Remedial measures during calamities
विश्वास-प्रस्तुतिः - 01
01 दैवान्यष्टौ महाभयानि - अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि इति
मूलम् - 01
01 दैवान्यष्टौ महाभयानि - अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि इति
विश्वास-प्रस्तुतिः - 02
02 तेभ्यो जनपदं रक्षेत्
मूलम् - 02
02 तेभ्यो जनपदं रक्षेत्
विश्वास-प्रस्तुतिः - 03
03 ग्रीष्मे बहिर्ऽधिश्रयणं ग्रामाः कुर्युः, दशमूलीसङ्ग्रहेणाधिष्ठिता वा
मूलम् - 03
03 ग्रीष्मे बहिर्ऽधिश्रयणं ग्रामाः कुर्युः, दशमूलीसङ्ग्रहेणाधिष्ठिता वा
विश्वास-प्रस्तुतिः - 04
04 नागरिकप्रणिधावग्निप्रतिषेधो व्याख्यातः, निशान्तप्रणिधौ राजपरिग्रहे च
मूलम् - 04
04 नागरिकप्रणिधावग्निप्रतिषेधो व्याख्यातः, निशान्तप्रणिधौ राजपरिग्रहे च
विश्वास-प्रस्तुतिः - 05
05 बलिहोमस्वस्तिवाचनैः पर्वसु चाग्निपूजाः कारयेत्
मूलम् - 05
05 बलिहोमस्वस्तिवाचनैः पर्वसु चाग्निपूजाः कारयेत्
विश्वास-प्रस्तुतिः - 06
06 वर्षारात्रं आनूपग्रामाः पूरवेलां उत्सृज्य वसेयुः
मूलम् - 06
06 वर्षारात्रं आनूपग्रामाः पूरवेलां उत्सृज्य वसेयुः
विश्वास-प्रस्तुतिः - 07
07 काष्ठवेणुनावश्च उपगृह्णीयुः
मूलम् - 07
07 काष्ठवेणुनावश्च उपगृह्णीयुः
विश्वास-प्रस्तुतिः - 08
08 उह्यमानं अलाबुदृतिप्लवगण्डिकावेणिकाभिः तारयेयुः
मूलम् - 08
08 उह्यमानं अलाबुदृतिप्लवगण्डिकावेणिकाभिः तारयेयुः
विश्वास-प्रस्तुतिः - 09
09 अनभिसरतां द्वादशपणो दण्डः, अन्यत्र प्लवहीनेभ्यः
मूलम् - 09
09 अनभिसरतां द्वादशपणो दण्डः, अन्यत्र प्लवहीनेभ्यः
विश्वास-प्रस्तुतिः - 10
10 पर्वसु च नदीपूजाः कारयेत्
मूलम् - 10
10 पर्वसु च नदीपूजाः कारयेत्
विश्वास-प्रस्तुतिः - 11
11 मायायोगविदो वेदविदो वा वर्षं अभिचरेयुः
मूलम् - 11
11 मायायोगविदो वेदविदो वा वर्षं अभिचरेयुः
विश्वास-प्रस्तुतिः - 12
12 वर्षावग्रहे शचीनाथगङ्गापर्वतमहाकच्छपूजाः कारयेत्
मूलम् - 12
12 वर्षावग्रहे शचीनाथगङ्गापर्वतमहाकच्छपूजाः कारयेत्
विश्वास-प्रस्तुतिः - 13
13 व्याधिभयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश्चिकित्सकाः शान्तिप्रायश्चित्तैर्वा सिद्धतापसाः
मूलम् - 13
13 व्याधिभयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश्चिकित्सकाः शान्तिप्रायश्चित्तैर्वा सिद्धतापसाः
विश्वास-प्रस्तुतिः - 14
14 तेन मरको व्याख्यातः
मूलम् - 14
14 तेन मरको व्याख्यातः
विश्वास-प्रस्तुतिः - 15
15 तीर्थाभिषेचनं महाकच्छवर्धनं गवां श्मशानावदोहनं कबन्धदहनं देवरात्रिं च कारयेत्
मूलम् - 15
15 तीर्थाभिषेचनं महाकच्छवर्धनं गवां श्मशानावदोहनं कबन्धदहनं देवरात्रिं च कारयेत्
विश्वास-प्रस्तुतिः - 16
16 पशुव्याधिमरके स्थानार्थनीराजनं स्वदैवतपूजनं च कारयेत्
मूलम् - 16
16 पशुव्याधिमरके स्थानार्थनीराजनं स्वदैवतपूजनं च कारयेत्
विश्वास-प्रस्तुतिः - 17
17 दुर्भिक्षे राजा बीजभक्त उपग्रहं कृत्वाऽनुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा, देशनिक्षेपं वा
मूलम् - 17
17 दुर्भिक्षे राजा बीजभक्त उपग्रहं कृत्वाऽनुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा, देशनिक्षेपं वा
विश्वास-प्रस्तुतिः - 18
18 मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात्
मूलम् - 18
18 मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात्
विश्वास-प्रस्तुतिः - 19
19 निष्पन्नसस्यं अन्यविषयं वा सजनपदो यायात्, समुद्रसरस्तटाकानि वा संश्रयेत
मूलम् - 19
19 निष्पन्नसस्यं अन्यविषयं वा सजनपदो यायात्, समुद्रसरस्तटाकानि वा संश्रयेत
विश्वास-प्रस्तुतिः - 20
20 धान्यशाकमूलफलावापान् वा सेतुषु कुर्वीत, मृगपशुपक्षिव्यालमत्स्यारम्भान् वा
मूलम् - 20
20 धान्यशाकमूलफलावापान् वा सेतुषु कुर्वीत, मृगपशुपक्षिव्यालमत्स्यारम्भान् वा
विश्वास-प्रस्तुतिः - 21
21 मूषिकभये मार्जारनकुल उत्सर्गः
मूलम् - 21
21 मूषिकभये मार्जारनकुल उत्सर्गः
विश्वास-प्रस्तुतिः - 22
22 तेषां ग्रहणहिंसायां द्वादशपणो दण्डः, शुनां अनिग्रहे चान्यत्रारण्यचरेभ्यः
मूलम् - 22
22 तेषां ग्रहणहिंसायां द्वादशपणो दण्डः, शुनां अनिग्रहे चान्यत्रारण्यचरेभ्यः
विश्वास-प्रस्तुतिः - 23
23 स्नुहिक्षीरलिप्तानि धान्यानि विसृजेद्, उपनिषद्योगयुक्तानि वा
मूलम् - 23
23 स्नुहिक्षीरलिप्तानि धान्यानि विसृजेद्, उपनिषद्योगयुक्तानि वा
विश्वास-प्रस्तुतिः - 24
24 मूषिककरं वा प्रयुञ्जीत
मूलम् - 24
24 मूषिककरं वा प्रयुञ्जीत
विश्वास-प्रस्तुतिः - 25
25 शान्तिं वा सिद्धतापसाः कुर्युः
मूलम् - 25
25 शान्तिं वा सिद्धतापसाः कुर्युः
विश्वास-प्रस्तुतिः - 26
26 पर्वसु च मूषिकपूजाः कारयेत्
मूलम् - 26
26 पर्वसु च मूषिकपूजाः कारयेत्
विश्वास-प्रस्तुतिः - 27
27 तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः
मूलम् - 27
27 तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः
विश्वास-प्रस्तुतिः - 28
28 व्यालभये मदनरसयुक्तानि पशुशवानि प्रसृजेत्, मदनकोद्रवपूर्णान्यौदर्याणि वा
मूलम् - 28
28 व्यालभये मदनरसयुक्तानि पशुशवानि प्रसृजेत्, मदनकोद्रवपूर्णान्यौदर्याणि वा
विश्वास-प्रस्तुतिः - 29
29 लुब्धकाः श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः
मूलम् - 29
29 लुब्धकाः श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः
विश्वास-प्रस्तुतिः - 30
30 आवरणिनः शस्त्रपाणयो व्यालान् अभिहन्युः
मूलम् - 30
30 आवरणिनः शस्त्रपाणयो व्यालान् अभिहन्युः
विश्वास-प्रस्तुतिः - 31
31 अनभिसर्तुर्द्वादशपणो दण्डः
मूलम् - 31
31 अनभिसर्तुर्द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 32
32 स एव लाभो व्यालघातिनः
मूलम् - 32
32 स एव लाभो व्यालघातिनः
विश्वास-प्रस्तुतिः - 33
33 पर्वसु च पर्वतपूजाः कारयेत्
मूलम् - 33
33 पर्वसु च पर्वतपूजाः कारयेत्
विश्वास-प्रस्तुतिः - 34
34 तेन मृगपशुपक्षिसङ्घग्राहप्रतीकारा व्याख्याताः
मूलम् - 34
34 तेन मृगपशुपक्षिसङ्घग्राहप्रतीकारा व्याख्याताः
विश्वास-प्रस्तुतिः - 35
35 सर्पभये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः
मूलम् - 35
35 सर्पभये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः
विश्वास-प्रस्तुतिः - 36
36 सम्भूय वाऽपि सर्पान् हन्युः
मूलम् - 36
36 सम्भूय वाऽपि सर्पान् हन्युः
विश्वास-प्रस्तुतिः - 37
37 अथर्ववेदविदो वाऽभिचरेयुः
मूलम् - 37
37 अथर्ववेदविदो वाऽभिचरेयुः
विश्वास-प्रस्तुतिः - 38
38 पर्वसु च नागपूजाः कारयेत्
मूलम् - 38
38 पर्वसु च नागपूजाः कारयेत्
विश्वास-प्रस्तुतिः - 39
39 तेन उदकप्राणिभयप्रतीकारा व्याख्याताः
मूलम् - 39
39 तेन उदकप्राणिभयप्रतीकारा व्याख्याताः
विश्वास-प्रस्तुतिः - 40
40 रक्षोभये रक्षोघ्नान्यथर्ववेदविदो मायायोगविदो वा कर्माणि कुर्युः
मूलम् - 40
40 रक्षोभये रक्षोघ्नान्यथर्ववेदविदो मायायोगविदो वा कर्माणि कुर्युः
विश्वास-प्रस्तुतिः - 41
41 पर्वसु च वितर्दिच्छत्र उल्लोपिकाहस्तपताकाच्छाग उपहारैश्चैत्यपूजाः कारयेत्
मूलम् - 41
41 पर्वसु च वितर्दिच्छत्र उल्लोपिकाहस्तपताकाच्छाग उपहारैश्चैत्यपूजाः कारयेत्
विश्वास-प्रस्तुतिः - 42
42 चरुं वश्चरामः इत्येवं सर्वभयेष्वहोरात्रं चरेयुः
मूलम् - 42
42 चरुं वश्चरामः इत्येवं सर्वभयेष्वहोरात्रं चरेयुः
विश्वास-प्रस्तुतिः - 43
43 सर्वत्र च उपहतान् पिता इवानुगृह्णीयात्
मूलम् - 43
43 सर्वत्र च उपहतान् पिता इवानुगृह्णीयात्
विश्वास-प्रस्तुतिः - 44
44ab मायायोगविदः तस्माद् विषये सिद्धतापसाः ।
44chd वसेयुः पूजिता राज्ञा दैवापत्प्रतिकारिणः (इति)
मूलम् - 44
44ab मायायोगविदः तस्माद् विषये सिद्धतापसाः ।
44chd वसेयुः पूजिता राज्ञा दैवापत्प्रतिकारिणः (इति)