Investigation througH interrogation and througH torture
विश्वास-प्रस्तुतिः - 01
01 मुषितसन्निधौ बाह्यानां अभ्यन्तराणां च साक्षिणां अभिशस्तस्य देशजातिगोत्रनामकर्मसारसहायनिवासान् अनुयुञ्जीत
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 तांश्चापदेशैः प्रतिसमानयेत्
मूलम् - 02
02 तांश्चापदेशैः प्रतिसमानयेत्
विश्वास-प्रस्तुतिः - 03
03 ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च ग्रहणाद् इत्यनुयुञ्जीत
मूलम् - 03
03 ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च ग्रहणाद् इत्यनुयुञ्जीत
विश्वास-प्रस्तुतिः - 04
04 तस्यापसारप्रतिसन्धाने शुद्धः स्यात्, अन्यथा कर्मप्राप्तः
मूलम् - 04
04 तस्यापसारप्रतिसन्धाने शुद्धः स्यात्, अन्यथा कर्मप्राप्तः
विश्वास-प्रस्तुतिः - 05
05 त्रिरात्राद् ऊर्ध्वं अग्राह्यः शङ्कितकः पृच्छाऽभावाद् अन्यत्र उपकरणदर्शनात्
मूलम् - 05
05 त्रिरात्राद् ऊर्ध्वं अग्राह्यः शङ्कितकः पृच्छाऽभावाद् अन्यत्र उपकरणदर्शनात्
विश्वास-प्रस्तुतिः - 06
06 अचोरं चोर इत्यभिव्याहरतश्चोरसमो दण्डः, चोरं प्रच्छादयतश्च
मूलम् - 06
06 अचोरं चोर इत्यभिव्याहरतश्चोरसमो दण्डः, चोरं प्रच्छादयतश्च
विश्वास-प्रस्तुतिः - 07
07 चोरेणाभिशस्तो वैरद्वेषाभ्यां अपदिष्टकः शुद्धः स्यात्
मूलम् - 07
07 चोरेणाभिशस्तो वैरद्वेषाभ्यां अपदिष्टकः शुद्धः स्यात्
विश्वास-प्रस्तुतिः - 08
08 शुद्धं परिवासयतः पूर्वः साहसदण्डः
मूलम् - 08
08 शुद्धं परिवासयतः पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 09
09 शङ्कानिष्पन्नं उपकरणमन्त्रिसहायरूपवैयावृत्यकरान्निष्पादयेत्
मूलम् - 09
09 शङ्कानिष्पन्नं उपकरणमन्त्रिसहायरूपवैयावृत्यकरान्निष्पादयेत्
विश्वास-प्रस्तुतिः - 10
10 कर्मणश्च प्रदेशद्रव्यादानांशविभागैः प्रतिसमानयेत्
मूलम् - 10
10 कर्मणश्च प्रदेशद्रव्यादानांशविभागैः प्रतिसमानयेत्
विश्वास-प्रस्तुतिः - 11
11 एतेषां कारणानां अनभिसन्धाने विप्रलपन्तं अचोरं विद्यात्
मूलम् - 11
11 एतेषां कारणानां अनभिसन्धाने विप्रलपन्तं अचोरं विद्यात्
विश्वास-प्रस्तुतिः - 12
12 दृश्यते ह्यचोरोऽपि चोरमार्गे यदृच्छया सन्निपाते चोरवेषशस्त्रभाण्डसामान्येन गृह्यमाणश्चोरभाण्डस्य उपवासेन वा, यथाऽणिमाण्डव्यः कर्मक्लेशभयाद् अचोरः चोरोऽस्मि इति ब्रुवाणः
मूलम् - 12

विश्वास-प्रस्तुतिः - 13
13 तस्मात् समाप्तकरणं नियमयेत्
मूलम् - 13
13 तस्मात् समाप्तकरणं नियमयेत्
विश्वास-प्रस्तुतिः - 14
14 मन्दापराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्पिपासाऽध्वक्लान्तं अत्याशितं आमकाशितं दुर्बलं वा न कर्म कारयेत्
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 तुल्य शीलपुंश्चलीप्रापाविककथाऽवकाशभोजनदातृभिरपसर्पयेत्
मूलम् - 15
15 तुल्य शीलपुंश्चलीप्रापाविककथाऽवकाशभोजनदातृभिरपसर्पयेत्
विश्वास-प्रस्तुतिः - 16
16 एवं अतिसन्दध्यात्, यथा वा निक्षेपापहारे व्याख्यातम्
मूलम् - 16
16 एवं अतिसन्दध्यात्, यथा वा निक्षेपापहारे व्याख्यातम्
विश्वास-प्रस्तुतिः - 17
17 आप्तदोषं कर्म कारयेत्, न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावरप्रजाताम्
मूलम् - 17
17 आप्तदोषं कर्म कारयेत्, न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावरप्रजाताम्
विश्वास-प्रस्तुतिः - 18
18 स्त्रियाः त्वर्धकर्म, वाक्यानुयोगो वा
मूलम् - 18
18 स्त्रियाः त्वर्धकर्म, वाक्यानुयोगो वा
विश्वास-प्रस्तुतिः - 19
19 ब्राह्मणस्य सत्त्रिपरिग्रहः श्रुतवतः तपस्विनश्च
मूलम् - 19
19 ब्राह्मणस्य सत्त्रिपरिग्रहः श्रुतवतः तपस्विनश्च
विश्वास-प्रस्तुतिः - 20
20 तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च, कर्मणा व्यापादनेन च
मूलम् - 20
20 तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च, कर्मणा व्यापादनेन च
विश्वास-प्रस्तुतिः - 21
21 व्यावहारिकं कर्मचतुष्कं - षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च
मूलम् - 21
21 व्यावहारिकं कर्मचतुष्कं - षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च
विश्वास-प्रस्तुतिः - 22
22 परं पापकर्मणां नव वेत्रलताः, द्वादश कशाः, द्वावूरुवेष्टौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत्तलाः, द्वौ वृश्चिकबन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागूपीतस्य एकपर्वदहनं अङ्गुल्याः, स्नेहपीतस्य प्रतापनं एकं अहः, शिशिररात्रौ बल्बजाग्रशय्या च
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23 इत्यष्टादशकं कर्म
मूलम् - 23
23 इत्यष्टादशकं कर्म
विश्वास-प्रस्तुतिः - 24
24 तस्य उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खरपट्टाद् आगमयेत्
मूलम् - 24
24 तस्य उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खरपट्टाद् आगमयेत्
विश्वास-प्रस्तुतिः - 25
25 दिवसान्तरं एक एकं च कर्म कारयेत्
मूलम् - 25
25 दिवसान्तरं एक एकं च कर्म कारयेत्
विश्वास-प्रस्तुतिः - 26
26 पूर्वकृतापदानं प्रतिज्ञायापहरन्तं एकदेशदृष्टद्रव्यं कर्मणा रूपेण वा गृहीतं राजकोशं अवस्तृणन्तं कर्मवध्यं वा राजवचनात् समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत्
मूलम् - 26

विश्वास-प्रस्तुतिः - 27
27 सर्वापराधेष्वपीडनीयो ब्राह्मणः
मूलम् - 27
27 सर्वापराधेष्वपीडनीयो ब्राह्मणः
विश्वास-प्रस्तुतिः - 28
28 तस्याभिशस्ताङ्को ललाटे स्याद् व्यवहारपतनाय, स्तेयो श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने मद्यध्वजः
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29ab ब्राह्मणं पापकर्माणं उद्घुष्याङ्ककृतव्रणम् ।
29chd कुर्यान्निर्विषयं राजा वासयेद् आकरेषु वा (इति)
मूलम् - 29