२०

Gambling and betting
Mischellaneous

विश्वास-प्रस्तुतिः - 01

01 द्यूताध्यक्षो द्यूतं एकमुखं कारयेत्

मूलम् - 01

01 द्यूताध्यक्षो द्यूतं एकमुखं कारयेत्

विश्वास-प्रस्तुतिः - 02

02 अन्यत्र दीव्यतो द्वादशपणो दण्डो गूढाजीविज्ञापनार्थम्

मूलम् - 02

02 अन्यत्र दीव्यतो द्वादशपणो दण्डो गूढाजीविज्ञापनार्थम्

विश्वास-प्रस्तुतिः - 03

03 द्यूताभियोगे जेतुः पूर्वः साहसदण्डः, पराजितस्य मध्यमः

मूलम् - 03

03 द्यूताभियोगे जेतुः पूर्वः साहसदण्डः, पराजितस्य मध्यमः

विश्वास-प्रस्तुतिः - 04

04 बालिशजातीयो ह्येष जेतुकामः पराजयं न क्षमते इत्याचार्याः

मूलम् - 04

04 बालिशजातीयो ह्येष जेतुकामः पराजयं न क्षमते इत्याचार्याः

विश्वास-प्रस्तुतिः - 05

05 न इत्य्कौटिल्यः

मूलम् - 05

05 न इत्य्कौटिल्यः

विश्वास-प्रस्तुतिः - 06

06 पराजितश्चेद् द्विगुणदण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति

मूलम् - 06

06 पराजितश्चेद् द्विगुणदण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति

विश्वास-प्रस्तुतिः - 07

07 प्रायशो हि कितवाः कूटदेविनः

मूलम् - 07

07 प्रायशो हि कितवाः कूटदेविनः

विश्वास-प्रस्तुतिः - 08

08 तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः

मूलम् - 08

08 तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः

विश्वास-प्रस्तुतिः - 09

09 काकण्य्ऽक्षाणां अन्य उपधाने द्वादशपणो दण्डः, कूटकर्मणि पूर्वः साहसदण्डो जितप्रत्यादानं, उपधौ स्तेयदण्डश्च

मूलम् - 09

विश्वास-प्रस्तुतिः - 10

10 जितद्रव्याद् अध्यक्षः पञ्चकं शतं आददीत, काकण्य्ऽक्षारालाशलाकाऽवक्रयं उदकभूमिकर्मक्रयं च

मूलम् - 10

10 जितद्रव्याद् अध्यक्षः पञ्चकं शतं आददीत, काकण्य्ऽक्षारालाशलाकाऽवक्रयं उदकभूमिकर्मक्रयं च

विश्वास-प्रस्तुतिः - 11

11 द्रव्याणां आधानं विक्रयं च कुर्यात्

मूलम् - 11

11 द्रव्याणां आधानं विक्रयं च कुर्यात्

विश्वास-प्रस्तुतिः - 12

12 अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्डः

मूलम् - 12

12 अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्डः

विश्वास-प्रस्तुतिः - 13

13 तेन समाह्वयो व्याख्यातः, अन्यत्र विद्याशिल्पसमाह्वयात् । इति

मूलम् - 13

13 तेन समाह्वयो व्याख्यातः, अन्यत्र विद्याशिल्पसमाह्वयात् । इति

विश्वास-प्रस्तुतिः - 14

14 प्रकीर्णकं तु - याचितकावक्रीतकाहितकनिक्षेपकाणां यथादेशकालं अदाने, यामच्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने, गुल्मतरदेयं ब्राह्मणं साधयतः, प्रतिवेशानुवेशयोरुपरि निमन्त्रणे च द्वादशपणो दण्डः

मूलम् - 14

विश्वास-प्रस्तुतिः - 15

15 सन्दिष्टं अर्थं अप्रयच्छतो, भ्रातृभार्यां हस्तेन लङ्घयतो, रूपाजीवां अन्य उपरुद्धां गच्छतः, परवक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहं उद्भिन्दतः, सामन्तचत्वारिंशत्कुल्याबाधां आचरतश्चाष्टचत्वारिंशत्पणो दण्डः

मूलम् - 15

विश्वास-प्रस्तुतिः - 16

16 कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दवासिनीं प्रसह्याधिचरतः, चण्डालस्यार्यां स्पृशतः, प्रत्यासन्नं आपद्यनभिधावतो, निष्कारणं अभिधावनं कुर्वतः, शाक्याजीवकादीन् वृषलप्रव्रजितान् देवपितृकार्येषु भोजयतः शत्यो दण्डः

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17 शपथवाक्यानुयोगं अनिषृष्टं कुर्वतः, युक्तकर्म चायुक्तस्य, क्षुद्रपशुवृषाणां पुंस्त्व उपघातिनः, दास्या गर्भं औषधेन पातयतश्च पूर्वः साहसदण्डः

मूलम् - 17

विश्वास-प्रस्तुतिः - 18

18 पितापुत्रयोर्दम्पत्योर्भ्रातृभगिन्योर्मातुलभगिनेययोः शिष्याचार्ययोर्वा परस्परं अपतितं त्यजतः, सार्थाभिप्रयातं ग्राममध्ये वा त्यजतः पूर्वः साहसदण्डः, कान्तारे मध्यमः, तन्निमित्तं भ्रेषयत उत्तमः, सहप्रस्थायिष्वन्येष्वर्धदण्डाः

मूलम् - 18

विश्वास-प्रस्तुतिः - 19

19 पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालं अप्राप्तव्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः

मूलम् - 19

विश्वास-प्रस्तुतिः - 20

20 पुरुषापराधविशेषेण दण्डविशेषः कार्यः

मूलम् - 20

20 पुरुषापराधविशेषेण दण्डविशेषः कार्यः

विश्वास-प्रस्तुतिः - 21

21 तीर्थकरः तपस्वी व्याधितः क्षुत्पिपासाऽध्वक्लान्तः तिरोजनपदो दण्डखेदी निष्किञ्चनश्चानुग्राह्याः

मूलम् - 21

21 तीर्थकरः तपस्वी व्याधितः क्षुत्पिपासाऽध्वक्लान्तः तिरोजनपदो दण्डखेदी निष्किञ्चनश्चानुग्राह्याः

विश्वास-प्रस्तुतिः - 22

22 देवब्राह्मणतपस्विस्त्रीबालवृद्धव्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देशकालभोगच्छलेनातिहरेयुः

मूलम् - 22

विश्वास-प्रस्तुतिः - 23

23 पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः

मूलम् - 23

23 पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः

विश्वास-प्रस्तुतिः - 24

24ab एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः ।
24chd समाः सर्वेषु भावेषु विश्वास्या लोकसम्प्रियाः (इति)

मूलम् - 24