Replenishment of the treasury
विश्वास-प्रस्तुतिः - 01
01 कोशं अकोशः प्रत्युत्पन्नार्थकृच्छ्रः सङ्गृह्णीयात्
मूलम् - 01
01 कोशं अकोशः प्रत्युत्पन्नार्थकृच्छ्रः सङ्गृह्णीयात्
विश्वास-प्रस्तुतिः - 02
02 जनपदं महान्तं अल्पप्रमाणं वाऽदेवमातृकं प्रभूतधान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत, यथासारं मध्यं अवरं वा
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्म उपकारिणं प्रत्यन्तं अल्पप्रमाणं वा न याचेत
मूलम् - 03
03 दुर्गसेतुकर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्म उपकारिणं प्रत्यन्तं अल्पप्रमाणं वा न याचेत
विश्वास-प्रस्तुतिः - 04
04 धान्यपशुहिरण्यादि निविशमानाय दद्यात्
मूलम् - 04
04 धान्यपशुहिरण्यादि निविशमानाय दद्यात्
विश्वास-प्रस्तुतिः - 05
05 चतुर्थं अंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात्
मूलम् - 05
05 चतुर्थं अंशं धान्यानां बीजभक्तशुद्धं च हिरण्येन क्रीणीयात्
विश्वास-प्रस्तुतिः - 06
06 अरण्यजातं श्रोत्रियस्वं च परिहरेत्
मूलम् - 06
06 अरण्यजातं श्रोत्रियस्वं च परिहरेत्
विश्वास-प्रस्तुतिः - 07
07 तद् अप्यनुग्रहेण क्रीणीयात्
मूलम् - 07
07 तद् अप्यनुग्रहेण क्रीणीयात्
विश्वास-प्रस्तुतिः - 08
08 तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः
मूलम् - 08
08 तस्याकरणे वा समाहर्तृपुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः
विश्वास-प्रस्तुतिः - 09
09 प्रमादावस्कन्नस्यात्ययं द्विगुणं उदाहरन्तो बीजकाले बीजलेख्यं कुर्युः
मूलम् - 09
09 प्रमादावस्कन्नस्यात्ययं द्विगुणं उदाहरन्तो बीजकाले बीजलेख्यं कुर्युः
विश्वास-प्रस्तुतिः - 10
10 निष्पन्ने हरितपक्वादानं वारयेयुः, अन्यत्र शाककटभङ्गमुष्टिभ्यां देवपितृपूजादानार्थं गवार्थं वा
मूलम् - 10
10 निष्पन्ने हरितपक्वादानं वारयेयुः, अन्यत्र शाककटभङ्गमुष्टिभ्यां देवपितृपूजादानार्थं गवार्थं वा
विश्वास-प्रस्तुतिः - 11
11 भिक्षुकग्रामभृतकार्थं च राशिमूलं परिहरेयुः
मूलम् - 11
11 भिक्षुकग्रामभृतकार्थं च राशिमूलं परिहरेयुः
विश्वास-प्रस्तुतिः - 12
12 स्वसस्यापहारिणः प्रतिपातोऽष्टगुणः
मूलम् - 12
12 स्वसस्यापहारिणः प्रतिपातोऽष्टगुणः
विश्वास-प्रस्तुतिः - 13
13 परसस्यापहारिणः पञ्चाशद्गुणः सीताऽत्ययः, स्ववर्गस्य, बाह्यस्य तु वधः
मूलम् - 13
13 परसस्यापहारिणः पञ्चाशद्गुणः सीताऽत्ययः, स्ववर्गस्य, बाह्यस्य तु वधः
विश्वास-प्रस्तुतिः - 14
14 चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूललाक्षाक्षौमवल्ककार्पासरौमकौशेयकौषधगन्धपुष्पफलशाकपण्यानां काष्ठवेणुमांसवल्लूराणां च गृह्णीयुः, दन्ताजिनस्यार्धम्
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहसदण्डः
मूलम् - 15
15 तद् अनिसृष्टं विक्रीणानस्य पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 16
16 इति कर्षकेषु प्रणयः
मूलम् - 16
16 इति कर्षकेषु प्रणयः
विश्वास-प्रस्तुतिः - 17
17 सुवर्णरजतवज्रमणिमुक्ताप्रवालाश्वहस्तिपण्याः पञ्चाशत्कराः
मूलम् - 17
17 सुवर्णरजतवज्रमणिमुक्ताप्रवालाश्वहस्तिपण्याः पञ्चाशत्कराः
विश्वास-प्रस्तुतिः - 18
18 सूत्रवस्त्रताम्रवृत्तकंसगन्धभैषज्यशीधुपण्याश्चत्वारिंशत्कराः
मूलम् - 18
18 सूत्रवस्त्रताम्रवृत्तकंसगन्धभैषज्यशीधुपण्याश्चत्वारिंशत्कराः
विश्वास-प्रस्तुतिः - 19
19 धान्यरसलोहपण्याः शकटव्यवहारिणश्च त्रिंशत्कराः
मूलम् - 19
19 धान्यरसलोहपण्याः शकटव्यवहारिणश्च त्रिंशत्कराः
विश्वास-प्रस्तुतिः - 20
20 काचव्यवहारिणो महाकारवश्च विंशतिकराः
मूलम् - 20
20 काचव्यवहारिणो महाकारवश्च विंशतिकराः
विश्वास-प्रस्तुतिः - 21
21 क्षुद्रकारवो बन्धकीपोषकाश्च दशकराः
मूलम् - 21
21 क्षुद्रकारवो बन्धकीपोषकाश्च दशकराः
विश्वास-प्रस्तुतिः - 22
22 काष्ठवेणुपाषाणमृद्भाण्डपक्वान्नहरितपण्याः पञ्चकराः
मूलम् - 22
22 काष्ठवेणुपाषाणमृद्भाण्डपक्वान्नहरितपण्याः पञ्चकराः
विश्वास-प्रस्तुतिः - 23
23 कुशीलवा रूपाजीवाश्च वेतनार्धं दद्युः
मूलम् - 23
23 कुशीलवा रूपाजीवाश्च वेतनार्धं दद्युः
विश्वास-प्रस्तुतिः - 24
24 हिरण्यकरं कर्मण्यान् आहारयेयुः, न च एषां कञ्चिद् अपराधं परिहरेयुः
मूलम् - 24
24 हिरण्यकरं कर्मण्यान् आहारयेयुः, न च एषां कञ्चिद् अपराधं परिहरेयुः
विश्वास-प्रस्तुतिः - 25
25 ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन्
मूलम् - 25
25 ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन्
विश्वास-प्रस्तुतिः - 26
26 इति व्यवहारिषु प्रणयः
मूलम् - 26
26 इति व्यवहारिषु प्रणयः
विश्वास-प्रस्तुतिः - 27
27 कुक्कुटसूकरं अर्धं दद्यात्, क्षुद्रपशवः षड्भागं, गोमहिषाश्वतरखर उष्ट्राश्च दशभागम्
मूलम् - 27
27 कुक्कुटसूकरं अर्धं दद्यात्, क्षुद्रपशवः षड्भागं, गोमहिषाश्वतरखर उष्ट्राश्च दशभागम्
विश्वास-प्रस्तुतिः - 28
28 बन्धकीपोषका राजप्रेष्याभिः परमरूपयौवनाभिः कोशं संहरेयुः
मूलम् - 28
28 बन्धकीपोषका राजप्रेष्याभिः परमरूपयौवनाभिः कोशं संहरेयुः
विश्वास-प्रस्तुतिः - 29
29 इति योनिपोषकेषु प्रणयः
मूलम् - 29
29 इति योनिपोषकेषु प्रणयः
विश्वास-प्रस्तुतिः - 30
30 सकृद् एव न द्विः प्रयोज्यः
मूलम् - 30
30 सकृद् एव न द्विः प्रयोज्यः
विश्वास-प्रस्तुतिः - 31
31 तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौरजानपदान् भिक्षेत
मूलम् - 31
31 तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौरजानपदान् भिक्षेत
विश्वास-प्रस्तुतिः - 32
32 योगपुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः
मूलम् - 32
32 योगपुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः
विश्वास-प्रस्तुतिः - 33
33 एतेन प्रदेशेन राजा पौरजानपदान् भिक्षेत
मूलम् - 33
33 एतेन प्रदेशेन राजा पौरजानपदान् भिक्षेत
विश्वास-प्रस्तुतिः - 34
34 कापटिकाश्च एनान् अल्पं प्रयच्छतः कुत्सयेयुः
मूलम् - 34
34 कापटिकाश्च एनान् अल्पं प्रयच्छतः कुत्सयेयुः
विश्वास-प्रस्तुतिः - 35
35 सारतो वा हिरण्यं आढ्यान् याचेत, यथा उपकारं वा, स्ववशा वा यद् उपहरेयुः
मूलम् - 35
35 सारतो वा हिरण्यं आढ्यान् याचेत, यथा उपकारं वा, स्ववशा वा यद् उपहरेयुः
विश्वास-प्रस्तुतिः - 36
36 स्थानच्छत्रवेष्टनविभूषाश्च एषां हिरण्येन प्रयच्छेत्
मूलम् - 36
36 स्थानच्छत्रवेष्टनविभूषाश्च एषां हिरण्येन प्रयच्छेत्
विश्वास-प्रस्तुतिः - 37
37 पाषण्डसङ्घद्रव्यं अश्रोत्रिय उपभोग्यं देवद्रव्यं वा कृत्यकराः प्रेतस्य दग्धगृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः
मूलम् - 37

विश्वास-प्रस्तुतिः - 38
38 देवताऽध्यक्षो दुर्गराष्ट्रदेवतानां यथास्वं एकस्थं कोशं कुर्यात्, तथैव च उपहरेत्
मूलम् - 38
38 देवताऽध्यक्षो दुर्गराष्ट्रदेवतानां यथास्वं एकस्थं कोशं कुर्यात्, तथैव च उपहरेत्
विश्वास-प्रस्तुतिः - 39
39 दैवतचैत्यं सिद्धपुण्यस्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रासमाजाभ्यां आजीवेत्
मूलम् - 39
39 दैवतचैत्यं सिद्धपुण्यस्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रासमाजाभ्यां आजीवेत्
विश्वास-प्रस्तुतिः - 40
40 चैत्य उपवनवृक्षेण वा देवताऽभिगमनं अनार्तवपुष्पफलयुक्तेन ख्यापयेत्
मूलम् - 40
40 चैत्य उपवनवृक्षेण वा देवताऽभिगमनं अनार्तवपुष्पफलयुक्तेन ख्यापयेत्
विश्वास-प्रस्तुतिः - 41
41 मनुष्यकरं वा वृक्षे रक्षोभयं प्ररूपयित्वा सिद्धव्यञ्जनाः पौरजानपदानां हिरण्येन प्रतिकुर्युः
मूलम् - 41
41 मनुष्यकरं वा वृक्षे रक्षोभयं प्ररूपयित्वा सिद्धव्यञ्जनाः पौरजानपदानां हिरण्येन प्रतिकुर्युः
विश्वास-प्रस्तुतिः - 42
42 सुरुङ्गायुक्ते वा कूपे नागं अनियतशिरस्कं हिरण्य उपहारेण दर्शयेत्
मूलम् - 42
42 सुरुङ्गायुक्ते वा कूपे नागं अनियतशिरस्कं हिरण्य उपहारेण दर्शयेत्
विश्वास-प्रस्तुतिः - 43
43 नागप्रतिमायां अन्तश्छन्नायां चैत्यच्छिद्रे वल्मीकच्छिद्रे वा सर्पदर्शनं आहारेण प्रतिबद्धसञ्ज्ञं कृत्वा श्रद्दधानानां दर्शयेत्
मूलम् - 43

विश्वास-प्रस्तुतिः - 44
44 अश्रद्दधानानां आचमनप्रोक्षणेषु रसं उपचार्य देवताऽभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा
मूलम् - 44
44 अश्रद्दधानानां आचमनप्रोक्षणेषु रसं उपचार्य देवताऽभिशापं ब्रूयात्, अभित्यक्तं वा दंशयित्वा
विश्वास-प्रस्तुतिः - 45
45 योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात्
मूलम् - 45
45 योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात्
विश्वास-प्रस्तुतिः - 46
46 वैदेहकव्यञ्जनो वा प्रभूतपण्यान्तेवासी व्यवहरेत
मूलम् - 46
46 वैदेहकव्यञ्जनो वा प्रभूतपण्यान्तेवासी व्यवहरेत
विश्वास-प्रस्तुतिः - 47
47 स यदा पण्यमूल्ये निक्षेपप्रयोगैरुपचितः स्यात् तदा एनं रात्रौ मोषयेत्
मूलम् - 47
47 स यदा पण्यमूल्ये निक्षेपप्रयोगैरुपचितः स्यात् तदा एनं रात्रौ मोषयेत्
विश्वास-प्रस्तुतिः - 48
48 एतेन रूपदर्शकः सुवर्णकारश्च व्याख्यातौ
मूलम् - 48
48 एतेन रूपदर्शकः सुवर्णकारश्च व्याख्यातौ
विश्वास-प्रस्तुतिः - 49
49 वैदेहकव्यञ्जनो वा प्रख्यातव्यवहारः प्रहवणनिमित्तं याचितकं अवक्रीतकं वा रूप्यसुवर्णभाण्डं अनेकं गृह्णीयात्
मूलम् - 49

विश्वास-प्रस्तुतिः - 50
50 समाजे वा सर्वपण्यसन्दोहेन प्रभूतं हिरण्यसुवर्णं ऋणं गृह्णीयात्, प्रतिभाण्डमूल्यं च
मूलम् - 50
50 समाजे वा सर्वपण्यसन्दोहेन प्रभूतं हिरण्यसुवर्णं ऋणं गृह्णीयात्, प्रतिभाण्डमूल्यं च
विश्वास-प्रस्तुतिः - 51
51 तद् उभयं रात्रौ मोषयेत्
मूलम् - 51
51 तद् उभयं रात्रौ मोषयेत्
विश्वास-प्रस्तुतिः - 52
52 साध्वीव्यञ्जनाभिः स्त्रीभिर्दूष्यान् उन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्वस्वान्याहरेयुः
मूलम् - 52
52 साध्वीव्यञ्जनाभिः स्त्रीभिर्दूष्यान् उन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्वस्वान्याहरेयुः
विश्वास-प्रस्तुतिः - 53
53 दूष्यकुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः
मूलम् - 53
53 दूष्यकुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः
विश्वास-प्रस्तुतिः - 54
54 तेन दोषेण इतरे पर्यादातव्याः
मूलम् - 54
54 तेन दोषेण इतरे पर्यादातव्याः
विश्वास-प्रस्तुतिः - 55
55 दूष्यं अभित्यक्तो वा श्रद्धेयापदेशं पण्यं हिरण्यनिक्षेपं ऋणप्रयोगं दायं वा याचेत
मूलम् - 55
55 दूष्यं अभित्यक्तो वा श्रद्धेयापदेशं पण्यं हिरण्यनिक्षेपं ऋणप्रयोगं दायं वा याचेत
विश्वास-प्रस्तुतिः - 56
56 दासशब्देन वा दूष्यं आलम्बेत, भार्यां अस्य स्नुषां दुहितरं वा दासीशब्देन भार्याशब्देन वा
मूलम् - 56
56 दासशब्देन वा दूष्यं आलम्बेत, भार्यां अस्य स्नुषां दुहितरं वा दासीशब्देन भार्याशब्देन वा
विश्वास-प्रस्तुतिः - 57
57 तं दूष्यगृहप्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात् हतोऽयं अर्थकामुकः इति
मूलम् - 57

विश्वास-प्रस्तुतिः - 58
58 तेन दोषेण इतरे पर्यादातव्याः
मूलम् - 58
58 तेन दोषेण इतरे पर्यादातव्याः
विश्वास-प्रस्तुतिः - 59
59 सिद्धव्यञ्जनो वा दूष्यं जम्भकविद्याभिः प्रलोभयित्वा ब्रूयात् अक्षयहिरण्यं राजद्वारिकं स्त्रीहृदयं अरिव्याधिकरं आयुष्यं पुत्रीयं वा कर्म जानामि इति
मूलम् - 59

विश्वास-प्रस्तुतिः - 60
60 प्रतिपन्नं चैत्यस्थाने रात्रौ प्रभूतसुरामांसगन्धं उपहारं कारयेत्
मूलम् - 60
60 प्रतिपन्नं चैत्यस्थाने रात्रौ प्रभूतसुरामांसगन्धं उपहारं कारयेत्
विश्वास-प्रस्तुतिः - 61
61 एकरूपं चात्र हिरण्यं पूर्वनिखातं प्रेताङ्गं प्रेतशिशुर्वा यत्र निहितः स्यात्, ततो हिरण्यं अस्य दर्शयेद् अत्यल्पम् इति च ब्रूयात्
मूलम् - 61

विश्वास-प्रस्तुतिः - 62
62 प्रभूतहिरण्यहेतोः पुनरुपहारः कर्तव्य इति स्वयं एव एतेन हिरण्येन श्वोभूते प्रभूतं औपहारिकं क्रीणीहि इति
मूलम् - 62

विश्वास-प्रस्तुतिः - 63
63 स तेन हिरण्येनाउपहारिकक्रये गृह्येत
मूलम् - 63
63 स तेन हिरण्येनाउपहारिकक्रये गृह्येत
विश्वास-प्रस्तुतिः - 64
64 मातृव्यञ्जनया वा पुत्रो मे त्वया हतः इत्यवकुपिता स्यात्
मूलम् - 64
64 मातृव्यञ्जनया वा पुत्रो मे त्वया हतः इत्यवकुपिता स्यात्
विश्वास-प्रस्तुतिः - 65
65 संसिद्धं एवास्य रात्रियागे वनयागे वनक्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः
मूलम् - 65

विश्वास-प्रस्तुतिः - 66
66 दूष्यस्य वा भृतकव्यञ्जनो वेतनहिरण्ये कूटरूपं प्रक्षिप्य प्ररूपयेत्
मूलम् - 66
66 दूष्यस्य वा भृतकव्यञ्जनो वेतनहिरण्ये कूटरूपं प्रक्षिप्य प्ररूपयेत्
विश्वास-प्रस्तुतिः - 67
67 कर्मकरव्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेनकूटरूपकारक उपकरणं उपनिदध्यात्, चिकित्सकव्यञ्जनो वा गरं अगदापदेशेन
मूलम् - 67

विश्वास-प्रस्तुतिः - 68
68 प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेकभाण्डं अमित्रशासनं च कापटिकमुखेनाचक्षीत, कारणं च ब्रूयात्
मूलम् - 68

विश्वास-प्रस्तुतिः - 69
69 एवं दूष्येष्वधार्मिकेषु च वर्तेत, न इतरेषु
मूलम् - 69
69 एवं दूष्येष्वधार्मिकेषु च वर्तेत, न इतरेषु
विश्वास-प्रस्तुतिः - 70
70ab पक्वं पक्वं इवारामात् फलं राज्याद् अवाप्नुयात् ।
70chd आत्मच्छेदभयाद् आमं वर्जयेत् कोपकारकम् (इति)
मूलम् - 70