Forcible seizure
विश्वास-प्रस्तुतिः - 01
01 साहसं अन्वयवत् प्रसभकर्म
मूलम् - 01
01 साहसं अन्वयवत् प्रसभकर्म
विश्वास-प्रस्तुतिः - 02
02 निरन्वये स्तेयं, अपव्ययने च
मूलम् - 02
02 निरन्वये स्तेयं, अपव्ययने च
विश्वास-प्रस्तुतिः - 03
03 रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः इति मानवाः
मूलम् - 03
03 रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः इति मानवाः
विश्वास-प्रस्तुतिः - 04
04 मूल्यद्विगुणः इत्यौशनसाः
मूलम् - 04
04 मूल्यद्विगुणः इत्यौशनसाः
विश्वास-प्रस्तुतिः - 05
05 यथाऽपराध इति कौटिल्यः
मूलम् - 05
05 यथाऽपराध इति कौटिल्यः
विश्वास-प्रस्तुतिः - 06
06 पुष्पफलशाकमूलकन्दपक्वान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्रकद्रव्याणां द्वाद्शपणावरश्चतुर्विंशतिपणपरो दण्डः
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुपटादीनां स्थूलकद्रव्याणां चतुर्विंशतिपणावरोऽष्टचत्वारिंशत्पणपरो दण्डः
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलकद्रव्याणां अष्टचत्वारिंशत्पणावरः षण्ँअवतिपरः पूर्वः साहसदण्डः
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 महापशुमनुष्यक्षेत्रगृहहिरण्यसुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्रव्याणां द्विशतावरः पञ्चशतपरो मध्यमः साहसदण्डः
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 स्त्रियं पुरुषं वाऽभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपर उत्तमः साहसदण्डः इत्याचार्याः ॥
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 यः साहसं प्रतिपत्ता इति कारयति स द्विगुणं दद्यात्
मूलम् - 11
11 यः साहसं प्रतिपत्ता इति कारयति स द्विगुणं दद्यात्
विश्वास-प्रस्तुतिः - 12
12 यावद्द् हिरण्यं उपयोक्ष्यते तावद् दास्यामि इति स चतुर्गुणं दण्डं दद्यात्
मूलम् - 12
12 यावद्द् हिरण्यं उपयोक्ष्यते तावद् दास्यामि इति स चतुर्गुणं दण्डं दद्यात्
विश्वास-प्रस्तुतिः - 13
13 यः एतावद्द् हिरण्यं दास्यामि इति प्रमाणं उद्दिश्य कारयति स यथा उक्तं हिरण्यं दण्डं च दद्यात् इति बार्हस्पत्याः
मूलम् - 13

विश्वास-प्रस्तुतिः - 14
14 स चेत् कोपं मदं मोहं वाऽपदिशेद् यथा उक्तवद् दण्डं एनं कुर्याद् इति कौटिल्यः
मूलम् - 14
14 स चेत् कोपं मदं मोहं वाऽपदिशेद् यथा उक्तवद् दण्डं एनं कुर्याद् इति कौटिल्यः
विश्वास-प्रस्तुतिः - 15
15ab दण्डकर्मसु सर्वेषु रूपं अष्टपणं शतम् ।
15chd शतात् परेषु व्याजीं च विद्यात् पञ्चपणं शतम्
मूलम् - 15
15ab दण्डकर्मसु सर्वेषु रूपं अष्टपणं शतम् ।
15chd शतात् परेषु व्याजीं च विद्यात् पञ्चपणं शतम्
विश्वास-प्रस्तुतिः - 16
16ab प्रजानां दोषबाहुल्याद् राज्ञां वा भावदोषतः ।
16chd रूपव्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता (इति)
मूलम् - 16