Detection of criminals througH secret agents in the disguise of holymen
विश्वास-प्रस्तुतिः - 01
01 सत्त्रिप्रयोगाद् ऊर्ध्वं सिद्धव्यञ्जना माणवान् माणवविद्याभिः प्रलोभयेयुः, प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्, संवदनमन्त्रेण पारतल्पिकान्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 तेषां कृत उत्साहानां महान्तं सङ्घं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतकस्त्रीपुरुषं गत्वा ब्रूयुः - इह एव विद्याप्रभावो दृश्यतां, कृच्छ्रः परग्रामो गन्तुम् इति
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य प्रविश्यताम् इति ब्रूयुः
मूलम् - 03
03 ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य प्रविश्यताम् इति ब्रूयुः
विश्वास-प्रस्तुतिः - 04
04 अन्तर्धानमन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः
मूलम् - 04
04 अन्तर्धानमन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः
विश्वास-प्रस्तुतिः - 05
05 प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः सञ्चारयेयुः
मूलम् - 05
05 प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः सञ्चारयेयुः
विश्वास-प्रस्तुतिः - 06
06 संवदनमन्त्रेण भार्याव्यञ्जनाः परेषां माणवैः सम्मोदयेयुः
मूलम् - 06
06 संवदनमन्त्रेण भार्याव्यञ्जनाः परेषां माणवैः सम्मोदयेयुः
विश्वास-प्रस्तुतिः - 07
07 उपलब्धविद्याप्रभावाणां पुरश्चरणाऽऽद्यादिशेयुरभिज्ञानार्थम्
मूलम् - 07
07 उपलब्धविद्याप्रभावाणां पुरश्चरणाऽऽद्यादिशेयुरभिज्ञानार्थम्
विश्वास-प्रस्तुतिः - 08
08 कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयुः
मूलम् - 08
08 कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयुः
विश्वास-प्रस्तुतिः - 09
09 अनुप्रविष्टा वा एकत्र ग्राहयेयुः
मूलम् - 09
09 अनुप्रविष्टा वा एकत्र ग्राहयेयुः
विश्वास-प्रस्तुतिः - 10
10 कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान् वा ग्राहयेयुः
मूलम् - 10
10 कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान् वा ग्राहयेयुः
विश्वास-प्रस्तुतिः - 11
11 गृहीतान् पूर्वापदानसहायान् अनुयुञ्जीत
मूलम् - 11
11 गृहीतान् पूर्वापदानसहायान् अनुयुञ्जीत
विश्वास-प्रस्तुतिः - 12
12 पुराणचोरव्यञ्जना वा चोरान् अनुप्रविष्टाः तथा एव कर्म कारयेयुर्ग्राहयेयुश्च
मूलम् - 12
12 पुराणचोरव्यञ्जना वा चोरान् अनुप्रविष्टाः तथा एव कर्म कारयेयुर्ग्राहयेयुश्च
विश्वास-प्रस्तुतिः - 13
13 गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत् - चोरग्रहणीं विद्यां अधीते राजा, तस्य उपदेशाद् इमे चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो वः स्वजनः पापाचारह् इति
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 यं चात्रापसर्प उपदेशेन शम्याप्रतोदादीनां अपहर्तारं जानीयात् तं एषां प्रत्यादिशेत् एष राज्ञः प्रभावः इति
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकान् अनुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु सार्थव्रजग्रामेष्वेनान् अभियोजयेयुः
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्य्ऽदनेन
मूलम् - 16
16 अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्य्ऽदनेन
विश्वास-प्रस्तुतिः - 17
17 गृहीतलोप्त्रभारान् आयतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः
मूलम् - 17
17 गृहीतलोप्त्रभारान् आयतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः
विश्वास-प्रस्तुतिः - 18
18ab पूर्ववच्च गृहीत्वा एनान् समाहर्ता प्ररूपयेत् ।
18chd सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु (इति)
मूलम् - 18