Physical i~njury
विश्वास-प्रस्तुतिः - 01
01 दण्डपारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति
मूलम् - 01
01 दण्डपारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति
विश्वास-प्रस्तुतिः - 02
02 नाभेरधःकायं हस्तपङ्कभस्मपांसुभिरिति स्पृशतः त्रिपणो दण्डः, तैरेवामेध्यैः पादष्ठीविकाभ्यां च षट्पणः, छर्दिमूत्रपुरीषादिभिर्द्वादशपणः
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 नाभेरुपरि द्विगुणाः, शिरसि चतुर्गुणाः समेषु
मूलम् - 03
03 नाभेरुपरि द्विगुणाः, शिरसि चतुर्गुणाः समेषु
विश्वास-प्रस्तुतिः - 04
04 विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः
मूलम् - 04
04 विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः
विश्वास-प्रस्तुतिः - 05
05 पादवस्त्रहस्तकेशावलम्बनेषु षट्पण उत्तरा दण्डाः
मूलम् - 05
05 पादवस्त्रहस्तकेशावलम्बनेषु षट्पण उत्तरा दण्डाः
विश्वास-प्रस्तुतिः - 06
06 पीडनावेष्टनाञ्चनप्रकर्षणाध्यासनेषु पूर्वः साहसदण्डः
मूलम् - 06
06 पीडनावेष्टनाञ्चनप्रकर्षणाध्यासनेषु पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 07
07 पातयित्वाऽपक्रामतोऽर्धदण्डः
मूलम् - 07
07 पातयित्वाऽपक्रामतोऽर्धदण्डः
विश्वास-प्रस्तुतिः - 08
08 शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात् तद् अस्यच्छेदयेत्
मूलम् - 08
08 शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात् तद् अस्यच्छेदयेत्
विश्वास-प्रस्तुतिः - 09
09 अवगूर्णे निष्क्रयः, स्पर्शेऽर्धदण्डः
मूलम् - 09
09 अवगूर्णे निष्क्रयः, स्पर्शेऽर्धदण्डः
विश्वास-प्रस्तुतिः - 10
10 तेन चण्डालाशुचयो व्याख्यातः
मूलम् - 10
10 तेन चण्डालाशुचयो व्याख्यातः
विश्वास-प्रस्तुतिः - 11
11 हस्तेनावगूर्णे त्रिपणावरो द्वादशपणपरो दण्डः, पादेन द्विगुणः, दुःख उत्पादनेन द्रव्येण पूर्वः साहसदण्डः, प्राणाबाधिकेन मध्यमः
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशतिपणो दण्डः, शोणित उत्पादने द्विगुणः, अन्यत्र दुष्टशोणितात्
मूलम् - 12

विश्वास-प्रस्तुतिः - 13
13 मृतकल्पं अशोणितं घ्नतो हस्तपादपारञ्चिकं वा कुर्वतः पूर्वः साहसदण्डः, पाणिपाददन्तभङ्गे कर्णनासाच्छेदने व्रणविदारणे च्च, अन्यत्र दुष्टव्रणेभ्यः
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजन उपरोधेषु च मध्यमः साहसदण्डः समुत्थानव्ययश्च
मूलम् - 14
14 सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजन उपरोधेषु च मध्यमः साहसदण्डः समुत्थानव्ययश्च
विश्वास-प्रस्तुतिः - 15
15 विपत्तौ कण्टकशोधनाय नीयेत
मूलम् - 15
15 विपत्तौ कण्टकशोधनाय नीयेत
विश्वास-प्रस्तुतिः - 16
16 महाजनस्य एकं घ्नतः प्रत्येकं द्विगुणो दण्डः
मूलम् - 16
16 महाजनस्य एकं घ्नतः प्रत्येकं द्विगुणो दण्डः
विश्वास-प्रस्तुतिः - 17
17 पर्युषितः कलहोऽनुप्रवेशो वा नाभियोज्यः इत्याचार्याः
मूलम् - 17
17 पर्युषितः कलहोऽनुप्रवेशो वा नाभियोज्यः इत्याचार्याः
विश्वास-प्रस्तुतिः - 18
18 नास्त्यपकारिणो मोक्ष इति कौटिल्यः
मूलम् - 18
18 नास्त्यपकारिणो मोक्ष इति कौटिल्यः
विश्वास-प्रस्तुतिः - 19
19 कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति इत्याचार्याः
मूलम् - 19
19 कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति इत्याचार्याः
विश्वास-प्रस्तुतिः - 20
20 न इति कौटिल्यः
मूलम् - 20
20 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 21
21 पूर्वं पश्चाद् वाऽभिगतस्य साक्षिणः प्रमाणं, असाक्षिके घातः कलह उपलिङ्गनं वा
मूलम् - 21
21 पूर्वं पश्चाद् वाऽभिगतस्य साक्षिणः प्रमाणं, असाक्षिके घातः कलह उपलिङ्गनं वा
विश्वास-प्रस्तुतिः - 22
22 घाताभियोगं अप्रतिब्रुवतः तद् अहरेव पश्चात्कारः
मूलम् - 22
22 घाताभियोगं अप्रतिब्रुवतः तद् अहरेव पश्चात्कारः
विश्वास-प्रस्तुतिः - 23
23 कलहे द्रव्यं अपहरतो दशपणो दण्डः, क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः, स्थूलकद्रव्यहिंसायां तच्च द्विगुणश्च दण्डः, वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः
मूलम् - 23

विश्वास-प्रस्तुतिः - 24
24 परकुड्यं अभिघातेन क्षोभयतः त्रिपणो दण्डः, छेदनभेदने षट्पणः, प्रतीकारश्च
मूलम् - 24
24 परकुड्यं अभिघातेन क्षोभयतः त्रिपणो दण्डः, छेदनभेदने षट्पणः, प्रतीकारश्च
विश्वास-प्रस्तुतिः - 25
25 दुःख उत्पादनं द्रव्यं अन्यवेश्मनि प्रक्षिपतो द्वादशपणो दण्डः, प्राणाबाधिकं पूर्वः साहसदण्डः
मूलम् - 25
25 दुःख उत्पादनं द्रव्यं अन्यवेश्मनि प्रक्षिपतो द्वादशपणो दण्डः, प्राणाबाधिकं पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 26
26 क्षुद्रपशूनां काष्ठादिभिर्दुःख उत्पादने पणो द्विगुणो वा दण्डः, शोणित उत्पादने द्विगुणः
मूलम् - 26
26 क्षुद्रपशूनां काष्ठादिभिर्दुःख उत्पादने पणो द्विगुणो वा दण्डः, शोणित उत्पादने द्विगुणः
विश्वास-प्रस्तुतिः - 27
27 महापशूनां एतेष्वेव स्थानेष्व्द्विगुणो दण्डः समुत्थानव्ययश्च
मूलम् - 27
27 महापशूनां एतेष्वेव स्थानेष्व्द्विगुणो दण्डः समुत्थानव्ययश्च
विश्वास-प्रस्तुतिः - 28
28 पुर उपवनवनस्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः, क्षुद्रशाखाच्छेदने द्वादशपणः, पीनशाखाच्च्छेदने चतुर्विंशतिपणः, स्कन्धवधे पूर्वः साहसदण्डः, समुच्छित्तौ मध्यमः
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्डाः, पुण्यस्थानतपोवनश्मशानद्रुमेषु च
मूलम् - 29
29 पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्डाः, पुण्यस्थानतपोवनश्मशानद्रुमेषु च
विश्वास-प्रस्तुतिः - 30
30ab सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च ।
30chd त एव द्विगुणा दण्डाः कार्या राजवनेषु च (इति)
मूलम् - 30