keeping a watch over artisans
विश्वास-प्रस्तुतिः - 01
01 प्रदेष्टारः त्रयः त्रयोऽमात्याः कण्टकशोधनं कुर्युः
मूलम् - 01
01 प्रदेष्टारः त्रयः त्रयोऽमात्याः कण्टकशोधनं कुर्युः
विश्वास-प्रस्तुतिः - 02
02 अर्थ्यप्रतीकाराः कारुशासितारः सन्निक्षेप्तारः स्ववित्तकारवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः
मूलम् - 02
02 अर्थ्यप्रतीकाराः कारुशासितारः सन्निक्षेप्तारः स्ववित्तकारवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः
विश्वास-प्रस्तुतिः - 03
03 विपत्तौ श्रेणी निक्षेपं भजेत
मूलम् - 03
03 विपत्तौ श्रेणी निक्षेपं भजेत
विश्वास-प्रस्तुतिः - 04
04 निर्दिष्टदेशकालकार्यं च कर्म कुर्युः, अनिर्दिष्टदेशकालं कार्यापदेशम्
मूलम् - 04
04 निर्दिष्टदेशकालकार्यं च कर्म कुर्युः, अनिर्दिष्टदेशकालं कार्यापदेशम्
विश्वास-प्रस्तुतिः - 05
05 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः
मूलम् - 05
05 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः
विश्वास-प्रस्तुतिः - 06
06 अन्यत्र भ्रेष उपनिपाताभ्यां नष्टं विनष्टं वाऽभ्यावहेयुः
मूलम् - 06
06 अन्यत्र भ्रेष उपनिपाताभ्यां नष्टं विनष्टं वाऽभ्यावहेयुः
विश्वास-प्रस्तुतिः - 07
07 कार्यस्यान्यथाकरणे वेतननाशः तद्द्विगुणश्च दण्डः
मूलम् - 07
07 कार्यस्यान्यथाकरणे वेतननाशः तद्द्विगुणश्च दण्डः
विश्वास-प्रस्तुतिः - 08
08 तन्तुवाया दश एकादशिकं सूत्रं वर्धयेयुः
मूलम् - 08
08 तन्तुवाया दश एकादशिकं सूत्रं वर्धयेयुः
विश्वास-प्रस्तुतिः - 09
09 वृद्धिच्छेदे छेदद्विगुणो दण्डः
मूलम् - 09
09 वृद्धिच्छेदे छेदद्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 10
10 सूत्रमूल्यं वानवेतनं, क्षौमकौशेयानां अध्यर्धगुणं, पत्त्र ऊर्णाकम्बलदुकूलानां द्विगुणम्
मूलम् - 10
10 सूत्रमूल्यं वानवेतनं, क्षौमकौशेयानां अध्यर्धगुणं, पत्त्र ऊर्णाकम्बलदुकूलानां द्विगुणम्
विश्वास-प्रस्तुतिः - 11
11 मानहीने हीनावहीनं वेतनं तद्द्विगुणश्च दण्डः, तुलाहीने हीनचतुर्गुणो दण्डः, सूत्रपरिवर्तने मूल्यद्विगुणः
मूलम् - 11
11 मानहीने हीनावहीनं वेतनं तद्द्विगुणश्च दण्डः, तुलाहीने हीनचतुर्गुणो दण्डः, सूत्रपरिवर्तने मूल्यद्विगुणः
विश्वास-प्रस्तुतिः - 12
12 तेन द्विपटवानं व्याख्यातम्
मूलम् - 12
12 तेन द्विपटवानं व्याख्यातम्
विश्वास-प्रस्तुतिः - 13
13 ऊर्णातुलायाः पञ्चपलिको विहननच्छेदो रोमच्छेदश्च
मूलम् - 13
13 ऊर्णातुलायाः पञ्चपलिको विहननच्छेदो रोमच्छेदश्च
विश्वास-प्रस्तुतिः - 14
14 रजकाः काष्ठफलकश्लक्ष्णशिलासु वस्त्राणि नेनिज्युः
मूलम् - 14
14 रजकाः काष्ठफलकश्लक्ष्णशिलासु वस्त्राणि नेनिज्युः
विश्वास-प्रस्तुतिः - 15
15 अन्यत्र नेनिजतो वस्त्र उपघातं षट्पणं च दण्डं दद्युः
मूलम् - 15
15 अन्यत्र नेनिजतो वस्त्र उपघातं षट्पणं च दण्डं दद्युः
विश्वास-प्रस्तुतिः - 16
16 मुद्गराङ्काद् अन्यद् वासः परिदधानाः त्रिपणं दण्डं दद्युः
मूलम् - 16
16 मुद्गराङ्काद् अन्यद् वासः परिदधानाः त्रिपणं दण्डं दद्युः
विश्वास-प्रस्तुतिः - 17
17 परवस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो दण्डः, परिवर्तने मूल्यद्विगुणो वस्त्रदानं च
मूलम् - 17
17 परवस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो दण्डः, परिवर्तने मूल्यद्विगुणो वस्त्रदानं च
विश्वास-प्रस्तुतिः - 18
18 मुकुलावदातं शिलापट्टशुद्धं धौतसूत्रवर्णं प्रमृष्टश्वेतं च एकरात्र उत्तरं दद्युः
मूलम् - 18
18 मुकुलावदातं शिलापट्टशुद्धं धौतसूत्रवर्णं प्रमृष्टश्वेतं च एकरात्र उत्तरं दद्युः
विश्वास-प्रस्तुतिः - 19
19 पञ्चरात्रिकं तनुरागं, षड्रात्रिकं नीलं, पुष्पलाक्षामञ्जिष्ठारक्तं गुरुपरिकर्म यत्न उपचार्यं जात्यं वासः सप्तरात्रिकम्
मूलम् - 19
19 पञ्चरात्रिकं तनुरागं, षड्रात्रिकं नीलं, पुष्पलाक्षामञ्जिष्ठारक्तं गुरुपरिकर्म यत्न उपचार्यं जात्यं वासः सप्तरात्रिकम्
विश्वास-प्रस्तुतिः - 20
20 ततः परं वेतनहानिं प्राप्नुयुः
मूलम् - 20
20 ततः परं वेतनहानिं प्राप्नुयुः
विश्वास-प्रस्तुतिः - 21
21 श्रद्धेया रागविवादेषु वेतनं कुशलाः कल्पयेयुः
मूलम् - 21
21 श्रद्धेया रागविवादेषु वेतनं कुशलाः कल्पयेयुः
विश्वास-प्रस्तुतिः - 22
22 परार्ध्यानां पणो वेतनं, मध्यमानां अर्धपणः, प्रत्यवराणां पादः, स्थूलकानां माषकद्विमाषकं, द्विगुणं रक्तकानाम्
मूलम् - 22
22 परार्ध्यानां पणो वेतनं, मध्यमानां अर्धपणः, प्रत्यवराणां पादः, स्थूलकानां माषकद्विमाषकं, द्विगुणं रक्तकानाम्
विश्वास-प्रस्तुतिः - 23
23 प्रथमनेजने चतुर्भागः क्षयः, द्वितीये पञ्चभागः
मूलम् - 23
23 प्रथमनेजने चतुर्भागः क्षयः, द्वितीये पञ्चभागः
विश्वास-प्रस्तुतिः - 24
24 तेन उत्तरं व्याख्यातम्
मूलम् - 24
24 तेन उत्तरं व्याख्यातम्
विश्वास-प्रस्तुतिः - 25
25 रजकैः तुन्नवाया व्याख्याताः
मूलम् - 25
25 रजकैः तुन्नवाया व्याख्याताः
विश्वास-प्रस्तुतिः - 26
26 सुवर्णकाराणां अशुचिहस्ताद् रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्विंशतिपणः, चोरहस्ताद् अष्टचत्वारिंशत्पणः
मूलम् - 26
26 सुवर्णकाराणां अशुचिहस्ताद् रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्विंशतिपणः, चोरहस्ताद् अष्टचत्वारिंशत्पणः
विश्वास-प्रस्तुतिः - 27
27 प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेयदण्डः, कृतभाण्ड उपधौ च
मूलम् - 27
27 प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेयदण्डः, कृतभाण्ड उपधौ च
विश्वास-प्रस्तुतिः - 28
28 सुवर्णान् माषकं अपहरतो द्विशतो दण्डः, रूप्यधरणान् माषकं अपहरतो द्वादशपणः
मूलम् - 28
28 सुवर्णान् माषकं अपहरतो द्विशतो दण्डः, रूप्यधरणान् माषकं अपहरतो द्वादशपणः
विश्वास-प्रस्तुतिः - 29
29 तेन उत्तरं व्याख्यातम्
मूलम् - 29
29 तेन उत्तरं व्याख्यातम्
विश्वास-प्रस्तुतिः - 30
30 वर्ण उत्कर्षं अपसारणं योगं वा साधयतः पञ्चशतो दण्डः
मूलम् - 30
30 वर्ण उत्कर्षं अपसारणं योगं वा साधयतः पञ्चशतो दण्डः
विश्वास-प्रस्तुतिः - 31
31 तयोरपचरणे रागस्यापहारं विद्यात्
मूलम् - 31
31 तयोरपचरणे रागस्यापहारं विद्यात्
विश्वास-प्रस्तुतिः - 32
32 माषको वेतनं रूप्यधरणस्य, सुवर्णस्याष्टभागः
मूलम् - 32
32 माषको वेतनं रूप्यधरणस्य, सुवर्णस्याष्टभागः
विश्वास-प्रस्तुतिः - 33
33 शिक्षाविशेषेण द्विगुणो वेतनवृद्धिः
मूलम् - 33
33 शिक्षाविशेषेण द्विगुणो वेतनवृद्धिः
विश्वास-प्रस्तुतिः - 34
34 तेन उत्तरं व्याख्यातम्
मूलम् - 34
34 तेन उत्तरं व्याख्यातम्
विश्वास-प्रस्तुतिः - 35
35 ताम्रवृत्तकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम्
मूलम् - 35
35 ताम्रवृत्तकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम्
विश्वास-प्रस्तुतिः - 36
36 ताम्रपिण्डो दशभागक्षयः
मूलम् - 36
36 ताम्रपिण्डो दशभागक्षयः
विश्वास-प्रस्तुतिः - 37
37 पलहीने हीनद्विगुणो दण्डः
मूलम् - 37
37 पलहीने हीनद्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 38
38 तेन उत्तरं व्याख्यातम्
मूलम् - 38
38 तेन उत्तरं व्याख्यातम्
विश्वास-प्रस्तुतिः - 39
39 सीसत्रपुपिण्डो विंशतिभागक्षयः
मूलम् - 39
39 सीसत्रपुपिण्डो विंशतिभागक्षयः
विश्वास-प्रस्तुतिः - 40
40 काकणी चास्य पलवेतनम्
मूलम् - 40
40 काकणी चास्य पलवेतनम्
विश्वास-प्रस्तुतिः - 41
41 कालायसपिण्डः पञ्चभागक्षयः
मूलम् - 41
41 कालायसपिण्डः पञ्चभागक्षयः
विश्वास-प्रस्तुतिः - 42
42 काकणीद्वयं चास्य पलवेतनम्
मूलम् - 42
42 काकणीद्वयं चास्य पलवेतनम्
विश्वास-प्रस्तुतिः - 43
43 तेन उत्तरं व्याख्यातम्
मूलम् - 43
43 तेन उत्तरं व्याख्यातम्
विश्वास-प्रस्तुतिः - 44
44 रूपदर्शकस्य स्थितां पणयात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादशपणो दण्डः
मूलम् - 44
44 रूपदर्शकस्य स्थितां पणयात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 45
45 व्याजीपरिशुद्धौ पणयात्रा
मूलम् - 45
45 व्याजीपरिशुद्धौ पणयात्रा
विश्वास-प्रस्तुतिः - 46
46 पणान् माषकं उपजीवतो द्वादशपणो दण्डः
मूलम् - 46
46 पणान् माषकं उपजीवतो द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 47
47 तेन उत्तरं व्याख्यातम्
मूलम् - 47
47 तेन उत्तरं व्याख्यातम्
विश्वास-प्रस्तुतिः - 48
48 कूटरूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः
मूलम् - 48
48 कूटरूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः
विश्वास-प्रस्तुतिः - 49
49 चरकपांसुधावकाः सारत्रिभागं, द्वौ राजा रत्नं च
मूलम् - 49
49 चरकपांसुधावकाः सारत्रिभागं, द्वौ राजा रत्नं च
विश्वास-प्रस्तुतिः - 50
50 रत्नापहार उत्तमो दण्डः
मूलम् - 50
50 रत्नापहार उत्तमो दण्डः
विश्वास-प्रस्तुतिः - 51
51 खनिरत्ननिधिनिवेदनेषु षष्ठं अंशं निवेत्ता लभेत, द्वादशं अंशं भृतकः
मूलम् - 51
51 खनिरत्ननिधिनिवेदनेषु षष्ठं अंशं निवेत्ता लभेत, द्वादशं अंशं भृतकः
विश्वास-प्रस्तुतिः - 52
52 शतसहस्राद् ऊर्ध्वं राजगामी निधिः
मूलम् - 52
52 शतसहस्राद् ऊर्ध्वं राजगामी निधिः
विश्वास-प्रस्तुतिः - 53
53 ऊने षष्ठं अंशं दद्यात्
मूलम् - 53
53 ऊने षष्ठं अंशं दद्यात्
विश्वास-प्रस्तुतिः - 54
54 पौर्वपौरुषिकं निधिं जानपदः शुचिः स्वकरणेन समग्रं लभेत
मूलम् - 54
54 पौर्वपौरुषिकं निधिं जानपदः शुचिः स्वकरणेन समग्रं लभेत
विश्वास-प्रस्तुतिः - 55
55 स्वकरणाभावे पञ्चशतो दण्डः, प्रच्छन्नादाने सहस्रम्
मूलम् - 55
55 स्वकरणाभावे पञ्चशतो दण्डः, प्रच्छन्नादाने सहस्रम्
विश्वास-प्रस्तुतिः - 56
56 भिषजः प्राणाबाधिकं अनाख्याय उपक्रममाणस्य विपत्तौ पूर्वः साहसदण्डः, कर्मापराधेन विपत्तौ मध्यमः
मूलम् - 56
56 भिषजः प्राणाबाधिकं अनाख्याय उपक्रममाणस्य विपत्तौ पूर्वः साहसदण्डः, कर्मापराधेन विपत्तौ मध्यमः
विश्वास-प्रस्तुतिः - 57
57 मर्मवधवैगुण्यकरणे दण्डपारुष्यं विद्यात्
मूलम् - 57
57 मर्मवधवैगुण्यकरणे दण्डपारुष्यं विद्यात्
विश्वास-प्रस्तुतिः - 58
58 कुशीलवा वर्षारात्रं एकस्था वसेयुः
मूलम् - 58
58 कुशीलवा वर्षारात्रं एकस्था वसेयुः
विश्वास-प्रस्तुतिः - 59
59 कामदानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः
मूलम् - 59
59 कामदानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः
विश्वास-प्रस्तुतिः - 60
60 तस्यातिक्रमे द्वादशपणो दण्डः
मूलम् - 60
60 तस्यातिक्रमे द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 61
61 कामं देशजातिगोत्रचरणमैथुनावहासेन नर्मयेयुः
मूलम् - 61
61 कामं देशजातिगोत्रचरणमैथुनावहासेन नर्मयेयुः
विश्वास-प्रस्तुतिः - 62
62 कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः
मूलम् - 62
62 कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः
विश्वास-प्रस्तुतिः - 63
63 तेषां अयःशूलेन यावतः पणान् अभिवदेयुः तावन्तः शिफाप्रहारा दण्डाः
मूलम् - 63
63 तेषां अयःशूलेन यावतः पणान् अभिवदेयुः तावन्तः शिफाप्रहारा दण्डाः
विश्वास-प्रस्तुतिः - 64
64 शेषाणां कर्मणां निष्पत्तिवेतनं शिल्पिनां कल्पयेत्
मूलम् - 64
64 शेषाणां कर्मणां निष्पत्तिवेतनं शिल्पिनां कल्पयेत्
विश्वास-प्रस्तुतिः - 65
65ab एवं चोरान् अचोराख्यान् वणिक्कारुकुशीलवान् ।
मूलम् - 65
65ab एवं चोरान् अचोराख्यान् वणिक्कारुकुशीलवान् ।
विश्वास-प्रस्तुतिः - 66
66chd भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशपीडनात् (इति)
मूलम् - 66
66chd भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशपीडनात् (इति)