Violation of maidens
विश्वास-प्रस्तुतिः - 01
01 सवर्णां अप्राप्तफलां प्रकुर्वतो हस्तवधः, चतुःशतो वा दण्डः
मूलम् - 01
01 सवर्णां अप्राप्तफलां प्रकुर्वतो हस्तवधः, चतुःशतो वा दण्डः
विश्वास-प्रस्तुतिः - 02
02 मृतायां वधः
मूलम् - 02
02 मृतायां वधः
विश्वास-प्रस्तुतिः - 03
03 प्राप्तफलां प्रकुर्वतो मध्यमाप्रदेशिनीवधो, द्विशतो वा दण्डः
मूलम् - 03
03 प्राप्तफलां प्रकुर्वतो मध्यमाप्रदेशिनीवधो, द्विशतो वा दण्डः
विश्वास-प्रस्तुतिः - 04
04 पितुश्चावहीनं दद्यात्
मूलम् - 04
04 पितुश्चावहीनं दद्यात्
विश्वास-प्रस्तुतिः - 05
05 न च प्राकाम्यं अकामायां लब्भेत
मूलम् - 05
05 न च प्राकाम्यं अकामायां लब्भेत
विश्वास-प्रस्तुतिः - 06
06 सकामायां चतुष्पञ्चाशत्पणो दण्डः, स्त्रियाः त्वर्धदण्डः
मूलम् - 06
06 सकामायां चतुष्पञ्चाशत्पणो दण्डः, स्त्रियाः त्वर्धदण्डः
विश्वास-प्रस्तुतिः - 07
07 परशुल्कावरुद्धायां हस्तवधः, चतुःशतो वा दण्डः, शुल्कदानं च
मूलम् - 07
07 परशुल्कावरुद्धायां हस्तवधः, चतुःशतो वा दण्डः, शुल्कदानं च
विश्वास-प्रस्तुतिः - 08
08 सप्तार्तवप्रजातां वरणाद् ऊर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुरवहीनं दद्यात्
मूलम् - 08
08 सप्तार्तवप्रजातां वरणाद् ऊर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुरवहीनं दद्यात्
विश्वास-प्रस्तुतिः - 09
09 ऋतुप्रतिरोधिभिः स्वाम्याद् अपक्रामति
मूलम् - 09
09 ऋतुप्रतिरोधिभिः स्वाम्याद् अपक्रामति
विश्वास-प्रस्तुतिः - 10
10 त्रिवर्षप्रजातार्तवायाः तुल्यो गन्तुं अदोषः, ततः परं अतुल्योऽप्यनलङ्कृतायाः
मूलम् - 10
10 त्रिवर्षप्रजातार्तवायाः तुल्यो गन्तुं अदोषः, ततः परं अतुल्योऽप्यनलङ्कृतायाः
विश्वास-प्रस्तुतिः - 11
11 पितृद्रव्यादाने स्तेयं भजेत
मूलम् - 11
11 पितृद्रव्यादाने स्तेयं भजेत
विश्वास-प्रस्तुतिः - 12
12 परं उद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः
मूलम् - 12
12 परं उद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः
विश्वास-प्रस्तुतिः - 13
13 न च प्राकांयं अकामायां लभेत
मूलम् - 13
13 न च प्राकांयं अकामायां लभेत
विश्वास-प्रस्तुतिः - 14
14 कन्यां अन्यां दर्शयित्वाऽन्यां प्रयच्छतः शत्यो दण्डः तुल्यायां, हीनायां द्विगुणः
मूलम् - 14
14 कन्यां अन्यां दर्शयित्वाऽन्यां प्रयच्छतः शत्यो दण्डः तुल्यायां, हीनायां द्विगुणः
विश्वास-प्रस्तुतिः - 15
15 प्रकर्मण्यकुमार्याश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कव्ययकर्मणी च प्रतिदद्यात्
मूलम् - 15
15 प्रकर्मण्यकुमार्याश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कव्ययकर्मणी च प्रतिदद्यात्
विश्वास-प्रस्तुतिः - 16
16 अवस्थाय तज्जातं पश्चात्कृता द्विगुणं दद्यात्
मूलम् - 16
16 अवस्थाय तज्जातं पश्चात्कृता द्विगुणं दद्यात्
विश्वास-प्रस्तुतिः - 17
17 अन्यशोणित उपधाने द्विशतो दण्डः, मिथ्याऽभिशंसिनश्च पुंसः
मूलम् - 17
17 अन्यशोणित उपधाने द्विशतो दण्डः, मिथ्याऽभिशंसिनश्च पुंसः
विश्वास-प्रस्तुतिः - 18
18 शुल्कव्ययकर्मणी च जीयेत
मूलम् - 18
18 शुल्कव्ययकर्मणी च जीयेत
विश्वास-प्रस्तुतिः - 19
19 न च प्राकांयं अकामायां लभेत
मूलम् - 19
19 न च प्राकांयं अकामायां लभेत
विश्वास-प्रस्तुतिः - 20
20 स्त्रीप्रकृता सकामा समाना द्वादशपणं दण्डं दद्यात्, प्रकर्त्री द्विगुणम्
मूलम् - 20
20 स्त्रीप्रकृता सकामा समाना द्वादशपणं दण्डं दद्यात्, प्रकर्त्री द्विगुणम्
विश्वास-प्रस्तुतिः - 21
21 अकामायाः शत्यो दण्ड आत्मरागार्थं, शुल्कदानं च
मूलम् - 21
21 अकामायाः शत्यो दण्ड आत्मरागार्थं, शुल्कदानं च
विश्वास-प्रस्तुतिः - 22
22 स्वयं प्रकृता राजदास्यं गच्छेत्
मूलम् - 22
22 स्वयं प्रकृता राजदास्यं गच्छेत्
विश्वास-प्रस्तुतिः - 23
23 बहिर्ग्रामस्य प्रकृतायां मिथ्याऽभिशंसने च द्विगुणो दण्डः
मूलम् - 23
23 बहिर्ग्रामस्य प्रकृतायां मिथ्याऽभिशंसने च द्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 24
24 प्रसह्य कन्यां अपहरतो द्विशतः, स-सुवर्णां उत्तमः
मूलम् - 24
24 प्रसह्य कन्यां अपहरतो द्विशतः, स-सुवर्णां उत्तमः
विश्वास-प्रस्तुतिः - 25
25 बहूनां कन्याऽपहारिणां पृथग् यथा उक्ता दण्डाः
मूलम् - 25
25 बहूनां कन्याऽपहारिणां पृथग् यथा उक्ता दण्डाः
विश्वास-प्रस्तुतिः - 26
26 गणिकादुहितरं प्रकुर्वतश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कं मातुर्भोगः षोडशगुणः
मूलम् - 26
26 गणिकादुहितरं प्रकुर्वतश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कं मातुर्भोगः षोडशगुणः
विश्वास-प्रस्तुतिः - 27
27 दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्विंशतिपणो दण्डः शुल्काबन्ध्यदानं च
मूलम् - 27
27 दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्विंशतिपणो दण्डः शुल्काबन्ध्यदानं च
विश्वास-प्रस्तुतिः - 28
28 निष्क्रयानुरूपां दासीं प्रकुर्वतो द्वादशपणो दण्डो वस्त्राबन्ध्यदानं च
मूलम् - 28
28 निष्क्रयानुरूपां दासीं प्रकुर्वतो द्वादशपणो दण्डो वस्त्राबन्ध्यदानं च
विश्वास-प्रस्तुतिः - 29
29 साचिव्यावकाशदाने कर्तृसमो दण्डः
मूलम् - 29
29 साचिव्यावकाशदाने कर्तृसमो दण्डः
विश्वास-प्रस्तुतिः - 30
30 प्रोषितपतिकां अपचरन्तीं पतिबन्धुः तत्पुरुषो वा सङ्गृह्णीयात्
मूलम् - 30
30 प्रोषितपतिकां अपचरन्तीं पतिबन्धुः तत्पुरुषो वा सङ्गृह्णीयात्
विश्वास-प्रस्तुतिः - 31
31 सङ्गृहीता पतिं आकाङ्क्षेत
मूलम् - 31
31 सङ्गृहीता पतिं आकाङ्क्षेत
विश्वास-प्रस्तुतिः - 32
32 पतिश्चेत् क्षमेत विसृज्येत उभयम्
मूलम् - 32
32 पतिश्चेत् क्षमेत विसृज्येत उभयम्
विश्वास-प्रस्तुतिः - 33
33 अक्षमायां स्त्रियाः कर्णनासाच्छेदनं, वधं जारश्च प्राप्नुयात्
मूलम् - 33
33 अक्षमायां स्त्रियाः कर्णनासाच्छेदनं, वधं जारश्च प्राप्नुयात्
विश्वास-प्रस्तुतिः - 34
34 जारं चोर इत्यभिहरतः पञ्चशतो दण्डः, हिरण्येन मुञ्चतः तद्ऽष्टगुणः
मूलम् - 34
34 जारं चोर इत्यभिहरतः पञ्चशतो दण्डः, हिरण्येन मुञ्चतः तद्ऽष्टगुणः
विश्वास-प्रस्तुतिः - 35
35 केशाकेशिकं सङ्ग्रहणं, उपलिङ्गनाद् वा शरीर उपभोगानां, तज्जातेभ्यः(तज्ज्ञातेभ्यः? chf.N12.60), स्त्रीवचनाद् वा
मूलम् - 35

विश्वास-प्रस्तुतिः - 36
36 परचक्राटवीहृतां ओघप्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेतभाव उत्सृष्टां वा परस्त्रियं निस्तारयित्वा यथासम्भाषितं समुपभुञ्जीत
मूलम् - 36

विश्वास-प्रस्तुतिः - 37
37 जातिविशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात्
मूलम् - 37
37 जातिविशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात्
विश्वास-प्रस्तुतिः - 38
38ab चोरहस्तान्नदीवेगाद् दुर्भिक्षाद् देशविभ्रमात् ।
38chd निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृता इति वा
मूलम् - 38

विश्वास-प्रस्तुतिः - 39
39ab भुञ्जीत स्त्रियं अन्येषां यथासम्भाषितं नरः ।
39chd न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा
मूलम् - 39
39ab भुञ्जीत स्त्रियं अन्येषां यथासम्भाषितं नरः ।
39chd न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा
विश्वास-प्रस्तुतिः - 40
40ab न च उत्तमां न चाकामां पूर्वापत्यवतीं न च ।
40chd ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् (इति)
मूलम् - 40