास-प्रस्तुतिः - 31
31 अल्पकोशः कुप्यपशुक्षेत्राणि दद्यात्, अल्पं च हिरण्यम्
मूलम् - 31
31 अल्पकोशः कुप्यपशुक्षेत्राणि दद्यात्, अल्पं च हिरण्यम्
विश्वास-प्रस्तुतिः - 32
32 शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात्, न ग्रामं ग्रामसञ्जातव्यवहारस्थापनार्थम्
मूलम् - 32
32 शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात्, न ग्रामं ग्रामसञ्जातव्यवहारस्थापनार्थम्
विश्वास-प्रस्तुतिः - 33
33 एतेन भृतानां अभृतानां च विद्याकर्मभ्यां भक्तवेतनविशेषं च कुर्यात्
मूलम् - 33
33 एतेन भृतानां अभृतानां च विद्याकर्मभ्यां भक्तवेतनविशेषं च कुर्यात्
विश्वास-प्रस्तुतिः - 34
34 षष्टिवेतनस्याढकं कृत्वा हिरण्यानुरूपं भक्तं कुर्यात्
मूलम् - 34
34 षष्टिवेतनस्याढकं कृत्वा हिरण्यानुरूपं भक्तं कुर्यात्
विश्वास-प्रस्तुतिः - 35
35 पत्त्य्ऽश्वरथद्विपाः सूर्य उदये बहिः सन्धिदिवसवर्जं शिल्पयोग्याः कुर्युः
मूलम् - 35
35 पत्त्य्ऽश्वरथद्विपाः सूर्य उदये बहिः सन्धिदिवसवर्जं शिल्पयोग्याः कुर्युः
विश्वास-प्रस्तुतिः - 36
36 तेषु राजा नित्ययुक्तः स्यात्, अभीक्ष्णं च एषां शिल्पदर्शनं कुर्यात्
मूलम् - 36
36 तेषु राजा नित्ययुक्तः स्यात्, अभीक्ष्णं च एषां शिल्पदर्शनं कुर्यात्
विश्वास-प्रस्तुतिः - 37
37 कृतनर इन्द्राङ्कं शस्त्रावरणं आयुधागारं प्रवेशयेत्
मूलम् - 37
37 कृतनर इन्द्राङ्कं शस्त्रावरणं आयुधागारं प्रवेशयेत्
विश्वास-प्रस्तुतिः - 38
38 अशस्त्राश्चरेयुः, अन्यत्र मुद्राऽनुज्ञातात्
मूलम् - 38
38 अशस्त्राश्चरेयुः, अन्यत्र मुद्राऽनुज्ञातात्
विश्वास-प्रस्तुतिः - 39
39 नष्टंविनष्टं वा द्विगुणं दद्यात्
मूलम् - 39
39 नष्टंविनष्टं वा द्विगुणं दद्यात्
विश्वास-प्रस्तुतिः - 40
40 विध्वस्तगणनां च कुर्यात्
मूलम् - 40
40 विध्वस्तगणनां च कुर्यात्
विश्वास-प्रस्तुतिः - 41
41 सार्थिकानां शस्त्रावरणं अन्तपाला गृह्णीयुः, समुद्रं अवचारयेयुर्वा
मूलम् - 41
41 सार्थिकानां शस्त्रावरणं अन्तपाला गृह्णीयुः, समुद्रं अवचारयेयुर्वा
विश्वास-प्रस्तुतिः - 42
42 यात्रां अभ्युत्थितो वा सेनां उद्योजयेत्
मूलम् - 42
42 यात्रां अभ्युत्थितो वा सेनां उद्योजयेत्
विश्वास-प्रस्तुतिः - 43
43 ततो वैदेहकव्यञ्जनाः सर्वपण्यान्यायुधीयेभ्यो यात्राकाले द्विगुणप्रत्यादेयानि दद्युः
मूलम् - 43
43 ततो वैदेहकव्यञ्जनाः सर्वपण्यान्यायुधीयेभ्यो यात्राकाले द्विगुणप्रत्यादेयानि दद्युः
विश्वास-प्रस्तुतिः - 44
44 एवं राजपण्ययोगविक्रयो वेतनप्रत्यादानं च भवति
मूलम् - 44
44 एवं राजपण्ययोगविक्रयो वेतनप्रत्यादानं च भवति
विश्वास-प्रस्तुतिः - 45
45 एवं अवेक्षितायव्ययः कोशदण्डव्यसनं नावाप्नोति
मूलम् - 45
45 एवं अवेक्षितायव्ययः कोशदण्डव्यसनं नावाप्नोति
विश्वास-प्रस्तुतिः - 46
46 इति भक्तवेतनविकल्पः
मूलम् - 46
46 इति भक्तवेतनविकल्पः
विश्वास-प्रस्तुतिः - 47
47ab सत्त्रिणश्चायुधीयानां वेश्याः कारुकुशीलवाः ।
47chd दण्डवृद्धाश्च जानीयुः शौचाशौचं अतन्द्रिताः (इति)
मूलम् - 47