Punishments for transgressions
विश्वास-प्रस्तुतिः - 01
01 ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहसदण्डः, शूद्रं चतुष्पञ्चाशत्पणो दण्डः
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 स्वयं ग्रसितारो निर्विषयाः कार्याः
मूलम् - 02
02 स्वयं ग्रसितारो निर्विषयाः कार्याः
विश्वास-प्रस्तुतिः - 03
03 परगृहाभिगमने दिवा पूर्वः साहसदण्डः, रात्रौ मध्यमः
मूलम् - 03
03 परगृहाभिगमने दिवा पूर्वः साहसदण्डः, रात्रौ मध्यमः
विश्वास-प्रस्तुतिः - 04
04 दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः
मूलम् - 04
04 दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः
विश्वास-प्रस्तुतिः - 05
05 भिक्षुकवैदेहकौ मत्त उन्मत्तौ बलाद् आपदि चातिसन्निकृष्टाः प्रवृत्तप्रवेशाश्चादण्ड्याः, अन्यत्र प्रतिषेधात्
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 स्ववेश्मनो विरात्राद् ऊर्ध्वं परिवारं आरोहतः पूर्वः साहसदण्डः, परवेश्मनो मध्यमः, ग्रामारामवाटभेदिनश्च
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 ग्रामेष्वन्तः सार्थिका ज्ञातसारा वसेयुः
मूलम् - 07
07 ग्रामेष्वन्तः सार्थिका ज्ञातसारा वसेयुः
विश्वास-प्रस्तुतिः - 08
08 मुषितं प्रवासितं च एषां अनिर्गतं रात्रौ ग्रामस्वामी दद्यात्
मूलम् - 08
08 मुषितं प्रवासितं च एषां अनिर्गतं रात्रौ ग्रामस्वामी दद्यात्
विश्वास-प्रस्तुतिः - 09
09 ग्रामान्तरेषु वा मुषितं प्रवासितं विवीताध्यक्षो दद्यात्
मूलम् - 09
09 ग्रामान्तरेषु वा मुषितं प्रवासितं विवीताध्यक्षो दद्यात्
विश्वास-प्रस्तुतिः - 10
10 अविवीतानां चोररज्जुकः
मूलम् - 10
10 अविवीतानां चोररज्जुकः
विश्वास-प्रस्तुतिः - 11
11 तथाऽप्यगुप्तानां सीमावरोधेन विचयं दद्युः
मूलम् - 11
11 तथाऽप्यगुप्तानां सीमावरोधेन विचयं दद्युः
विश्वास-प्रस्तुतिः - 12
12 असीमावरोधे पञ्चग्रामी दशग्रामी वा
मूलम् - 12
12 असीमावरोधे पञ्चग्रामी दशग्रामी वा
विश्वास-प्रस्तुतिः - 13
13 दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्धस्तम्भं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्यं विद्यात्
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 वृक्षच्छेदने दंयरश्मिहरणे चतुष्पदानां अदान्तसेवने वाहने वा काष्ठलोष्टपाषाणदण्डबाणबाहुविक्षेपणेषु याने हस्तिना च स्मघट्टने अपेहि इति प्रकोशन्न् अदण्ड्यः
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 हस्तिना रोषितेन हतो द्रोणान्नं मद्यकुम्भं माल्यानुलेपनं दन्तप्रमार्जनं च पटं दद्यात्
मूलम् - 15
15 हस्तिना रोषितेन हतो द्रोणान्नं मद्यकुम्भं माल्यानुलेपनं दन्तप्रमार्जनं च पटं दद्यात्
विश्वास-प्रस्तुतिः - 16
16 अश्वमेधावभृथस्नानेन तुल्यो हस्तिना वध इति पादप्रक्षालनम्
मूलम् - 16
16 अश्वमेधावभृथस्नानेन तुल्यो हस्तिना वध इति पादप्रक्षालनम्
विश्वास-प्रस्तुतिः - 17
17 उदासीनवधे यातुरुत्तमो दण्डः
मूलम् - 17
17 उदासीनवधे यातुरुत्तमो दण्डः
विश्वास-प्रस्तुतिः - 18
18 शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहसदण्डः, प्रतिक्रुष्टस्य द्विगुणः
मूलम् - 18
18 शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहसदण्डः, प्रतिक्रुष्टस्य द्विगुणः
विश्वास-प्रस्तुतिः - 19
19 शृङ्गिदंष्ट्रिभ्यां अन्योन्यं घातयतः तच्च तावच्च दण्डः
मूलम् - 19
19 शृङ्गिदंष्ट्रिभ्यां अन्योन्यं घातयतः तच्च तावच्च दण्डः
विश्वास-प्रस्तुतिः - 20
20 देवपशुं ऋषभं उक्षाणं गोकुमारीं वा वाहयतः पञ्चशतो दण्डः, प्रवासयत उत्तमः
मूलम् - 20
20 देवपशुं ऋषभं उक्षाणं गोकुमारीं वा वाहयतः पञ्चशतो दण्डः, प्रवासयत उत्तमः
विश्वास-प्रस्तुतिः - 21
21 लोमदोहवाहनप्रजनन उपकारिणां क्षुद्रपशूनां अदाने तच्च तावच्च दण्डः, प्रवासने च, अन्यत्र देवपितृकार्येभ्यः
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22 छिन्ननस्यं भग्नयुगं तिर्यक्प्रतिमुखागतं प्रत्यासरद् वा चक्रयुक्तं याता पशुमनुष्यसम्बाधे वा हिंसायां अदण्ड्यः
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 अन्यथा यथा उक्तं मानुषप्राणिहिंसायां दण्डं अभ्यावहेत्
मूलम् - 23
23 अन्यथा यथा उक्तं मानुषप्राणिहिंसायां दण्डं अभ्यावहेत्
विश्वास-प्रस्तुतिः - 24
24 अमानुषप्राणिवधे प्राणिदानं च
मूलम् - 24
24 अमानुषप्राणिवधे प्राणिदानं च
विश्वास-प्रस्तुतिः - 25
25 बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्तव्यवहारो वा याता
मूलम् - 25
25 बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्तव्यवहारो वा याता
विश्वास-प्रस्तुतिः - 26
26 बालाधिष्ठितं अपुरुषं वा यानं राजा हरेत्
मूलम् - 26
26 बालाधिष्ठितं अपुरुषं वा यानं राजा हरेत्
विश्वास-प्रस्तुतिः - 27
27 कृत्याभिचाराभ्यां यत्परं आपादयेत् तद्।आपादयितव्यः
मूलम् - 27
27 कृत्याभिचाराभ्यां यत्परं आपादयेत् तद्।आपादयितव्यः
विश्वास-प्रस्तुतिः - 28
28 कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दारार्थिनो भर्तरि भार्याया वा संवदनकरणम्
मूलम् - 28
28 कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दारार्थिनो भर्तरि भार्याया वा संवदनकरणम्
विश्वास-प्रस्तुतिः - 29
29 अन्यथाहिंसायां मध्यमः साहसदण्डः
मूलम् - 29
29 अन्यथाहिंसायां मध्यमः साहसदण्डः
विश्वास-प्रस्तुतिः - 30
30 मातापित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाऽधिचरतः त्रिलिङ्गच्छेदनं वधश्च
मूलम् - 30
30 मातापित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाऽधिचरतः त्रिलिङ्गच्छेदनं वधश्च
विश्वास-प्रस्तुतिः - 31
31 सकामा तद् एव लभेत, दासपरिचारकाहितकभुक्ता च
मूलम् - 31
31 सकामा तद् एव लभेत, दासपरिचारकाहितकभुक्ता च
विश्वास-प्रस्तुतिः - 32
32 ब्राह्मण्यां अगुप्तायां क्षत्रियस्य उत्तमः, सर्वस्वं वैश्यस्य, शूद्रः कटाग्निना दह्येत
मूलम् - 32
32 ब्राह्मण्यां अगुप्तायां क्षत्रियस्य उत्तमः, सर्वस्वं वैश्यस्य, शूद्रः कटाग्निना दह्येत
विश्वास-प्रस्तुतिः - 33
33 सर्वत्र राजभार्यागमने कुम्भीपाकः
मूलम् - 33
33 सर्वत्र राजभार्यागमने कुम्भीपाकः
विश्वास-प्रस्तुतिः - 34
34 श्वपाकीगमने कृतकबन्धाङ्कः परविषयं गच्छेत्, श्वपाकत्वं वा शूद्रः
मूलम् - 34
34 श्वपाकीगमने कृतकबन्धाङ्कः परविषयं गच्छेत्, श्वपाकत्वं वा शूद्रः
विश्वास-प्रस्तुतिः - 35
35 श्वपाकस्यार्यागमने वधः, स्त्रियाः कर्णनासाच्छेदनम्
मूलम् - 35
35 श्वपाकस्यार्यागमने वधः, स्त्रियाः कर्णनासाच्छेदनम्
विश्वास-प्रस्तुतिः - 36
36 प्रव्रजितागमने चतुर्विंशतिपणो दण्डः
मूलम् - 36
36 प्रव्रजितागमने चतुर्विंशतिपणो दण्डः
विश्वास-प्रस्तुतिः - 37
37 सकामा तद् एव लभेत
मूलम् - 37
37 सकामा तद् एव लभेत
विश्वास-प्रस्तुतिः - 38
38 रूपाजीवायाः प्रसह्य उपभोगे द्वादशपणो दण्डः
मूलम् - 38
38 रूपाजीवायाः प्रसह्य उपभोगे द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 39
39 बहूनां एकां अधिचरतां पृथक् चतुर्विंशतिपणो दण्डः
मूलम् - 39
39 बहूनां एकां अधिचरतां पृथक् चतुर्विंशतिपणो दण्डः
विश्वास-प्रस्तुतिः - 40
40 स्त्रियं अयोनौ गच्छतः पूर्वः साहसदण्डः, पुरुषं अधिमेहतश्च
मूलम् - 40
40 स्त्रियं अयोनौ गच्छतः पूर्वः साहसदण्डः, पुरुषं अधिमेहतश्च
विश्वास-प्रस्तुतिः - 41
41ab मैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः ।
41chd दैवतप्रतिमानां च गमने द्विगुणः स्मृतः
मूलम् - 41
41ab मैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः ।
41chd दैवतप्रतिमानां च गमने द्विगुणः स्मृतः
विश्वास-प्रस्तुतिः - 42
42ab अदण्ड्यदण्डने राज्ञो दण्डः त्रिंशद्गुणोऽम्भसि ।
42chd वरुणाय प्रदातव्यो ब्राह्मणेभ्यः ततः परम्
मूलम् - 42
42ab अदण्ड्यदण्डने राज्ञो दण्डः त्रिंशद्गुणोऽम्भसि ।
42chd वरुणाय प्रदातव्यो ब्राह्मणेभ्यः ततः परम्
विश्वास-प्रस्तुतिः - 43
43ab तेन तत् पूयते पापं राज्ञो दण्डापचारजम् ।
43chd शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु (इति)
मूलम् - 43