Law of capital punishment, simple and with torture
विश्वास-प्रस्तुतिः - 01
01 कलहे घ्नतः पुरुषं चित्रो घातः
मूलम् - 01
01 कलहे घ्नतः पुरुषं चित्रो घातः
विश्वास-प्रस्तुतिः - 02
02 सप्तरात्रस्यान्तर्मृते शुद्धवधः, पक्षस्यान्तरुत्तमः, मासस्यान्तः पञ्चशतः समुत्थानव्ययश्च
मूलम् - 02
02 सप्तरात्रस्यान्तर्मृते शुद्धवधः, पक्षस्यान्तरुत्तमः, मासस्यान्तः पञ्चशतः समुत्थानव्ययश्च
विश्वास-प्रस्तुतिः - 03
03 शस्त्रेण प्रहरत उत्तमो दण्डः
मूलम् - 03
03 शस्त्रेण प्रहरत उत्तमो दण्डः
विश्वास-प्रस्तुतिः - 04
04 मदेन हस्तवधः, मोहेन द्विशतः
मूलम् - 04
04 मदेन हस्तवधः, मोहेन द्विशतः
विश्वास-प्रस्तुतिः - 05
05 वधे वधः
मूलम् - 05
05 वधे वधः
विश्वास-प्रस्तुतिः - 06
06 प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहसदण्डः
मूलम् - 06
06 प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 07
07 प्रसभस्त्रीपुरुषघातकाभिसारकनिग्राहकावघोषकावस्कन्दक उपवेधकान् पथिवेश्मप्रतिरोधकान् राजहस्त्य्ऽश्वरथानां हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 यश्च एनान् दहेद् अपनयेद् वा स तं एव दण्डं लभेत, साहसं उत्तमं वा
मूलम् - 08
08 यश्च एनान् दहेद् अपनयेद् वा स तं एव दण्डं लभेत, साहसं उत्तमं वा
विश्वास-प्रस्तुतिः - 09
09 हिंस्रस्तेनानां भक्तवास उपकरणाग्निमन्त्रदानवैयावृत्यकर्मसु उत्तमो दण्डः, परिभाषणं अविज्ञाते
मूलम् - 09
09 हिंस्रस्तेनानां भक्तवास उपकरणाग्निमन्त्रदानवैयावृत्यकर्मसु उत्तमो दण्डः, परिभाषणं अविज्ञाते
विश्वास-प्रस्तुतिः - 10
10 हिंस्रस्तेनानां पुत्रदारं असमन्त्रं विसृजेत्, समन्त्रं आददीत
मूलम् - 10
10 हिंस्रस्तेनानां पुत्रदारं असमन्त्रं विसृजेत्, समन्त्रं आददीत
विश्वास-प्रस्तुतिः - 11
11 राज्यकामुकं अन्तःपुरप्रधर्षकं अटव्य्ऽमित्र उत्साहकं दुर्गराष्ट्रदण्डकोपकं वा शिरोहस्तप्रदीपिकं घातयेत्
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 ब्राह्मणं तमः प्रवेशयेत्
मूलम् - 12
12 ब्राह्मणं तमः प्रवेशयेत्
विश्वास-प्रस्तुतिः - 13
13 मातृपितृपुत्रभ्रात्र्।आचार्यतपस्विघातकं वाऽत्वक्षिरःप्रादीपिकं घातयेत्
मूलम् - 13
13 मातृपितृपुत्रभ्रात्र्।आचार्यतपस्विघातकं वाऽत्वक्षिरःप्रादीपिकं घातयेत्
विश्वास-प्रस्तुतिः - 14
14 तेषां आक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तद्ऽङ्गान् मोच्यः
मूलम् - 14
14 तेषां आक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तद्ऽङ्गान् मोच्यः
विश्वास-प्रस्तुतिः - 15
15 यदृच्छाघाते पुंसः पशुयूथस्तेये च शुद्धवधः
मूलम् - 15
15 यदृच्छाघाते पुंसः पशुयूथस्तेये च शुद्धवधः
विश्वास-प्रस्तुतिः - 16
16 दशावरं च यूथं विद्यात्
मूलम् - 16
16 दशावरं च यूथं विद्यात्
विश्वास-प्रस्तुतिः - 17
17 उदकधारणं सेतुं भिन्दतः तत्र एवाप्सु निमज्जनं, अनुदकं उत्तमः साहसदण्डः, भग्न उत्सृष्टकं मध्यमः
मूलम् - 17
17 उदकधारणं सेतुं भिन्दतः तत्र एवाप्सु निमज्जनं, अनुदकं उत्तमः साहसदण्डः, भग्न उत्सृष्टकं मध्यमः
विश्वास-प्रस्तुतिः - 18
18 विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीं अपः प्रवेशयेद् अगर्भिणीं, गर्भिणीं मासावरप्रजाताम्
मूलम् - 18
18 विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीं अपः प्रवेशयेद् अगर्भिणीं, गर्भिणीं मासावरप्रजाताम्
विश्वास-प्रस्तुतिः - 19
19 पतिगुरुप्रजाघातिकां अग्निविषदां सन्धिच्छेदिकां वा गोभिः पाटयेत्
मूलम् - 19
19 पतिगुरुप्रजाघातिकां अग्निविषदां सन्धिच्छेदिकां वा गोभिः पाटयेत्
विश्वास-प्रस्तुतिः - 20
20 विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकं अग्निना दाहयेत्
मूलम् - 20
20 विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकं अग्निना दाहयेत्
विश्वास-प्रस्तुतिः - 21
21 राजाक्रोशकमन्त्रभेदकयोरनिष्टप्रवृत्तिकस्य ब्राह्मणमहानसावलेहिनश्च जिह्वां उत्पाटयेत्
मूलम् - 21
21 राजाक्रोशकमन्त्रभेदकयोरनिष्टप्रवृत्तिकस्य ब्राह्मणमहानसावलेहिनश्च जिह्वां उत्पाटयेत्
विश्वास-प्रस्तुतिः - 22
22 प्रहरणावरणस्तेनं अनायुधीयं इषुभिर्घातयेत्
मूलम् - 22
22 प्रहरणावरणस्तेनं अनायुधीयं इषुभिर्घातयेत्
विश्वास-प्रस्तुतिः - 23
23 आयुधीयस्य उत्तमः
मूलम् - 23
23 आयुधीयस्य उत्तमः
विश्वास-प्रस्तुतिः - 24
24 मेढ्रफल उपघातिनः तद् एवच्छेदयेत्
मूलम् - 24
24 मेढ्रफल उपघातिनः तद् एवच्छेदयेत्
विश्वास-प्रस्तुतिः - 25
25 जिह्वानास उपघाते सन्दंशवधः
मूलम् - 25
25 जिह्वानास उपघाते सन्दंशवधः
विश्वास-प्रस्तुतिः - 26
26ab एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनाम् ।
26chd अक्लिष्टानां तु पापानां धर्म्यः शुद्धवधः स्मृतः (इति)
मूलम् - 26