०७

In quest of sudden deaths

विश्वास-प्रस्तुतिः - 01

01 तैलाभ्यक्तं आशुमृतकं परीक्षेत

मूलम् - 01

01 तैलाभ्यक्तं आशुमृतकं परीक्षेत

विश्वास-प्रस्तुतिः - 02

02 निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमान् मीलिताक्षं सव्यञ्जनकण्ठं पीटननिरुद्ध उच्छ्वासहतं विद्यात्

मूलम् - 02

विश्वास-प्रस्तुतिः - 03

03 तं एव सङ्कुचितबाहुसक्थिं उद्बन्धहतं विद्यात्

मूलम् - 03

03 तं एव सङ्कुचितबाहुसक्थिं उद्बन्धहतं विद्यात्

विश्वास-प्रस्तुतिः - 04

04 शूनपाणिपाद उदरं अपगताक्षं उद्वृत्तनाभिं अवरोपितं विद्यात्

मूलम् - 04

04 शूनपाणिपाद उदरं अपगताक्षं उद्वृत्तनाभिं अवरोपितं विद्यात्

विश्वास-प्रस्तुतिः - 05

05 निस्तब्धगुदाक्षं सन्दष्टजिह्वं आध्मात उदरं उदकहतं विद्यात्

मूलम् - 05

05 निस्तब्धगुदाक्षं सन्दष्टजिह्वं आध्मात उदरं उदकहतं विद्यात्

विश्वास-प्रस्तुतिः - 06

06 शोणितानुसिक्तं भग्नभिन्नगात्रं काष्ठैरश्मभिर्वा हतं विद्यात्

मूलम् - 06

06 शोणितानुसिक्तं भग्नभिन्नगात्रं काष्ठैरश्मभिर्वा हतं विद्यात्

विश्वास-प्रस्तुतिः - 07

07 सम्भग्नस्फुटितगात्रं अवक्षिप्तं विद्यात्

मूलम् - 07

07 सम्भग्नस्फुटितगात्रं अवक्षिप्तं विद्यात्

विश्वास-प्रस्तुतिः - 08

08 श्यावपाणिपाददन्तनखं शिथिलमांसरोमचर्माणं फेन उपदिग्धमुखं विषहतं विद्यात्

मूलम् - 08

08 श्यावपाणिपाददन्तनखं शिथिलमांसरोमचर्माणं फेन उपदिग्धमुखं विषहतं विद्यात्

विश्वास-प्रस्तुतिः - 09

09 तं एव स-शोणितदंशं सर्पकीटहतं विद्यात् ।

मूलम् - 09

09 तं एव स-शोणितदंशं सर्पकीटहतं विद्यात् ।

विश्वास-प्रस्तुतिः - 10

10 विक्षिप्तवस्त्रगात्रं अतिवन्तविरिक्तं मदनयोगहतं विद्यात्

मूलम् - 10

10 विक्षिप्तवस्त्रगात्रं अतिवन्तविरिक्तं मदनयोगहतं विद्यात्

विश्वास-प्रस्तुतिः - 11

11 अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयाद् उद्बद्धनिकृत्तकण्ठं विद्यात्

मूलम् - 11

11 अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयाद् उद्बद्धनिकृत्तकण्ठं विद्यात्

विश्वास-प्रस्तुतिः - 12

12 विषहतस्य भोजनशेषं वयोभिः परीक्षेत

मूलम् - 12

12 विषहतस्य भोजनशेषं वयोभिः परीक्षेत

विश्वास-प्रस्तुतिः - 13

13 हृदयाद् उद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायद्।इन्द्रधनुर्वर्णं वा विषयुक्तं विद्यात्, दग्धस्य हृदयं अदग्धं दृष्ट्वा वा

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 तस्य परिचारकजनं वाग्दण्डपारुष्यातिलब्धं मार्गेत, दुःख उपहतं अन्यप्रसक्तं वा स्त्रीजनं, दायवृत्तिस्त्रीजनाभिमन्तारं वा बन्धुम्

मूलम् - 14

विश्वास-प्रस्तुतिः - 15

15 तद् एव हत उद्बद्धस्य परीक्षेत

मूलम् - 15

15 तद् एव हत उद्बद्धस्य परीक्षेत

विश्वास-प्रस्तुतिः - 16

16 स्वयं उद्बद्धस्य वा विप्रकारं अयुक्तं मार्गेत

मूलम् - 16

16 स्वयं उद्बद्धस्य वा विप्रकारं अयुक्तं मार्गेत

विश्वास-प्रस्तुतिः - 17

17 सर्वेषां वा स्त्रीदायाद्यदोषः कर्मस्पर्धा प्रतिपक्षद्वेषः पण्यसंस्थासमवायो वा विवादपदानां अन्यतमद् वा रोषस्थानम्

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

18 रोषनिमित्तो घातः

मूलम् - 18

18 रोषनिमित्तो घातः

विश्वास-प्रस्तुतिः - 19

19 स्वयं।आदिष्टपुरुषैर्वा, चोरैरर्थनिमित्तं, सादृश्याद् अन्यवैरिभिर्वा हतस्य घातं आसन्नेभ्यः परीक्षेत

मूलम् - 19

विश्वास-प्रस्तुतिः - 20

20 येनाहूतः सह स्थितः प्रस्थितो हतभूमिं आनीतो वा तं अनुयुञ्जीत

मूलम् - 20

20 येनाहूतः सह स्थितः प्रस्थितो हतभूमिं आनीतो वा तं अनुयुञ्जीत

विश्वास-प्रस्तुतिः - 21

21 ये चास्य हतभूमावासन्नचराः तान् एक एकशः पृच्छेत् केनायं इहानीतो हतो वा, कः सशस्त्रः सङ्गूहमान उद्विग्नो वा युष्माभिर्दृष्टः इति

मूलम् - 21

विश्वास-प्रस्तुतिः - 22

22 ते यथा ब्रूयुः तथाऽनुयुञ्जीत

मूलम् - 22

22 ते यथा ब्रूयुः तथाऽनुयुञ्जीत

विश्वास-प्रस्तुतिः - 23

23ab अनाथस्य शरीरस्थं उपभोगं परिच्छदम् ।
23chd वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः

मूलम् - 23

23ab अनाथस्य शरीरस्थं उपभोगं परिच्छदम् ।
23chd वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः

विश्वास-प्रस्तुतिः - 24

24ab अनुयुञ्जीत संयोगं निवासं वासकारणम् ।
24chd कर्म च व्यवहारं च ततो मार्गणं आचरेत्

मूलम् - 24

24ab अनुयुञ्जीत संयोगं निवासं वासकारणम् ।
24chd कर्म च व्यवहारं च ततो मार्गणं आचरेत्

विश्वास-प्रस्तुतिः - 25

25ab रज्जुशस्त्रविषैर्वाऽपि कामक्रोधवशेन यः ।
25chd घातयेत् स्वयं आत्मानं स्त्री वा पापेन मोहिता

मूलम् - 25

25ab रज्जुशस्त्रविषैर्वाऽपि कामक्रोधवशेन यः ।
25chd घातयेत् स्वयं आत्मानं स्त्री वा पापेन मोहिता

विश्वास-प्रस्तुतिः - 26

26ab रज्जुना राजमार्गे तांश्चण्डालेनापकर्षयेत् ।
26chd न श्मशानविधिः तेषां न सम्बन्धिक्रियाः तथा

मूलम् - 26

26ab रज्जुना राजमार्गे तांश्चण्डालेनापकर्षयेत् ।
26chd न श्मशानविधिः तेषां न सम्बन्धिक्रियाः तथा

विश्वास-प्रस्तुतिः - 27

27ab बन्धुः तेषां तु यः कुर्यात् प्रेतकार्यक्रियाविधिम् ।
27chd तद्गतिं स चरेत् पश्चात् स्वजनाद् वा प्रमुच्यते

मूलम् - 27

विश्वास-प्रस्तुतिः - 28

28ab संवत्सरेण पतति पतितेन समाचरन् ।
28chd याजनाध्यापनाद् यौनात् तैश्चान्योऽपि समाचरन् (इति)

मूलम् - 28