Verbal i~njury
विश्वास-प्रस्तुतिः - 01
01 वाक्पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति
मूलम् - 01
01 वाक्पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति
विश्वास-प्रस्तुतिः - 02
02 शरीरप्रकृतिश्रुतवृत्तिजनपदानां शरीर उपवादे काणखञ्जादिभिः सत्ये त्रिपणो दण्डः, मिथ्या उपवादे षट्पणो दण्डः
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 शोभनाक्षिमन्तः इति काणखञ्जादीनां स्तुतिनिन्दायां द्वादशपणो दण्डः
मूलम् - 03
03 शोभनाक्षिमन्तः इति काणखञ्जादीनां स्तुतिनिन्दायां द्वादशपणो दण्डः
विश्वास-प्रस्तुतिः - 04
04 कुष्ठ उन्मादक्लैब्यादिभिः कुत्सायां च सत्यमिथ्यास्तुतिनिन्दासु द्वादशपण उत्तरा दण्डाः तुल्येषु
मूलम् - 04
04 कुष्ठ उन्मादक्लैब्यादिभिः कुत्सायां च सत्यमिथ्यास्तुतिनिन्दासु द्वादशपण उत्तरा दण्डाः तुल्येषु
विश्वास-प्रस्तुतिः - 05
05 विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः
मूलम् - 05
05 विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः
विश्वास-प्रस्तुतिः - 06
06 कुष्ठ उन्मादयोश्चिकित्सकाः सन्निकृष्टा पुमांसश्च प्रमाणं, क्लीबभावे स्त्रियो मूत्रफेनोऽप्सु विष्ठानिमज्जनं च
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 प्रकृत्य्।उपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनां अपरेण पूर्वस्य त्रिपण उत्तरा दण्डाः, पूर्वेणापरस्य द्विपणाधराः, कुब्राह्मणादिभिश्च कुत्सायाम्
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 तेन श्रुत उपवादो वाग्जीवनानां, कारुकुशीलवानां वृत्त्य्।उपवादः, प्राज्जूणकगान्धारादीनां च जनपद उपवादा व्याख्याताः
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 यः परं एवं त्वां करिष्यामि इति करणेनाभिभर्त्सयेद्, अकरणे यः तस्य करणे दण्डः ततोऽर्धदण्डं दद्यात्
मूलम् - 09
09 यः परं एवं त्वां करिष्यामि इति करणेनाभिभर्त्सयेद्, अकरणे यः तस्य करणे दण्डः ततोऽर्धदण्डं दद्यात्
विश्वास-प्रस्तुतिः - 10
10 अशक्तः कोपं मदं मोहं वाऽपदिशेद् द्वादशपणं दण्डं दद्यात्
मूलम् - 10
10 अशक्तः कोपं मदं मोहं वाऽपदिशेद् द्वादशपणं दण्डं दद्यात्
विश्वास-प्रस्तुतिः - 11
11 जातवैराशयः शक्तश्चापकर्तुं यावज्जीविकावस्थं दद्यात्
मूलम् - 11
11 जातवैराशयः शक्तश्चापकर्तुं यावज्जीविकावस्थं दद्यात्
विश्वास-प्रस्तुतिः - 12
12ab स्वदेशग्रामयोः पूर्वं मध्यमं जातिसङ्घयोः ।
12chd आक्रोशाद् देवचैत्यानां उत्तमं दण्डं अर्हति (इति)
मूलम् - 12