Non-conveyance of gifts
sale without ownership
Relation of ownership
विश्वास-प्रस्तुतिः - 01
01 दत्तस्याप्रदानं ऋणादानेन व्याख्यातम्
मूलम् - 01
01 दत्तस्याप्रदानं ऋणादानेन व्याख्यातम्
विश्वास-प्रस्तुतिः - 02
02 दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत
मूलम् - 02
02 दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत
विश्वास-प्रस्तुतिः - 03
03 सर्वस्वं पुत्रदारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत्
मूलम् - 03
03 सर्वस्वं पुत्रदारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत्
विश्वास-प्रस्तुतिः - 04
04 धर्मदानं असाधुषु कर्मसु चाउपघातिकेषु वा, अर्थदानं अनुपकारिष्वपकारिषु वा, कामदानं अनर्हेषु च
मूलम् - 04
04 धर्मदानं असाधुषु कर्मसु चाउपघातिकेषु वा, अर्थदानं अनुपकारिष्वपकारिषु वा, कामदानं अनर्हेषु च
विश्वास-प्रस्तुतिः - 05
05 यथा च दाता प्रतिग्रहीता च न उपहतौ स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः
मूलम् - 05
05 यथा च दाता प्रतिग्रहीता च न उपहतौ स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः
विश्वास-प्रस्तुतिः - 06
06 दण्डभयाद् आक्रोशभयाद् अनर्थभयाद् वा भयदानं प्रतिगृह्णतः स्तेयदण्डः, प्रयच्छतश्च
मूलम् - 06
06 दण्डभयाद् आक्रोशभयाद् अनर्थभयाद् वा भयदानं प्रतिगृह्णतः स्तेयदण्डः, प्रयच्छतश्च
विश्वास-प्रस्तुतिः - 07
07 रोषदानं परहिंसायां, राज्ञां उपरि दर्पदानं च
मूलम् - 07
07 रोषदानं परहिंसायां, राज्ञां उपरि दर्पदानं च
विश्वास-प्रस्तुतिः - 08
08 तत्र उत्तमो दण्डः
मूलम् - 08
08 तत्र उत्तमो दण्डः
विश्वास-प्रस्तुतिः - 09
09 प्रातिभाव्यं दण्डशुल्कशेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थहरो दद्यात् इति दत्तस्यानपाकर्म ।
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 अस्वामिविक्रयः तु - नष्टापहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत्
मूलम् - 10
10 अस्वामिविक्रयः तु - नष्टापहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत्
विश्वास-प्रस्तुतिः - 11
11 देशकालातिपत्तौ वा स्वयं गृहीत्वा उपहरेत्
मूलम् - 11
11 देशकालातिपत्तौ वा स्वयं गृहीत्वा उपहरेत्
विश्वास-प्रस्तुतिः - 12
12 धर्मस्थश्च स्वामिनं अनुयुञ्जीत कुतः ते लब्धम् इति
मूलम् - 12
12 धर्मस्थश्च स्वामिनं अनुयुञ्जीत कुतः ते लब्धम् इति
विश्वास-प्रस्तुतिः - 13
13 स चेद् आचारक्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्यातिसर्गेण मुच्येत
मूलम् - 13
13 स चेद् आचारक्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्यातिसर्गेण मुच्येत
विश्वास-प्रस्तुतिः - 14
14 विक्रेता चेद् दृश्येत, मूल्यं स्तेयदण्डं च दद्यात्
मूलम् - 14
14 विक्रेता चेद् दृश्येत, मूल्यं स्तेयदण्डं च दद्यात्
विश्वास-प्रस्तुतिः - 15
15 स चेद् अपसारं अधिगच्छेद् अपसरेद् आऽपसारक्षयात्
मूलम् - 15
15 स चेद् अपसारं अधिगच्छेद् अपसरेद् आऽपसारक्षयात्
विश्वास-प्रस्तुतिः - 16
16 क्षये मूल्यं स्तेयदण्डं च दद्यात्
मूलम् - 16
16 क्षये मूल्यं स्तेयदण्डं च दद्यात्
विश्वास-प्रस्तुतिः - 17
17 नाष्टिकश्च स्वकरणं कृत्वा नष्टप्रत्याहृतं लभेत
मूलम् - 17
17 नाष्टिकश्च स्वकरणं कृत्वा नष्टप्रत्याहृतं लभेत
विश्वास-प्रस्तुतिः - 18
18 स्वकरणाभावे पञ्चबन्धो दण्डः
मूलम् - 18
18 स्वकरणाभावे पञ्चबन्धो दण्डः
विश्वास-प्रस्तुतिः - 19
19 तच्च द्रव्यं राजधर्म्यं स्यात्
मूलम् - 19
19 तच्च द्रव्यं राजधर्म्यं स्यात्
विश्वास-प्रस्तुतिः - 20
20 नष्टापहृतं अनिवेद्य उत्कर्षतः स्वामिनः पूर्वः साहसदण्डः
मूलम् - 20
20 नष्टापहृतं अनिवेद्य उत्कर्षतः स्वामिनः पूर्वः साहसदण्डः
विश्वास-प्रस्तुतिः - 21
21 शुल्कस्थाने नष्टापहृत उत्पन्नं तिष्ठेत्
मूलम् - 21
21 शुल्कस्थाने नष्टापहृत उत्पन्नं तिष्ठेत्
विश्वास-प्रस्तुतिः - 22
22 त्रिपक्षाद् ऊर्ध्वं अनभिसारं राजा हरेत्, स्वामी वा स्वकरणेन
मूलम् - 22
22 त्रिपक्षाद् ऊर्ध्वं अनभिसारं राजा हरेत्, स्वामी वा स्वकरणेन
विश्वास-प्रस्तुतिः - 23
23 पञ्चपणिकं द्विपदरूपस्य निष्क्रयं दद्यात्, चतुष्पणिकं एकखुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्रपशूनाम्
मूलम् - 23

विश्वास-प्रस्तुतिः - 24
24 रत्नसारफल्गुकुप्यानां पञ्चकं शतं दद्यात्
मूलम् - 24
24 रत्नसारफल्गुकुप्यानां पञ्चकं शतं दद्यात्
विश्वास-प्रस्तुतिः - 25
25 परचक्राटवीहृतं तु प्रत्यानीय राजा यथास्वं प्रयच्छेत्
मूलम् - 25
25 परचक्राटवीहृतं तु प्रत्यानीय राजा यथास्वं प्रयच्छेत्
विश्वास-प्रस्तुतिः - 26
26 चोरहृतं अविद्यमानं स्वद्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुं अशक्तो वा
मूलम् - 26
26 चोरहृतं अविद्यमानं स्वद्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुं अशक्तो वा
विश्वास-प्रस्तुतिः - 27
27 स्वयङ्ग्राहेणाहृतं प्रत्यानीय तन्निष्क्रयं वा प्रयच्छेत्
मूलम् - 27
27 स्वयङ्ग्राहेणाहृतं प्रत्यानीय तन्निष्क्रयं वा प्रयच्छेत्
विश्वास-प्रस्तुतिः - 28
28 परविषयाद् वा विक्रमेणानीतं यथाप्रदिष्टं राज्ञा भुञ्जीत, अन्यत्रार्यप्राणेभ्यो देवब्राह्मणतपस्विद्रव्येभ्यश्च इत्यस्वामिविक्रयः ।
मूलम् - 28

विश्वास-प्रस्तुतिः - 29
29 स्वस्वामिसम्बन्धः तु - भोगानुवृत्तिरुच्छिन्नदेशानां यथास्वं द्रव्याणाम्
मूलम् - 29
29 स्वस्वामिसम्बन्धः तु - भोगानुवृत्तिरुच्छिन्नदेशानां यथास्वं द्रव्याणाम्
विश्वास-प्रस्तुतिः - 30
30 यत् स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत, हीयेतास्य, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः
मूलम् - 30

विश्वास-प्रस्तुतिः - 31
31 विंशतिवर्ष उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत
मूलम् - 31
31 विंशतिवर्ष उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत
विश्वास-प्रस्तुतिः - 32
32 ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असन्निधौ परवास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राजश्रोत्रियद्रव्याणि च
मूलम् - 32

विश्वास-प्रस्तुतिः - 33
33 आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः
मूलम् - 33
33 आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः
विश्वास-प्रस्तुतिः - 34
34 अल्पां बाधां सहेरन्
मूलम् - 34
34 अल्पां बाधां सहेरन्
विश्वास-प्रस्तुतिः - 35
35 पूर्वागतो वा वासपर्यायं दद्यात्
मूलम् - 35
35 पूर्वागतो वा वासपर्यायं दद्यात्
विश्वास-प्रस्तुतिः - 36
36 अप्रदाता निरस्येत
मूलम् - 36
36 अप्रदाता निरस्येत
विश्वास-प्रस्तुतिः - 37
37 वानप्रस्थयतिब्रह्मचारिणां आचार्यशिष्यधर्मभ्रातृसमानतीर्थ्या रिक्थभाजः क्रमेण
मूलम् - 37
37 वानप्रस्थयतिब्रह्मचारिणां आचार्यशिष्यधर्मभ्रातृसमानतीर्थ्या रिक्थभाजः क्रमेण
विश्वास-प्रस्तुतिः - 38
38 विवादपदेषु च एषां यावन्तः पणा दण्डाः तावती रात्रीः क्षपणाभिषेकाग्निकार्यमहाकच्छवर्धनानि राज्ञश्चरेयुः
मूलम् - 38

विश्वास-प्रस्तुतिः - 39
39 अहिरण्यसुवर्णाः पाषढाः साधवः
मूलम् - 39
39 अहिरण्यसुवर्णाः पाषढाः साधवः
विश्वास-प्रस्तुतिः - 40
40 ते यथास्वं उपवासव्रतैराराधयेयुः, अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणेभ्यः
मूलम् - 40
40 ते यथास्वं उपवासव्रतैराराधयेयुः, अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणेभ्यः
विश्वास-प्रस्तुतिः - 41
41 तेषु यथा उक्ता दण्डाः कार्याः
मूलम् - 41
41 तेषु यथा उक्ता दण्डाः कार्याः
विश्वास-प्रस्तुतिः - 42
42ab प्रव्रज्यासु वृथाऽऽचारान् राजा दण्डेन वारयेत् ।
42chd धर्मो ह्यधर्म उपहतः शास्तारं हन्त्युपेक्षितः (इति)
मूलम् - 42