०६

Arrest on suspicion, with the stolen article and by indication of the act

विश्वास-प्रस्तुतिः - 01

01 सिद्धप्रयोगाद् ऊर्ध्वं शङ्कारूपकर्माभिग्रहः

मूलम् - 01

01 सिद्धप्रयोगाद् ऊर्ध्वं शङ्कारूपकर्माभिग्रहः

विश्वास-प्रस्तुतिः - 02

02a क्षीणदायकुटुम्बं, अल्पनिर्वेशं, विपरीतदेशजातिगोत्रनामकर्मापदेशं, प्रच्छन्नवृत्तिकर्माणं,
02b मांससुराभक्ष्यभोजनगन्धमाल्यवस्त्रविभूषणेषु प्रसक्तं, अतिव्ययकर्तारं, पुंश्चलीद्यूतशौण्डिकेषु प्रसक्तं,
02ch अभीक्ष्णप्रवासिनं, अविज्ञातस्थानगमनं, एकान्तारण्यनिष्कुटविकालचारिणं, प्रच्छन्ने सामिषे वा देशे बहुमन्त्रसन्निपातं,
02d सद्यःक्षतव्रणानां गूढप्रतीकारकारयितारं, अन्तर्गृहनित्यं, अभ्यधिगन्तारं, कान्तापरं,
02e परपरिग्रहाणां परस्त्रीद्रव्यवेश्मनां अभीक्ष्णप्रष्टारं, कुत्सितकर्मशास्त्र उपकरणसंसर्गं,
02f विरात्रे छन्नकुड्यच्छायासञ्चारिणं, विरूपद्रव्याणां अदेशकालविक्रेतारं, जातवैरशयं, हीनकर्मजातिं,
02g विगूहमानरूपं, लिङ्गेनालिङ्गिनं, लिङ्गिनं वा भिन्नाचारं, पूर्वकृतापदानं, स्वकर्मभिरपदिष्टं,
02h नागरिकमहामात्रदर्शने गुहमानं अपसरन्तं अनुच्छ्वास उपवेशिनं आविग्नं शुष्कभिन्नस्वरमुखवर्णं,
02i शस्त्रहस्तमनुष्यसम्पातत्रासिनं, हिंस्रस्तेननिधिनिक्षेपापहारपरप्रयोगगूढाजीविनां अन्यतमं शङ्केत इति शङ्काऽभिग्रहः ॥

मूलम् - 02

विश्वास-प्रस्तुतिः - 03

03 रूपाभिग्रहः तु - नष्टापहृतं अविद्यमानं तज्जातव्यवहारिषु निवेदयेत्

मूलम् - 03

03 रूपाभिग्रहः तु - नष्टापहृतं अविद्यमानं तज्जातव्यवहारिषु निवेदयेत्

विश्वास-प्रस्तुतिः - 04

04 तच्चेन्निवेदितं आसाद्य प्रच्छादयेयुः साचिव्यकरदोषं आप्नुयुः

मूलम् - 04

04 तच्चेन्निवेदितं आसाद्य प्रच्छादयेयुः साचिव्यकरदोषं आप्नुयुः

विश्वास-प्रस्तुतिः - 05

05 अजानन्तोऽस्य द्रव्यस्यातिसर्गेण मुच्येरन्

मूलम् - 05

05 अजानन्तोऽस्य द्रव्यस्यातिसर्गेण मुच्येरन्

विश्वास-प्रस्तुतिः - 06

06 न चानिवेद्य संस्थाऽध्यक्षस्य पुराणभाण्डानां आधानं विक्रयं वा कुर्युः

मूलम् - 06

06 न चानिवेद्य संस्थाऽध्यक्षस्य पुराणभाण्डानां आधानं विक्रयं वा कुर्युः

विश्वास-प्रस्तुतिः - 07

07 तच्चेन्निवेदितं आसाद्येत, रूपाभिगृहीतं आगमं पृच्छेत् कुतः ते लब्धम् इति

मूलम् - 07

07 तच्चेन्निवेदितं आसाद्येत, रूपाभिगृहीतं आगमं पृच्छेत् कुतः ते लब्धम् इति

विश्वास-प्रस्तुतिः - 08

08 स चेत् ब्रूयात् दायाद्याद् अवाप्तं, अमुष्माल्लब्धं क्रीतं कारितं आधिप्रच्छन्नं, अयं अस्य देशः कालश्च उपसम्प्राप्तेः, अयं अस्यार्घः प्रमाणं लक्षणं मूल्यं च इति, तस्यागमसमाधौ मुच्येत

मूलम् - 08

विश्वास-प्रस्तुतिः - 09

09 नाष्टिकश्चेत् तद् एव प्रतिसन्दध्यात्, यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशः तस्य द्रव्यं इति विद्यात्

मूलम् - 09

विश्वास-प्रस्तुतिः - 10

10 चतुष्पदद्विपदानां अपि हि रूपलिङ्गसामान्यं भवति, किं अङ्ग पुनरेकयोनिद्रव्यकर्तृप्रसूतानां कुप्याभरणभाण्डानां इति

मूलम् - 10

विश्वास-प्रस्तुतिः - 11

11 स चेद् ब्रूयात् याचितकं अवक्रीतकं आहितकं निक्षेपं उपनिधिं वैयावृत्यकर्म वाऽमुष्य इति, तस्यापसारप्रतिसन्धानेन मुच्येत

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

12 न एवम् इत्यपसारो वा ब्रूयात्, रूपाभिगृहीतः परस्य दानकारणं आत्मनः प्रतिग्रहकारणं उपलिङ्गनं वा दायकदापकनिबन्धकप्रतिग्राहक उपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत्

मूलम् - 12

विश्वास-प्रस्तुतिः - 13

13 उज्झितप्रनष्टनिष्पतित उपलब्धस्य देशकाललाभ उपलिङ्गनेन शुद्धिः

मूलम् - 13

13 उज्झितप्रनष्टनिष्पतित उपलब्धस्य देशकाललाभ उपलिङ्गनेन शुद्धिः

विश्वास-प्रस्तुतिः - 14

14 अशुद्धः तच्च तावच्च दण्डं दद्यात्

मूलम् - 14

14 अशुद्धः तच्च तावच्च दण्डं दद्यात्

विश्वास-प्रस्तुतिः - 15

15 अन्यथा स्तेयदण्डं भजेत इति रूपाभिग्रहः ।

मूलम् - 15

15 अन्यथा स्तेयदण्डं भजेत इति रूपाभिग्रहः ।

विश्वास-प्रस्तुतिः - 16

16 कर्माभिग्रहः तु - मुषितवेश्मनः प्रवेशनिष्कसनं अद्वारेण, द्वारस्य सन्धिना बीजेन वा वेधं, उत्तमागारस्य जालवातायननीप्रवेधं, आरोहणावतरणे च कुड्यस्य वेधं, उपखननं वा गूढद्रव्यनिक्षेपणग्रहण उपायं, उपदेश उपलभ्यं अभ्यन्तरच्छेद उत्करपरिमर्द उपकरणं अभ्यन्तरकृतं विद्यात्

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17 विपर्यये बाह्यकृतं, उभयत उभयकृतम्

मूलम् - 17

17 विपर्यये बाह्यकृतं, उभयत उभयकृतम्

विश्वास-प्रस्तुतिः - 18

18a अभ्यन्तरकृते पुरुषं आसन्नं व्यसनिनं क्रूरसहायं तस्कर उपकरणसंसर्गं, स्त्रियं वा दरिद्रकुलां अन्यप्रसक्तां वा,
18b परिचारकजनं वा तद्विधाचारं, अतिस्वप्नं, निद्राक्लान्तं, आविग्नं । शुष्कभिन्नस्वरमुखवर्णं, अनवस्थितं,
18ch अतिप्रलापिनं, उच्चारोहणसंरब्धगात्रं, विलूननिघृष्टभिन्नपाटितशरीरवस्त्रं, जातकिणसंरब्धहस्तपादं,
18d पांसुपूर्णकेशनखं विलूनभुग्नकेशनखं वा, सम्यक्स्नातानुलिप्तं तैलप्रमृष्टगात्रं सद्योदौतहस्तपादं वा,
18e पांसुपिच्छिलेषु तुल्यपादपदनिक्षेपं, प्रवेशनिष्कसनयोर्वा तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविलेपनस्वेदं परीक्षेत

मूलम् - 18

विश्वास-प्रस्तुतिः - 19

19 चोरं पारदारिकं वा विद्यात्

मूलम् - 19

19 चोरं पारदारिकं वा विद्यात्

विश्वास-प्रस्तुतिः - 20

20ab सगोपस्थानिको बाह्यं प्रदेष्टा चोरमार्गणम् ।
20chd कुर्यान्नागरिकश्चान्तर्दुर्गे निर्दिष्टहेतुभिः (इति)

मूलम् - 20