Redemption from the cutting of individual limbs
विश्वास-प्रस्तुतिः - 01
01 तीर्थघातग्रन्थिभेद ऊर्ध्वकराणां प्रथमेऽपराधे सन्देशच्छेदनं चतुष्पञ्चाशत्पणो वा दण्डः, द्वितीये छेदनं पणस्य शत्यो वा दण्डः, तृतीये दक्षिणहस्तवधश्चतुःशतो वा दण्डः, चतुर्थे यथाकामी वधः
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 पञ्चविंशतिपणावरेषु कुक्कुटनकुलमार्जारश्वसूकरस्तेयेषु हिंसायां वा चतुष्पञ्चाशत्पणो दण्डः, नासाग्रच्छेदनं वाचण्डालारण्यचराणां अर्धदण्डाः
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 पाशजालकूटावपातेषु बद्धानां मृगपशुपक्षिव्यालमत्स्यानां आदाने तच्च तावच्च दण्डः
मूलम् - 03
03 पाशजालकूटावपातेषु बद्धानां मृगपशुपक्षिव्यालमत्स्यानां आदाने तच्च तावच्च दण्डः
विश्वास-प्रस्तुतिः - 04
04 मृगद्रव्यवनान् मृगद्रव्यापहारे शात्यो दण्डः
मूलम् - 04
04 मृगद्रव्यवनान् मृगद्रव्यापहारे शात्यो दण्डः
विश्वास-प्रस्तुतिः - 05
05 बिम्बविहारमृगपक्षिस्तेये हिंसायां वा द्विगुणो दण्डः
मूलम् - 05
05 बिम्बविहारमृगपक्षिस्तेये हिंसायां वा द्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 06
06 कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शत्यो दण्डः, स्थूलकद्रव्यापहारे द्विशतः, कृषिद्रव्यापहारे च
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 दुर्गं अकृतप्रवेशस्य प्रविशतः प्राकारच्छिद्राद् वा निक्षेपं गृहीत्वाऽपसरतः काण्डरावधो, द्विशातो वा दण्डः
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 चक्रयुक्तं नावं क्षुद्रपशुं वाऽपहरत एकपादवधः, त्रिशतो वा दण्डः
मूलम् - 08
08 चक्रयुक्तं नावं क्षुद्रपशुं वाऽपहरत एकपादवधः, त्रिशतो वा दण्डः
विश्वास-प्रस्तुतिः - 09
09 कूटकाकण्य्ऽक्षारालाशलाकाहस्तविषमकारिण एकहस्तवधः, चतुःशतो वा दण्डः
मूलम् - 09
09 कूटकाकण्य्ऽक्षारालाशलाकाहस्तविषमकारिण एकहस्तवधः, चतुःशतो वा दण्डः
विश्वास-प्रस्तुतिः - 10
10 स्तेनपारदारिकयोः साचिव्यकर्मणि स्त्रियाः सङ्गृहीतायाश्च कर्णनासाच्छेदनं, पञ्चशतो वा दण्डः, पुंषो द्विगुणः
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 महापशुं एकं दासं दासीं वाऽपहरतः प्रेतभाण्डं वा विक्रीणानस्य द्विपादवधः, षट्छतो वा दण्डः
मूलम् - 11
11 महापशुं एकं दासं दासीं वाऽपहरतः प्रेतभाण्डं वा विक्रीणानस्य द्विपादवधः, षट्छतो वा दण्डः
विश्वास-प्रस्तुतिः - 12
12 वर्ण उत्तमानां गुरूणां च हस्तपादलङ्घने राजयानवाहनाद्य्।आरोहणे च एकहस्तपादवधः, सप्तशतो वा दण्डः
मूलम् - 12
12 वर्ण उत्तमानां गुरूणां च हस्तपादलङ्घने राजयानवाहनाद्य्।आरोहणे च एकहस्तपादवधः, सप्तशतो वा दण्डः
विश्वास-प्रस्तुतिः - 13
13 शूद्रस्य ब्राह्मणवादिनो देवद्रव्यं अवस्तृणतो राजद्विष्टं आदिशतो द्विनेत्रभेदिनश्च योगाञ्जनेनान्धत्वं, अष्टशतो वा दण्डः
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 चोरं पारदारिकं वा मोक्षयतो राजशासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा स-हिरण्यं अपरहतः कूटव्यवहारिणो विमांसविक्रयिणश्च वामहस्तद्विपादवधो, नवशतो वा दण्डः
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 मानुषमांसविक्रये वधः
मूलम् - 15
15 मानुषमांसविक्रये वधः
विश्वास-प्रस्तुतिः - 16
16 देवपशुप्रतिमामनुष्यक्षेत्रगृहहिरण्यसुवर्णरत्नसस्यापहारिण उत्तमो दण्डः, शुद्धवधो वा
मूलम् - 16
16 देवपशुप्रतिमामनुष्यक्षेत्रगृहहिरण्यसुवर्णरत्नसस्यापहारिण उत्तमो दण्डः, शुद्धवधो वा
विश्वास-प्रस्तुतिः - 17
17ab पुरुषं चापराधं च कारणं गुरुलाघवम् ।
17chd अनुबन्धं तदात्वं च देशकालौ समीक्ष्य च
मूलम् - 17
17ab पुरुषं चापराधं च कारणं गुरुलाघवम् ।
17chd अनुबन्धं तदात्वं च देशकालौ समीक्ष्य च
विश्वास-प्रस्तुतिः - 18
18ab उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि ।
18chd राज्ञश्च प्रकृतीनां च कल्पयेद् अन्तरा स्थितः (इति)
मूलम् - 18