keeping a watch overtraders
विश्वास-प्रस्तुतिः - 01
01 संस्थाऽध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणविशुद्धानां आधानं विक्रयं वा स्थापयेत्
मूलम् - 01
01 संस्थाऽध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणविशुद्धानां आधानं विक्रयं वा स्थापयेत्
विश्वास-प्रस्तुतिः - 02
02 तुलामानभाण्डानि चावेक्षेत पौतवापचारात्
मूलम् - 02
02 तुलामानभाण्डानि चावेक्षेत पौतवापचारात्
विश्वास-प्रस्तुतिः - 03
03 परिमाणीद्रोणयोरर्धपलहीनातिरिक्तं अदोषः
मूलम् - 03
03 परिमाणीद्रोणयोरर्धपलहीनातिरिक्तं अदोषः
विश्वास-प्रस्तुतिः - 04
04 पलहीनातिरिक्ते द्वादशपणो दण्डः
मूलम् - 04
04 पलहीनातिरिक्ते द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 05
05 तेन पल उत्तरा दण्डवृद्धिर्व्याख्याता
मूलम् - 05
05 तेन पल उत्तरा दण्डवृद्धिर्व्याख्याता
विश्वास-प्रस्तुतिः - 06
06 तुलायाः कर्षहीनातिरिक्तं अदोषः
मूलम् - 06
06 तुलायाः कर्षहीनातिरिक्तं अदोषः
विश्वास-प्रस्तुतिः - 07
07 द्विकर्षहीनातिरिक्ते षट्पणो दण्डः
मूलम् - 07
07 द्विकर्षहीनातिरिक्ते षट्पणो दण्डः
विश्वास-प्रस्तुतिः - 08
08 तेन कर्ष उत्तरा दण्डवृद्धिर्व्याख्याता
मूलम् - 08
08 तेन कर्ष उत्तरा दण्डवृद्धिर्व्याख्याता
विश्वास-प्रस्तुतिः - 09
09 आढकस्यार्धकर्षहीनातिरिक्तं अदोषः
मूलम् - 09
09 आढकस्यार्धकर्षहीनातिरिक्तं अदोषः
विश्वास-प्रस्तुतिः - 10
10 कर्षहीनातिरिक्ते त्रिपणो दण्डः
मूलम् - 10
10 कर्षहीनातिरिक्ते त्रिपणो दण्डः
विश्वास-प्रस्तुतिः - 11
11 तेन कर्ष उत्तरा दण्डवृद्धिर्व्याख्याता
मूलम् - 11
11 तेन कर्ष उत्तरा दण्डवृद्धिर्व्याख्याता
विश्वास-प्रस्तुतिः - 12
12 तुलामानविशेषाणां अतोऽन्येषां अनुमानं कुर्यात्
मूलम् - 12
12 तुलामानविशेषाणां अतोऽन्येषां अनुमानं कुर्यात्
विश्वास-प्रस्तुतिः - 13
13 तुलामानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्विगुणा दण्डाः
मूलम् - 13
13 तुलामानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्विगुणा दण्डाः
विश्वास-प्रस्तुतिः - 14
14 गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतः षण्ँअवतिर्दण्डः
मूलम् - 14
14 गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतः षण्ँअवतिर्दण्डः
विश्वास-प्रस्तुतिः - 15
15 काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जात्यं इत्यजात्यं विक्रयाधानं नयतो मूल्याष्टगुणो दण्डः
मूलम् - 15

विश्वास-प्रस्तुतिः - 16
16 सारभाण्डं इत्यसारभाण्डं तज्जातं इत्यतज्जातं राधायुक्तं इत्युपधियुक्तं समुद्गपरिवर्तिमं वा विक्रयाधानं नयतो हीनमूल्यं चतुष्पञ्चाशत्पणो दण्डः, पणमूल्यं द्विगुणो, द्विपणमूल्यं द्विशतः
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
मूलम् - 17
17 तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
विश्वास-प्रस्तुतिः - 18
18 कारुशिल्पिनां कर्मगुणापकर्षं आजीवं विक्रयक्रय उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः
मूलम् - 18
18 कारुशिल्पिनां कर्मगुणापकर्षं आजीवं विक्रयक्रय उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः
विश्वास-प्रस्तुतिः - 19
19 वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः
मूलम् - 19
19 वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः
विश्वास-प्रस्तुतिः - 20
20 तुलामानान्तरं अर्घवर्णान्तरं वा - धरकस्य मायकस्य वा पणमूल्याद् अष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21 तेन द्विशत उत्तरा दण्डवृद्धिर्व्याख्याता
मूलम् - 21
21 तेन द्विशत उत्तरा दण्डवृद्धिर्व्याख्याता
विश्वास-प्रस्तुतिः - 22
22 धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां समवर्ण उपधाने द्वादशपणो दण्डः
मूलम् - 22
22 धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां समवर्ण उपधाने द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 23
23 यन्निषृष्टं उपजीवेयुः तद् एषां दिवससञ्जातं सङ्ख्याय वणिक् स्थापयेत्
मूलम् - 23
23 यन्निषृष्टं उपजीवेयुः तद् एषां दिवससञ्जातं सङ्ख्याय वणिक् स्थापयेत्
विश्वास-प्रस्तुतिः - 24
24 क्रेतृविक्रेत्रोरन्तरपतितं आदायाद् अन्यद् भवति
मूलम् - 24
24 क्रेतृविक्रेत्रोरन्तरपतितं आदायाद् अन्यद् भवति
विश्वास-प्रस्तुतिः - 25
25 तेन धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः
मूलम् - 25
25 तेन धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः
विश्वास-प्रस्तुतिः - 26
26 अन्यथानिचितं एषां पण्याध्यक्षो गृह्णीयात्
मूलम् - 26
26 अन्यथानिचितं एषां पण्याध्यक्षो गृह्णीयात्
विश्वास-प्रस्तुतिः - 27
27 तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण प्रजानाम्
मूलम् - 27
27 तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण प्रजानाम्
विश्वास-प्रस्तुतिः - 28
28 अनुज्ञातक्रयाद् उपरि च एषां स्वदेशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत्, परदेशीयानां दशकम्
मूलम् - 28
28 अनुज्ञातक्रयाद् उपरि च एषां स्वदेशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत्, परदेशीयानां दशकम्
विश्वास-प्रस्तुतिः - 29
29 ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पणशते पञ्चपणाद् द्विशतो दण्डः
मूलम् - 29
29 ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पणशते पञ्चपणाद् द्विशतो दण्डः
विश्वास-प्रस्तुतिः - 30
30 तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
मूलम् - 30
30 तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
विश्वास-प्रस्तुतिः - 31
31 सम्भूयक्रये च एषां अविक्रीते नान्यं सम्भूयक्रयं दद्यात्
मूलम् - 31
31 सम्भूयक्रये च एषां अविक्रीते नान्यं सम्भूयक्रयं दद्यात्
विश्वास-प्रस्तुतिः - 32
32 पण्य उपघाते च एषां अनुग्रहं कुर्यात्
मूलम् - 32
32 पण्य उपघाते च एषां अनुग्रहं कुर्यात्
विश्वास-प्रस्तुतिः - 33
33 पण्यबाहुल्यात् पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत
मूलम् - 33
33 पण्यबाहुल्यात् पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत
विश्वास-प्रस्तुतिः - 34
34 तेष्वविक्रीतेषु नान्ये विक्रीणीरन्
मूलम् - 34
34 तेष्वविक्रीतेषु नान्ये विक्रीणीरन्
विश्वास-प्रस्तुतिः - 35
35 तानि दिवसवेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम्
मूलम् - 35
35 तानि दिवसवेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम्
विश्वास-प्रस्तुतिः - 36
36ab देशकालान्तरितानां तु पण्यानां - प्रक्षेपं पण्यनिष्पत्तिं शुल्कं वृद्धिं अवक्रयम् ।
36chd व्ययान् अन्यांश्च सङ्ख्याय स्थापयेद् अर्घं अर्घवित् (इति)
मूलम् - 36